सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 668, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 668

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६३
जायन्ते । वैशब्दः “ स इमाँल्लोकानसृजत ” इत्यादिश्रुत्यन्तरप्रसिद्धद्योतनार्थः ।
उत्पन्नानि च भूतानि येन वस्तुना जीवन्ति स्थितिं लभन्ते । प्रयान्ति नाशं प्रतिपद्य-
मानानि भूतानि यद्वस्त्वभिसंविशन्ति साकल्येन प्रविशन्ति, यथा फेनतरङ्गबुद्बुदादी-
नामुत्पत्तिस्थितिलयाः समुद्रे भवन्ति तद्वत्, जगदुत्पत्तिस्थितिलयकारणं वस्तु विचारय,
तदेव वस्तु त्वया पृष्टं ब्रह्म । इतिशब्द उत्तरसमाप्त्यर्थः ।
विचारकर्तव्यता च प्रथमाध्यायस्य प्रथमपादे* चिन्तिता—
“ अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ।
असंदेहाफलत्वाभ्यां न विचारं तदर्हति ॥
असाध्योऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ।
संदेहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ” ॥ इति ।
“ आत्मा वा अरे द्रष्टव्यः श्रोतव्यः ” [बृह० २ । ४ । ५] इत्यत्राऽऽत्मदर्शनं
फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि
तात्पर्यं निर्णतुमनुकूलो न्यायविचारः । तदेतद्विचाराविधायकं वाक्यं विषयः । न चायं
विषयः श्लोकेन संगृहीतः । संदेहसंग्रहेणैवार्थात्तत्संग्रहप्रतीतेः । ब्रह्मविचारात्मकन्या-
यनिर्णायकं शास्त्रमनारभ्यमारभ्यं वेति संदेहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र संदेहे
बीजमुन्नेयम् । तत्रानारम्भ्यमिति तावत्प्राप्तम् । विषयप्रयोजनयोरभावात् । संदिग्धं
हि विचारस्य विषयो भवति । ब्रह्म त्वसंदिग्धम् । तथा हि तत्किं ब्रह्माकारेण संदि-
ग्धं आत्माकारेण वा । नाऽऽद्यः । “ सत्यं ज्ञानमनन्तं ब्रह्म ” [तैत्ति० २ । १ । १ ]
त्यादिवाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः । अहंप्रत्ययेनाऽऽकारस्यापि
निश्चयात् । अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्यय इति चेन्न, अध्यासानिरूपणात् ।
तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्या-
ध्यासो न निरूपयितुं शक्यते । तस्माद्भ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदि-
ग्धत्वान्न विचारस्य विषयोऽस्ति । नापि प्रयोजनं पश्यामः । उक्तप्रकारेण ब्रह्मा-
त्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्माद्ब्रह्म न विचारमर्हतीति शास्त्रमनारम्भणीय-
मिति पूर्वपक्षः । अत्रोच्यते—शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात् । श्रुत्यहंप्र-
त्ययोर्विप्रतिपत्त्या संदिग्धं ब्रह्मात्मवस्तु । “ अयमात्मा ब्रह्म ” [बृह० २ । ५ ।
१९ ] इति श्रुतिरस्सङ्गं ब्रह्माऽऽत्मत्वेनोपदिशति । अहं मनुष्य इत्याद्यहंबुद्धिर्देहा-
दितादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपत्वमलंकाराय ।

  • अथातो ब्रह्मजिज्ञासा—ब्र० सू० अ० १ पा० १ अ० १ सू० १ ।