सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 673, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 673

६६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
धीशुद्धिपरत्वं च तृतीयाध्यायस्य चतुर्थपादे* चिन्तितम्—
“बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ।
वयस्तस्याविधेयत्वात्कामचारोऽस्तु नेतरत् ॥
मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ।
अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥
“ बाल्येन तिष्ठासेत् ” इत्यत्र बालस्य भावो बाल्यमिति प्रसिद्ध्या वयो भवेत् ।
अथ तस्य विध्यनर्हत्वम् । तर्हि बालस्य कर्मेति व्युत्पत्त्या कामचारवादादिकमस्तु ।
सर्वथाऽपि न धीशुद्धिर्बाल्यमिति प्राप्ते ब्रूमः—पाण्डित्यमौनाख्ययोः श्रवणनिदिध्या-
सनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता । रागद्वे-
षमानावमानादिदोषग्रस्तत्वेन बहिष्प्रवृत्ति मपरित्यज्य मन्तुमशक्यत्वात् । बालस्य कर्मेति
व्युत्पत्तिस्तु बालेच्छाचारे भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तम-
नुपयुक्तौ प्रत्युत विरोधिनौ मूढस्य बहिष्प्रवृत्तस्य वा मनसो मननविनाशकत्वात् ।
तस्माद्भावशुद्धिरेव बाल्यं नेतरदुभयम् ” ।
मुनित्वस्य विधिकल्पनं तत्रैव+ चिन्तितम्—
“अविधेयं विधेयं वा मौनं किं न विधीयते ।
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥
निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ।
विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये ॥
कहोलब्राह्मणे श्रूयते—“तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ” इति । अस्यायमर्थः । यस्माद्ब्रह्मभावः परमः
पुरुषार्थस्तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण संपाद्य बालव-
त्त्रीरागद्वेषत्वेन युक्तोऽसंभावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् । ततः
पाण्डित्यबाल्ये निःशेषेण संपाद्याथ मुनिरिति । तत्र भवेदिति विध्यश्रवणान्मुनित्वं न
विधेयम् । न च विधिः कल्पयितुं शक्यः । पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थ-
त्वाभात् । पण्डितस्य विदुषो भावः । पाण्डित्यमिति ज्ञानवाचकोऽयं शब्दः । तथा
मुनिशब्दोऽपि मन ज्ञान इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात्प्राप्तस्य मौनस्य न विधि-

  • अनाविष्कुर्वन्नन्वयात्—ब्र०सू० अ० ३ पा० ४ अ० १५ सू० ५० । + सहकार्यन्तरविधिः
    पक्षेण तृतीयं तद्वतो विद्यादिवत्—ब्र० सू० अ० ३ पा० ४ अ० १४ सू० ४७ ।
    १ ग. ˚त्त्वं तृ॑ । २ ग. ˚ध्याये च॑ । ३ ख. ˚था न॑ । ४ ख. ˚योर्मन॑ । ५ ग. घ.
    ˚वृत्तिं प॑ । ६ ग. घ ˚स्तु भा॑ । ७ ख तन्न । ८ ग. घ. बःह्येष्वं ।