तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
[प्र०७अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४७९
मात्रादित्रयलोपेऽपि लोपसाक्षितयेक्ष्यते ।
योऽसावलुप्तचैतन्यस्तल्लोपः शङ्क्यते कथम् ॥
ऐकात्म्यस्य स्वतो मुक्तेरज्ञानात्तस्य बद्धता ।
ज्ञानादज्ञानहानौ स्यात्किमपेक्ष्यं विमुक्तये ॥
परोक्षत्वेन शास्त्रेण बुद्धं न त्वनुभूयते ।
प्रसंख्यानमतोऽपेक्ष्यमिति चेद्युज्यते न तत् ॥
मेयस्वभावात्पारोक्ष्यं किंवा शब्दस्वभावतः ।
आद्ये किं ब्रह्मता तत्र परोक्षा स्यादुताऽऽत्मता ॥
यत्साक्षादपरोक्षं तद्ब्रह्मेति ब्रह्मणः श्रुतौ ।
मुख्यापरोक्ष्यमुदितं पारोक्ष्यं शङ्क्यते कुतः ॥
आत्मनस्तत्र पारोक्ष्यं पूर्वमेवे निराकृतम् ।
शब्दः स्वयमुदासीनः परोक्षत्वापरोक्ष्ययोः ॥
देशादिभिर्व्यवहितं पारोक्ष्येणावबोधयेत् ।
इतरत्वापरोक्ष्येण दशमस्त्वमसीतिवत् ॥
देशात्कालाद्वस्तुतो वा व्यवधानं मनागपि ।
ऐकात्म्यवस्तुनो नास्ति तत्र पारोक्ष्यधीः कुतः ॥
तमोमात्रान्तरायत्वादैकात्म्याख्यस्य वस्तुनः ।
असाध्यसाधने तस्मिन्काऽपेक्षा भावनां प्रति ॥
ननु विज्ञाय कुर्वीत प्रज्ञामित्यनुशासनात् ।
कर्तव्या भावनेत्येवं यदि ब्रूषेऽस्तु भावना ॥
नैतावताऽवकाशोऽस्ति तन्मतस्यात्र कश्चन ।
नैवानुभूतिसिद्ध्यर्थमिदं श्रौतानुशासनम् ॥
विज्ञायेत्यनुभूतिं तां वाक्यजन्यामुपेत्य तु ।
विदधाति तदैकाग्र्यं बहिवृत्तिनिवृत्तये ॥
विवक्षितोपयोगोऽत्र वाक्यशेषेण वर्णितः ।
नानुध्यायाद्बहूञ्छब्दान्वाचो १वेग्लापनं हि तत् ॥
किं बहूक्त्याऽत्र वेदान्ता बोधमात्रावसायिनः ।
बुभुत्सोरधिकारोऽतश्चिक्रीर्षोस्तु न कस्यचित् ” इति ॥
इत्थमुपनिषदो विषयप्रयोजनसंबन्धाधिकारिणो निरूपिताः । “ अधिकारिणः
तिजनको वेदः ” इति न्यायेनेयमुपनिषदूबुभुत्सोर्ब्रह्मात्मतत्त्वे प्रमिति जनयति । न
१ ग. ॰स्य विविदित ।
Here is the line-by-line transcription into clean Devanagari based on the provided image:
४८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७ अनु०]
चोपनिषदः प्रामाण्ये विवादितव्यम् । तत्प्रामाण्यस्य स्वतस्त्वस्वीकारादप्रामाण्ये कारण
भावाच्च । किमबोधैकफलत्वादप्रामाण्यमुत बाधितत्वाद्वाऽनुवादकत्वात् । नाऽऽद्यः
सत्यं ज्ञानमनन्तं ब्रह्मेत्याद्यवान्तरवाक्यानामयमात्मा ब्रह्मेति महावाक्यानां च श्रवण
मात्रेण बोधोपलम्भात् । नन्वात्मा ब्रह्मेतिपदयोरर्थौ लौकिकावलौकिकौ वा । नाऽऽद्यः
वेदस्यानुवादकत्वप्रसङ्गात् । द्वितीये संबन्धग्रहणासंभवादबोधकत्वम् । अथोच्येत
पदार्थयोर्लौकिकत्वेन संबन्धग्रहणम् । वाक्यार्थस्य लौकिकत्वाभावादननुवादकत्वम् । ए
देवाभिप्रेत्य धर्ममीमांसायां निर्णीतम्—“लोकावगतसामर्थ्यः शब्दो वेदेऽपि बो
कः” इति । तदसत् । वाक्यार्थस्य दुर्निरूपत्वात् । किं संसर्गो वाक्यार्थः किं
विशिष्ट उताखण्डैकरसः । तत्राभिहितान्वयवादिनो भट्टाः पदैरभिहितानां पदार्था
संसर्गे वाक्यार्थमाहुः । अन्विताभिधानवादिनस्तु प्राभाकरा योग्येतरविशिष्टं नियो
वाक्यार्थमाहुः । एवमत्राप्यात्मब्रह्मणोः संसर्गस्याऽऽत्मविशिष्टब्रह्मणो वा वाक्यार्थी
सत्यपसिद्धान्तस्तव प्रसज्येत । त्वदभिमतस्याखण्डैकरसार्थस्यासिद्धेः । तर्ह्यखण्डैकर
एव वाक्यार्थोऽस्त्विति चेन्न दृष्टान्ताभावात् । । कथंचित्सत्यपि दृष्टान्ते हानोपादानर
हित्येन पुरुषार्थाभावात् । किंचाखण्डैकरसत्वसिद्धयर्थं जगतो मिथ्यात्वे वेदस्यां
मिथ्यात्वादप्रामाण्यं स्यात् । अत्रोच्यते—त्वया हि दूष्यत्वेन परमतमनुवदितुमसण्डै
करसं वस्त्विति यद्वाक्यं प्रयुज्यते तस्यैव वाक्यस्य दृष्टान्तत्वमभ्युपेयम् । ना
तत्र संसर्गस्य विशिष्टस्य वा वाक्यार्थत्वम् । तथा सत्यदूष्यत्वप्रसङ्गात् । न ख
तदुभयं त्वया दूष्यते स्वमतत्वेन स्वीकारात् । तस्मादनुवादकँमखण्डैकरसं वस्त्विा
वाक्यं तत्रैको दृष्टान्तः । पूर्वाचार्या अपि वर्णयन्ति—सत्यज्ञानादिवाक्यमखण्डार्थनि
लक्षणवाक्यत्वात्प्रकृष्टप्रकाशश्चन्द्र इतिवाक्यवत् । प्रकृष्टशब्देन नक्षत्रप्रकाशन्यावृत्तिः
प्रकाशशब्देन मेघादिन्यावृत्तिः । ततो बुभुत्सितं चन्द्रं(न्द्र)प्रातिपदिकार्थमात्रमखण्डमेने
वाक्येन बोध्यते । तथा तत्त्वमस्यादिवाक्यमखण्डार्थनिष्ठमकार्यकारणद्रव्यनिष्ठत्वे स
समानाधिकरणत्वात्सोऽयं देवदत्त इतिवाक्यवत् । परस्परविरुद्धाभ्यां तद्देशकालाभ्य
मेतद्देशकालाभ्यामुपलक्षितस्य देवदत्तव्यक्त्यैक्यस्य प्रतिपाद्यत्वादखण्डार्थत्वम् ।
वार्तिकसारेऽप्यखण्डार्थत्वं वाक्यस्य प्रतिपादितम्—
“प्रसिद्धात्मन्यात्मशब्दप्रयोगात्स हि लौकिकः ।
ब्रह्मार्थोऽपि महत्त्वेन प्रसिद्धेः व्यवहारतः ॥
एवं पदार्थपरिज्ञाते पदार्थे लोकमानतः ।
वाक्यार्थोऽतीन्द्रियो वेदवाक्यात्केन निवार्यते ॥
अपूर्वदेवतास्वर्गपदार्थाँल्लोकमानतः ।
१ ख. °धक° । २ म. °फलात् । ३ घ. भाट्टाः । ४ क. ख. ड. °ष्टपारं° ।
व्युत्पाद्यालौकिकोऽप्यर्थो वाक्याद्बुद्भूस्त्वया यथा ।
यथाऽर्थवादादिवशात्स्वर्गार्थोऽवगम्यते ॥
तर्ह्यवान्तरवाक्येन(ण) ब्रह्मार्थोऽप्यवगम्यताम् ।
अप्रसिद्धपदार्थोऽपि प्रसिद्धार्थपदैः सह ॥
समभिव्याहृतेर्बोद्धुं शक्यो मधुकरादिवत् ।
अतो लोकानुसारिण्या व्युत्पत्त्याऽर्थोऽप्यलौकिकः ॥
धर्मब्रह्मात्मकः सिद्ध्येत्तत्र कस्मादमानता ।
अन्यत्रेवात्र वाक्यार्थो नैव संसृष्टलक्षणः ॥
विशिष्टलक्षणो वा स्यात्किंत्वखण्डत्वलक्षणः ।
ब्रह्मणोऽनात्मतारूपमब्रह्मत्वं तथाऽऽत्मनः ॥
अज्ञानजं द्वयं द्वाभ्यां पदाभ्यां विनिवार्यते ।
नेहान्यदात्मनो ब्रह्म न चाऽऽत्मा ब्रह्मणोऽन्यतः ॥
तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम् ।
[L14
? wait, look at the shape: it has a vertical bar, but wait, look below: it has त? No, look at प्ता: it's प्त! And above it is ौ? No, wait! Is it प्तौ?)
Wait, look at line 18:
अ त ऐ का त्म्य मा न स्य भे द मा न स्य वा द्व योः ॥ (16 aksharas)
Now let's count in line 19:
1 ए
2 क
3 स्य
4 बा
5 ध
6 सं
7 प्रा
8 ?
9 ?
10 धीर्
11 बा
12 ध्ये
13 ते
14 ऽ
15 न्य
16 था
Wait! 16 aksharas total!
Let's check positions 7, 8, 9:
7 is प्रा
8 is ?
9 is ?
If 7, 8, 9 are three aksharas, then:
1 ए
2 क
3 स्य
4 बा
5 ध
6 सं
7 प्रा
8 प्तौ
9 नै? or 8 प्तौ 9 क्ये?
Wait, if Pada 1
प्र० ७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४८३
सावकाशं ततस्तस्य बाधो नैकात्म्यशास्त्रतः ।
ऐकात्म्यबोधकत्वेऽपि वेदान्ता बाधितत्वतः ॥
अप्रामाण्यं भजन्तीति पूर्वः पक्षो व्यवस्थितः ।
उच्यते लोकतः सिद्धं भेदमाश्रित्य चोदना ॥
प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये ।
आश्रयोऽप्यत्र यो भेदो मायिकोऽसौ न वास्तवः ॥
नेह नानेति शास्त्रात्तु वास्तवः प्रतिषिध्यते ।
आगमो मायिकं भेदं न निषेधति किं त्विमम् ॥
मायिको भेद इत्येवं प्रत्युत प्रतिपादयेत् ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥
इति माण्डूक्यशाखायां श्रुतिवाक्यमधीयते ।
प्रत्यक्षादिभिरप्यत्र भेदो भात्येष¹ मायिकः ॥
उपजीव्यः स एवातो नोपजीव्यविरोधिता ।
वास्तवे शुक्तिशकले मायिकं रजतं यथा ॥
भासते तद्वदेवेदमद्वैते भेदभासनम् ।
वास्तवे ब्राह्मणे स्वप्ने मायिकी शूद्रता यथा ॥
न विरुद्धा तथा भेदो नाद्वैतेन विरुध्यते ।
प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम् ॥
आश्रित्यायं प्रपञ्चः स्यादलीकोऽपि प्रमाणवान् ।
अद्वैतागमवाक्यं तु तत्त्वावेदनलक्षणम् ॥
प्रमाणभावं भजतां नातोऽन्योन्यविरोधिता ।
नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा ॥
इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ।
विभिन्नविषयत्वेन विरोधासंभवे सति ॥
अबाधितत्वादैकात्म्यं प्रामाणिकमिति स्थितम् ।
ननु वेदान्तसिद्धान्तमजानन्तोऽपि वादिनः ॥
लौकिकाश्च स्वमात्मानं जानन्ति स्वस्वमानतः ।
मानं प्रत्यक्षमन्यद्वा यथायोग्यं भवेत्ततः ॥
ज्ञातात्मकथनादेते² वेदान्ता अनुवादिनः ।
नैवाऽऽत्मनोऽन्यद्वस्त्वेतैर्वेदान्तैः प्रतिपाद्यते ॥
१ ख. ॰त्येव मा॰ । २ क. ग. ङ. ज्ञानात्म॰ ।
येनापूर्वार्थलाभेन तेषामननुवादता ।
उच्यते मान्तरात्सिद्धः किं देहात्माऽथवेतरः ॥
नाऽऽद्ये स्यादनुवादित्वं देहात्मानुकीर्तनात् ।
न वेदान्ताः क्वचिद्देह आत्मेति प्रतिपादयन् ॥
यः कोशोऽन्नमयः प्रोक्तस्तन्नास्त्वेवानुवादता ।
देहेतरोऽपि किं कर्ता ब्रह्म वोभयथाऽपि वा ॥
तयोर्मानान्तराबोधादाशङ्कचा नानुवादता ।
वादिनो लौकिका वाऽत्र भविष्यद्देहभागिनम् ॥
कर्त्रात्मानं न जानन्ति वेदान्तवचसा विना ।
देहान्तराभिसंबद्धो भावित्वान्नाक्षगोचरः ॥
लिङ्गसादृश्यविरहान्नानुमानोपमा तथा ।
भावरूपात्मबोधाय नाभावोऽपि प्रवर्तते ॥
अर्थापत्तिर्न संभाव्या दृष्टकल्पकवर्जनात् ।
अन्यथाऽनुपपन्नोऽपि श्रुतः स्वर्गो न कल्पकः ॥
श्रुतार्थापत्तितोऽप्यत्र श्रुतिरेव बलीयसी ।
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ॥
इति वेदान्तवचसा भविष्यद्देहयोगधीः ।
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मतः ॥
चार्वाक इव नो कुर्याद्दृष्टार्थाः क्रियाः सुधीः ।
योगिप्रत्यक्षतो भाविसंबन्धो ज्ञायते यदि ॥
तथाऽपि योगिता श्रौतानुष्ठानादेव नान्यथा ।
योगिभिर्व्यवधानाद्वा साक्षाद्वा श्रुतिरेव हि ॥
कर्त्रात्मनि प्रमाणं स्यात्स्वर्गादिफलभोक्तरि ।
ब्रह्मात्मन्यप्यहंबुद्धिर्न मानं स्यात्कथंचन ॥
प्रत्युताहंबुद्धिरेव सिद्ध्यत्यात्मानुभूतितः ।
शास्त्रैकवेद्यता प्रोक्ता विषयत्वनिरूपणात् ॥
तस्मादननुवादित्वात्सिद्धा वेदान्तमानता ।
प्रमाणं मेयसापेक्षं मेयता कस्य युज्यते ॥
इत्याकाङ्क्षानिवृत्त्यर्थं मेयमत्र निरूप्यते ।
अविज्ञातः प्रमाणस्य विषयो वादिनां मतः ॥
सोऽज्ञातोऽर्थः प्रमाणात्किं सिध्येद्यद्वाऽनुभूतितः ।
न तावन्मानतः सिद्धिर्मानात्पूर्वमपेक्षणात् ।
सिद्धमज्ञातमुद्दिश्य ज्ञप्त्यै मानं प्रवर्तते ॥
अज्ञातत्वं न सिद्धं चेन्मानात्तत्केन सिध्यति ।
इति चेन्नित्यचैतन्या¹नुभावेनानुभूयते ॥
मानप्रवृत्तितः पूर्वमज्ञातत्वं यथा तथा ।
ज्ञातत्वमप्युत्तरञ्च चैतन्येनानुभूयते ॥
प्रवृत्तं विषये मानं बोधयेद्विषयोंकृतिम् ।
ज्ञातताज्ञातते भातो न तेनाविषयत्वतः ॥
रूपार्थं संप्रवृत्तेन नेत्रेण रसगन्धयोः ।
अगृहीतितया तद्वज्ज्ञाताज्ञातत्वयोर्भवेत् ॥
नेत्रागृहीतयोरन्यद्बोधकं स्याद्यथा तथा ।
ज्ञातताज्ञातते ग्राह्ये अमेये अपि ते चिता ॥
अज्ञानव्याससञ्ज्ञातं ज्ञातं मानेन भासितम् ।
तच्चोभयं साक्षिभास्यमाहुर्वेदान्तपारगाः ॥
सर्वं वस्तु ज्ञाततया ह्यज्ञातत्वेन वा सदा ।
साक्षिचैतन्यविषय इति शास्त्रेषु निश्चयः ॥
चितैवाज्ञाततासिद्धावज्ञातो यः स मीयते ।
सर्वैर्मानैरतश्चिन्त्यं कस्याज्ञातत्वमीदृशम् ॥
चेतनोऽचेतनो वाऽयमज्ञातो यद्यचेतनः ।
तन्नाज्ञातार्थकार्यस्य जडस्याज्ञातता कुतः ॥
अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि ।
अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः ॥
रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः ।
इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥
किंचाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत् ।
स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः ॥
आविर्भूतस्वरूपे तु चेतनेऽन्येन निर्मितात् ।
तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा ॥
चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्वचित् ।
१ ख. ॰नुभवे॰ । २ क. ङ. यानपि । ज्ञा॰। ३ ग. ॰तनाव्ये॰। ४ क. ख. घ. ङ. ॰हतिः
1° । ५ क. ख. छ. केषु च । ६ ग. किंवाऽज्ञा॰ ।
एवं चेतनमज्ञातं जडं त्वज्ञानदेहकम् ॥
कार्यकारणरूपं यन्निखिलं जडमीक्ष्यताम् ।
तेन सर्वेण चिद्रूपः स्वप्रकाशस्तिरोहितः ॥
तिरोहितेनोभयं तद्भासते चन्द्रराहुवत् ।
लयः प्रकाशनाशो वा नास्ति चन्द्रवदेव हि ॥
राहुग्रस्तत्वमिन्दौ चेदस्मद्दृष्ट्यैव भासते ।
अज्ञातत्वं चितस्तद्वन्मूढदृष्ट्यैव भासताम् ॥
अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः ।
अक्षादीनां स्वतःसिद्धे यन्न तेषां प्रमाणता ॥
अनुभूतिग्रहायैव प्रवृत्तान्यपि दुष्टया ।
सामग्र्याऽखिलमानानि गृह्णते जडसंयुताम् ॥
शुक्तिकाग्रहणायैव प्रवृत्तमपि लोचनम् ।
गृह्णीते रजतोपेतं शुक्त्यंशं दोषयोगतः ॥
वेदान्तेतरसामग्री दुष्टैषा चक्षुरादिका ।
तैज्जा धीरत्र गृह्णाति स्फूर्तिं रूपादिंसंयुताम् ॥
एवं च सति विभ्रान्तः कल्पिते रजते धियम् ।
प्रमाणं मनुते यद्वद्रूपादौ मनुजास्तथा ॥
धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः ।
विपर्ययं प्रकारे तु वदन्ति रजतादिके ॥
सर्वधर्मिणि सद्रूपे प्रमा धीवृत्तयोऽखिलाः ।
तथा रूपादिके बुद्धिः स्याद्विपर्ययरूपिणी ॥
एवं न्यायेन संसिद्धा प्रमाणानां प्रमाणता ।
ब्रह्मण्येव तथा प्रज्ञा रूपादावेव तां विदुः ॥
धर्मिण्येव प्रमाणं सदपि मानं विमूढधीः ।
रजतग्राहकं मानमिति विद्याद्यथा तथा ॥
ब्रह्मण्यक्षादिमानत्वमिति न्यायविदां मतम् ।
रूपादावेव तन्मात्वमिति मूढधियो जगुः ॥
किं बहूक्त्या प्रमेय स्यादज्ञातत्वेन चेतनः ।
सर्वेषामपि मानानामज्ञातत्वाभिभाविनाम् ॥
वेदान्तानां विशेषेण निःशेषाज्ञानघातिनाम् ।
१ क. ख. ङ. ऽमिन्दौ यं° । २ ङ. तज्जधी° ।
[प्रपा०७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४८७
अज्ञातश्चेतनो मेयो नाज्ञातोऽन्योऽस्ति कश्चन ॥
किं चाऽऽनन्दाप्तिरूपस्य पुरुषार्थस्य हेतवः ।
वेदान्तास्तेन तन्मेय आनन्दात्मा परः पुमान् ” ॥
उक्तमन्त्रोपनिषदो विषयादिचतुष्टयम् ।
प्रामाण्यमपि तन्मेयमथ व्याख्या प्रवर्तते ॥
सेयं तैत्तिरीयोपनिषत्त्रिविधा । सांहिती वारुणी याज्ञिकी चेति । तत्र प्रथम-
प्रपाठके संहिताध्यायस्योक्तत्वात्तद्रूपोपनिषत्सांहिती । द्वितीयतृतीययोः प्रपाठकयोर्या
ब्रह्मविद्याऽभिहिता तस्याः संप्रदायप्रवर्तको वरुणस्तस्मात्तदुभयरूपोपनिषद्दारुणी । चतु-
र्थप्रपाठके यज्ञोपयुक्ता अपि मन्त्रास्तत्र तत्राऽऽम्नाता अतस्तद्रूपोपनिषद्याज्ञिकी ।
तासां तिसृणां मध्ये वारुणी मुख्या । तस्यां परमपुरुषार्थस्य ब्रह्मप्राप्तिलक्षणस्य साक्षा-
देव साधनभूताया ब्रह्मविद्यायाः प्रतिपादितत्वात् । एवं तर्ह्यभ्यर्हितत्वेन सैव प्रथमं
पठित्येति चेन्न । तस्यामधिकारसिद्धये सांहित्याः प्रथमं पठितव्यत्वात् । यद्यपि
विविदिषोर्विद्यायामधिकारो विविदिषा च कर्माभिरेवोत्पादिता तथाऽपि न कर्माभिश्चित्त-
चैकाग्र्यमुत्पद्यते । प्रत्युतै प्रवृत्तिबाहुल्याद्विक्षेपवासनैव भूयसी भवति । एकाग्र्यस्य
साक्षात्कारहेतुत्वं कठा आम्नन्ति—“दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः”
ति । एकाग्र्यं च ध्यानाभ्यासेन जन्यते । अत एव पतञ्जलियोंगस्वरूपं तत्साधनं च
सूत्रयामास—“ योगश्चित्तवृत्तिनिरोधः ” “ अभ्यासवैराग्याभ्यां तन्निरोधः ” इति । अतो
ध्यानाभ्यासाय सांहित्याः प्रथमभावित्वं युक्तम् । ‘ श्रेयांसि बहुविघ्नानि ’ इति लौकि-
क न्यायाद्विशेषतो ब्रह्मविद्यायां देवकृतविघ्नबाहुल्यसंभवाच्चाऽऽदौ विघ्नपरिहाराय प्रयतित-
व्यम् । दैविक् विघ्नसम्भावना च बृहदारण्यकेऽवगम्यते— “ अथ योऽन्यां देवतामुपास्तेऽ-
न्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो
मनुष्यं भुञ्जुरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु
बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ” इति । अयमर्थः— द्वौ हि पुरुषौ
ब्रह्मवित्कर्मी च । तत्र ब्रह्मविदः सर्वभावापत्तिर्भवतीति पूर्ववाक्ये समाम्नातम्—“ य
एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ” इति । विदितब्रह्मतत्त्वस्य पुरुषस्य सर्वभा-
वापत्तिविधाय देवा अपि न समर्थाः । यस्मादयं ब्रह्मविदेषां देवानामात्मा भवति । एत-
दपि तत्रैवाऽऽम्नातम्—“ तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति ”
इति । इत्थं ब्रह्मविदः परमपुरुषार्थमाम्नाय विद्यारहितस्य तदभावं दर्शयितुमथ योऽन्या-
मित्यादि वाक्यमाम्नातम् । अथ ब्रह्मविद्यामहिमोक्त्यनन्तरमविद्यामहिमा वर्ण्यते । यः
१ ग. व. ॰थ्यो वि॰ । २ घ. ॰लै वृ॰ ।
४८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७अनु०१]
पुमान्स्वातिरिक्तां देवतामुपास्ते सेवतेऽसावुपास्यो देवो मत्तोऽन्योऽहं चोपासको देवाद्-
न्योऽस्मीति सोऽयमुपासको भेददर्शी सन्स्वस्य ब्रह्मत्वलक्षणमहिमानं न जानाति । यथा
गजाश्वादिरूपः पशुः स्वस्य शक्त्याधिक्यमज्ञात्वा स्वल्पशक्तीनामपि मनुष्याणामधीनो
भवत्येवमज्ञानी स उपासको देवानांमधीनो भवति । यथा धेन्वजाश्वबलीवदमहिषादयो
बहवः पशवः क्षीरप्रदानभारवाहनादिना स्वोचितव्यापारेणैकं मनुष्यं पालयन्त्येवमज्ञानी
पुरुष एकैक एवाग्निसूर्येन्द्रादीन्देवान्हविष्प्रदानादिना पालयति । तस्मादेकैकः पुरुषो
देवानां सर्वपशुस्थानीयः । यथा बहुपशुस्वामिनः पुरुषस्यैकस्मिन्नेव पशौ चोरव्याघ्रादि-
भिरपह्रियमाणे सति महदप्रियं भवति तत्र बहुषु पशुष्वपहृतेषु सत्सु किमु वक्तव्यम् ।
तस्मान्मनुष्या एतद्ब्रह्मात्मत्वं विदुरिति यदेतदस्ति तदेतदेषां देवानामत्यन्तमप्रियमिति ।
एतस्य चाप्रियत्वस्य श्रुत्युक्तत्वाद्व्रह्मविद्यायां देवकृतो विघ्नः संभाव्यते ।
अयमर्थो वार्तिकसारे स्पष्टं संगृहीतः —
“ स्वस्य तत्त्वमविज्ञाय यागदानादिकर्मभिः ।
स्वतोऽन्या देवताः पाति ह्यनड्वान्बणिजं यथा ॥
अपि भूरिपशोः पुंस एकस्मिन्नपि तस्करैः ।
ह्रियमाणे पशौ दुःखं किमु सर्वापहारतः ॥
सर्वस्वतुल्ये नृपशौ ब्रह्मधीपरिमोषिणा ।
ह्रियमाणे महद्दुःखं स्यात्सर्वेषां दिवौकसाम् ॥
तस्मादेषामप्रियं तद्यन्मनुष्या विजानते ।
ब्रह्मात्मत्वमतो देवाः प्रतिबध्नन्ति वेदनम् ॥
प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ” ॥ इति ।
यथा देवाः प्रतिबन्धकास्तद्वत्पुत्रादयोऽपि ब्रह्मविद्यायाः प्रतिबन्धकाः । एतदपि बृह-
दारण्यक एव—“ अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ” इत्यादिनाऽभिहितम् ।
तदर्थोऽप्येवं संगृहीतः—
“ वर्णाश्रमाभिमानी सन्नतत्त्वज्ञः पराङ्मतिः ।
देवादीनामाश्रयः स्यात्सर्वेषामापिपीलिकम् ॥
देवानां यागहोमाभ्यामृषीणां वेदपाठतः ।
पितॄणां श्राद्धतो नृणां वस्त्रान्नगृहदानतः ॥
पशूनां तृणनीराभ्यामुच्छिष्टकणधान्यतः ।
१ ग. ॰बाधी॰ ।
विघ्न ।"
Wait, look at: "विद्यायामरुचिराद्यो विघ्नः" in L20-21:
"विद्यायामरु- / चिराद्यो विघ्नः ।"
Ah! "रुचिराद्यो विघ्नः"!
Wait: "विद्यायाम् अरुचिः आद्यो विघ्नः"!
"अरुचिराद्यो विघ्नः" = "अरुचिः आद्यो विघ्नः" (lack of interest is the first obstacle).
What if in manuscript ख, instead of "आद्यो विघ्नः" it reads:
"१ ख. 'र्थ विघ्न ।" or "'ध विघ्न ।"?
Wait, look at "आद्यो" -> "द्यो"!
The letters are "द्यो"!
And footnote 1 has: "१ ख. '... विघ्न ।"
Could it be "१ ख. 'दि विघ्न ।"? (i.e. आदिविघ्नः instead of आद्यो विघ्नः!)
YES! Look at the letter in footnote 1:
"१ ख. 'दि विघ्न ।"
Wait, let's zoom in on footnote 1:
The letter before विघ्न:
It has an i-matra (ि) curling over from the left!
Wait, look at it:
The vertical line is on the left! Then a curve at the top, and the letter is 'द'!
It is 'दि'!
"१ ख. '
४९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]
अत एव भगवतोक्तम्—
“ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ” ॥ इति ।
तस्य पापक्षयस्य विषयवैराग्यं लिङ्गम् । एतच्च नैष्कर्म्यसिद्धावुक्तम्—
“ शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ” ॥ इति ।
श्रेयोमार्गेऽप्यभिहितम्—
“ ब्रह्मादिस्तम्बान्ते संसारेऽस्मिन्नसारताबुद्धिः ।
अन्तर्यामिणि देवे समर्पितस्वक्रियाविषिक्तिरियम् ” ॥ इति ।
विरक्तस्य विद्यायामरुचिकरे विघ्ने परिहृतेऽपि चित्तैकाग्र्यहेतोरुपासनस्य योगशब्दा-
भिधेयस्यान्तरायाः संभवन्ति । ते च पतञ्जलिना योगशास्त्रे सूत्रिताः— “ व्याधिस्त्या-
नसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपा योगा-
न्तरायाः ” इति । व्याधिः प्रसिद्धः । स्त्यानमकर्मण्यता चित्तस्य । चित्तं हि कदाचि-
त्तमोगुणबाहुल्येन व्यापारायोग्यं सन्मूढं भवति । उपास्यनिश्चयदार्ढ्यराहित्यं संशयः । उपा-
सनस्य कदाचिद्विस्मृतिः प्रमादः । पश्चात्करिष्यामीत्युपेक्षाऽऽलस्यम् । वैराग्यराहित्यम-
विरतिः । उपास्यवस्तुन्यन्यथा निश्चयो भ्रान्तिदर्शनम् । चित्तैकाग्र्यस्योत्तरोत्तराभिवृद्धि-
राहित्यमलब्धभूमिकत्वम् । कदाचिदुपासने प्रवृत्तिः कदाचित्यागदानादौ कदाचित्कृषिवा-
णिज्यादावित्येतादृगनवस्थितत्वम् ।
एतेषां योगान्तरायाणामुपशमनाय जप्यं मन्त्रमाह —
हरिः ॐ ।
शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒
इन्द्रो॒ बृह॒स्पति॑ः । शं नो॒ विष्णु॑रुरुक्र॒मः , इति ।
अह्नः प्राणवृत्तेश्चाभिमानी देवो मित्रो ३ नोऽस्माकं शं सुखहेतुर्भवतु । एवमुत्तरत्रापि
योज्यम् । रात्रेर्पानवृत्तेश्चाभिमानी वरुणः । चक्षुष आदित्यमण्डलस्य चाभिमान्यर्यमा ।
बाह्वोर्बलस्या(स्य चा)भिमानीन्द्रः । वाचि बुद्धौ चाभिमानी बृहस्पतिः । पादयोरभिमानी
विष्णुः स चोरुक्रमः । त्रिविक्रमावतारे विस्तीर्णपादोपेतत्वात् । अथवा प्राणादिष्ववय-
वेष्वभिमानिनां मित्रादीनामुक्तत्वादवयविनि कृत्स्नदेहेऽभिमानी विराट्पुरुषः परिशिष्यते ।
स चोरुक्रमशब्देनाभिधीयते । ब्रह्माण्डदेहोपेतत्वेन सर्वव्यापित्वमुरुक्रमत्वम् ।
१ क. घ. ङ. 'सू-शुद्धं' । २ क. ख. ग. ङ. 'भिक्तिम् । ३ ग. घ. मित्रः ।
तै. उ. शां० ।
[प्रपा० ७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९१
इत्थमवयवेष्ववयविनि चाभिमानिनो देवा विघ्नपरिहारेण सुखहेतुतया प्रार्थिताः ।
अथ तेषां देवानामन्तर्यामित्वेन प्रेरकं यत्परं ब्रह्म तदेतन्नमस्क्रियते --
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒
ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दि-
ष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑-
मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार॑म्, ॥ इति ।
यच्च ब्रह्म ज्ञानक्रियाशक्त्युपेतसूत्रात्मना वायुमूर्तिधारिणां सर्वेषां प्राणिनां विधा-
रकं भवति । “ वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः
सर्वाणि च भूतानि संदृब्धानि भवन्ति ” इति श्रुतेः । अतो वायुरपि नमस्क्रियते ।
तत्रान्तर्यामिणः शास्त्रानुमानाभ्यामेवावगम्यत्वेन परोक्षत्वान्नास्ति संबोधनम् । सूत्रा-
त्मना वायुरूपेण स्पर्शनिन्द्रियगम्यत्वात्संबोध्यते । अयमेवाभिप्रायस्त्वमेव प्रत्यक्ष-
मिति वाक्येन स्पष्टी क्रियते । यतो वायुपाधिकं ब्रह्म प्रत्यक्षयोग्यं ततो हे वायो
- त्वामेव व्याकरिष्यमाणेषूपासनावाक्येषु साक्षात्कारयोग्यं ब्रह्म वदिष्यामि । सोपा-
धिकं ब्रह्म तु येन येन प्रकारेणोपास्यते तेन तेन प्रकारेण चिराभ्यासे सति साक्षात्कर्तुं
शक्यते । अत एव च्छान्दोगाः शाण्डिल्यविद्यायामामनन्ति -- “एतमितः प्रेत्याभि-
संभविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्ति ” इति । अद्धा साक्षादित्यर्थः ।
वाजसनेयिनोऽप्यामनन्ति -- “देवो भूत्वा देवानप्येति ” इति । इहैव जन्मनि
साक्षात्कारो देवभावः । मरणादूर्ध्वं देवत्वापत्तिर्देवाप्ययः । अतो वक्ष्यमाणवाक्येषु
नानृतं वदिष्यामि किंतु विद्यमानमेवार्थं प्रत्यक्षं ब्रह्मेत्येतादृशं वदिष्यामि । विवक्षितस्य
विद्यमानार्थस्याऽऽदौ मनसा पर्यालोचनमृतवदनं पश्चाद्वचसोच्चारणं सत्यवदनमिति
तयोर्विवेकः । यदुत्तरत्र वक्ष्यमाणं प्रत्यक्षं ब्रह्म तन्मां विद्यार्थिनं शिष्यं वक्तारमाचार्यं
च विद्याग्रहणोपदेशसामर्थ्यप्रदानेनाप्युभौ पालयतु । अनयैव विवक्षया पुनरपि ‘ अवतु
माम् । अवतु वक्तारम् ’ इत्याभिधीयते--
इत्थं वायुरूपं प्रत्यक्षं ब्रह्म संप्राथ्र्यान्तर्यामिरूपं परोक्षं ब्रह्म तद्वाचकेन प्रणवेनानु-
स्मृत्य विघ्नशान्तिरस्त्विति प्रार्थ्यते--
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ( १ ), ॥ इति ।
- यद्यपि शान्तिवाक्ये त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामीत्येव वैदिकपाठ उपल-
भ्यते तथाऽप्युपसंहारशान्तौ त्वामेव प्रत्यक्षं ब्रह्मावादिषमित्येव वैदिकपाठात्तदनुरोधा-
च्छांकरभाष्येऽत्र चेतिकाराध्याहारेण लापनमकृत्वा त्वामेवेत्युद्दिश्यैवार्थकरणाच्च पुरात-
नपाठस्त्वामेवेत्येवानुमीयते ।
१ ख. वक्ष्यामि । २ ङ. ॰मिव ।
- सत्यं व॑दिष्या॒मि पञ्च॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
विघ्नाश्च त्रिविधाः । तत्र ज्वरशिरोव्यथादय आध्यात्मिकाः । देवाद्युपद्रवास्त आधि-
दैविकाः । यक्षराक्षसाद्युपद्रवास्त आधिभौतिकाः । तेषां त्रयाणामुपशमनाय त्रिः शान्ति-
शब्दः पठ्यते । प्रणवेनेश्वरानुस्मरणस्य विघ्नोपशमनार्थत्वं पतञ्जलिश्चतुर्भिः सूत्रैः सूत्र-
यामास - " क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः " " तस्य वाचकः
प्रणवः ' "तज्जपस्तदर्थभावनम् " "ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च" इति ।
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके
सांहित्यामुपनिषदि प्रथमोऽनुवाकः ॥ १ ॥
अथ सप्तमे द्वितीयोऽनुवाकः ।
प्रथमानुवाकोक्तमन्त्रजपेन परिहृतविघ्नस्य पुरुषस्योपासनार्थं ब्रह्मावबोधार्थं च तत्प्र-
तिपादको ग्रन्थो वक्तव्यः । तस्य च ग्रन्थस्यार्थज्ञानप्रधानत्वात्पाठे मा भूदौदासीन्यमि-
त्येतदर्थं द्वितीयानुवाके शिक्षाध्यायोऽभिधीयते । भवत्वौदासीन्यमिति चेन्न । अनर्थ-
प्रसङ्गात् ।
“ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् " ॥
इत्यादिन्यायात् ।
इन्द्रशत्रुवृत्तान्तश्च “ त्वष्टा हतपुत्रः " इत्यनुवाके विस्पष्टमभिहितः । एवं तर्हि
कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चेद्बाढम् । अत एव काण्डद्वयशेषत्वा × देहलीप्र-
दीपन्यायेनोभयोः काण्डयोर्मध्येऽभिहितः । न चोभयशेषत्वेन वेदस्योपक्रम एव पठ्यता-
मिति वाच्यम् । उभयशेषस्यापि विद्यायां प्रयोजनाधिक्यद्योतनाय विद्याकाण्डे पठनी-
यत्वात् । कर्मकाण्डे क्वचित्स्वरवर्णादिव्यत्ययेन यथाशास्त्रमर्थानवबोधेऽपि प्रायश्चित्ते-
नानुष्ठानवैकल्यं परिहर्तुं शक्यम् । अत एव प्रायश्चित्ताज्याहुतिमन्त्र एवमाम्नायते-
“ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वग्ँ हि वेत्थ यथात- - एतत्परिगणनं क्वचिन्नोपलभ्यते । × देहली सद्मद्वारसमीपतरभागस्तत्स्था-
नस्थो दीपो द्वारान्तःप्रदेशं तद्बहिर्भूतं चत्वरं च समुज्ज्वलयति । तथाऽयमध्यायः
कर्मज्ञानकाण्डयोर्मध्येऽभिहित इति पर्यवसितम् ।
[प्रपा० ७ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९३
पम्" इति । विद्याकाण्डे त्वयथाशास्त्रमर्थावबोधे सति वैकल्यं न समाधीयेत । न
ह्यन्यथाबोधः प्रायश्चित्तेन परिहर्तुं शक्यते । रज्जुसर्पादिभ्रान्तेर्गायत्रीजपादिभिः परिहा-
रादर्शनात् । अत एव कर्मस्विव विद्यायां वैकल्यपरिहाराय प्रायश्चित्तं किमपि नाऽऽ-
म्नातम् । प्रत्युत विद्यामभ्यस्यतः पापे प्रसक्तावप्यन्यप्रायश्चित्ताभावः स्मर्यते—
"यदि स्यात्पातकं किंचिद्योगी कुर्यात्प्रमादतः ।
योगमेव निषेवेत नान्यं मन्त्रं कदाचन" इति ॥
तस्माद्विद्यायामवैकल्याय यथाशास्त्रं बोद्धुमुपनिषत्पाठे प्रयत्नातिशयं विधातुमत्रैव
शीक्षाध्यायोऽभिधीयते—
ॐ शीक्षां॑ व्या॑ख्या॒स्या॒मः॑ । वर्ण॒: स्वर॑: । मा॒त्रा ब॒ल॑म् ।
साम
४९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० १]
अथ सप्तमे तृतीयोऽनुवाकः ।
द्वितीयेऽनुवाके दृष्टादृष्टोपकारी ग्रन्थपाठनियमो विहितः । तृतीये त्वैहिकामुष्मिकफल-
सिद्धये काचिदुपासना विधीयते । तत्राऽऽदौ तावन्मङ्गलाचरणार्थोऽयं मन्त्र आम्नायते ।
पूर्वोक्तशान्तिमन्त्रेण विघ्नोपशमः प्रार्थितः । अनेन तु मन्त्रेण विद्यातत्फलयोरुत्कर्षः
प्रार्थ्यते । तमिमं मन्त्रमाह—
सह नौ॒ यशः॑ । * सह नौ ब्रह्मवर्च॒सम्, ॥ इति ।
विद्यानिमित्तं यद्यशस्तन्नावावयोः शिष्याचार्ययोः सहास्तु । सम्यगनेनोपासनमनुष्ठीयत
इति शिष्यस्य यशः । सम्यगुपदिष्टमित्याचार्यस्य यशः । अनेन विद्यायामवैकल्यलक्षण
उत्कर्षोऽभिहितो भवति । ब्राह्मणस्योचितं श्रुताध्ययनलक्षणं तेजो ब्रह्मवर्चसम् । एतच्च
श्रूयमाणस्य फलस्य सर्वस्याप्युपलक्षणम् । “ संधीयते प्रजया पशुभिर्ब्रह्मवर्चसेनान्ना-
द्येन सुवर्गेण लोकेन ” इति हि श्रूयते । एतच्च ब्रह्मवर्चसादिफलमावयोः शिष्याचार्ययो
स्सहास्तु । यद्यप्युपासितुः शिष्यस्यैव तत्फलं तथाऽपि तदीयफलसंपत्तेराचार्यपरितोषहे-
तुत्वादाचार्यस्यापि फलत्वेनोपचर्यते । सोऽयं प्रार्थनारूपो मङ्गलाचरणार्थो मन्त्र
शिष्येण जप्य आचार्यस्य तु कृतार्थत्वान्नानेन कृत्यमस्ति ।
यदर्थमिदं मङ्गलाचरणं तामेतां विद्यां प्रतिजानीते—
अथातः॑ सꣳहि॒ताया उ॑प॒निषदं॑ व्याँख्यास्या॒मः । पञ्च॑-
स्वधि॒करणे॑षु । अधि॒लोकमधि॒+ज्यौतिषमधिवि॒द्यमधिप्र॒ज-
मध्या॒त्मम् । ता महा॑सꣳहि॒ता इत्या॑चक्षते, इति ।
अथशब्दः पूर्वानुवाकविहितवर्णस्वराद्युच्चारणाभ्यासानन्तर्यमाचष्टे । अतःशब्दस्
तूच्चारणवासनया युक्तत्वं हेतू करोति । यस्मादुपासनायां प्रवर्तमानः पुरुषश्चिराभ्यस्त
वेदपाठेन वासितः सन्व्देदपाठसंबन्धराहितेषूपासनेषु चित्तं सहसा प्रवेशयितुं न शक्नोति
तस्मात्तत्संबन्धिनीं संहिताया उपनिषदं विस्पष्टमा समन्तात्कथयिष्यामः । वर्णा
परस्परमत्यन्तसामीप्यं संहिता । “ परः संनिकर्षः संहिता ” इति पाणि॒निना सूत्रि-
त्वात् । उप सामीप्ये निषण्णं प्रजापशुब्रह्मवर्चसादिफलमस्यामित्युपनिषदुपासना ताम
- अत्र सकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः । + अत्र सर्वत्र
पुस्तकेष्वधिज्योतिषमिति पाठः ।
१ ख. °केऽदृष्टो° ।
[प्रपा० ७ अनु० ३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९५
तत्र येयमुपासनीया संहिता सा पञ्चविधेष्वाश्रयेषु व्याख्यास्यते । आश्रयभेदेनोपासनाया
भेदशङ्का मा भूदित्येतदर्थमेकैवोपासना पञ्चस्वाश्रयेषु प्रतिज्ञायते । लोकज्योतिर्विद्याप्र-
जात्मानः पञ्चाऽऽश्रयाः । पृथिव्यादींल्लोकानधिकृत्य वर्तत इत्यधिलोकम् । एवमुत्तर-
त्रापि द्रष्टव्यम् । या एता लोकादिपञ्चविधाश्रयभेदभिन्नाः संहिताः सन्ति ताः सर्वा
महासंहिता इत्येवमभिज्ञा उपासका आचक्षते । लोकादिविषयोत्कृष्टदृष्ट्योपासितत्वा-
त्संहितानां महत्त्वम् ।
प्रतिज्ञातायामुपासनायामुपास्यं प्रथमावयवमाह—
अथा॑धिलो॒कम् । पृ॑थि॒वी पू॑र्वरू॒पम् । द्यौरु॑-
त्तररू॒पम् । आ॒का॒शः सं॑धिः (१) ।
वा॒युः संधा॑नम् । इत्य॑
४९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०७अनु०१]
चतुर्थमवयवमाह—
अथाधि॑प्र॒जम् । मा॒ता पूर्व॑रू॒पम् । पि॒तोत्त॑ररू॒पम् । प्र॒जा
सं॒धिः । प्र॒जन॑नꣳ सं॒धान॑म् । इत्यधि॑प्र॒जम् ( ३ ), इति ।
प्रजा पुत्रपौत्रादिरूपा । प्रजननमुत्पत्तिः ।
पञ्चममवयवमाह—
अथाध्यात्मम् । अधरा हनुः पूर्व॑रू॒पम् । उत्तरा हनुरुत्तररू॒-
पम् । वाक्सं॑धिः । जि॒ह्वा सं॒धान॑म् । इत्यध्यात्म॒म्, इति ।
देहेन्द्रियादिसाक्षिचैतन्यान्तःसंघातोऽत्राऽऽत्मशब्देन विवक्षितः । तस्याहंप्रत्ययगम्य-
त्वात् । तमात्मानमधिकृत्य वर्तत इत्यध्यात्मम् । वाक्शब्देन कण्ठतालवादिस्थानगतामि-
न्द्रियमुच्यते ।
प्रतिपादितरूपान्संहितावयवानुपसंहरति —
इतीमा म॑हा॒सꣳहि॑ताः, इति ।
फलसाधनत्वेनोपासनां १ विधत्ते—
य एव॒मेता म॑हा॒सꣳहि॑ता व्या॒ख्याता॒ वेद॑ ।
संधी॑यते प्र॒जया॑ प॒शुभिः॑ । ब्रह्मवर्च॒सेनान्ना॑-
द्येन + सुवर्गेण॑ लो॒केन ( ४ ), इति ॥
संधिराचार्यः पूर्व॑रूपमित्यधि॒प्रजं लोके॒न ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
यः पुमानेवमुपास्ते स पुमान्प्रजादिभिः संबध्यते २ । यद्यपि विदिधातुः प्रमाण-
ज्ञानमभिधत्ते न तु पुरुषतन्त्र ३ मानसक्रियारूपमुपासनम्, तथाऽपि ४ विज्ञानवाचिर्वि-
धातुनाऽत्रोपासनक्रियोपलक्ष्यते । तयोर्मानसत्वसाम्यात् । न खल्वत्र मुख्या
संभवति । अपुरुषतन्त्रस्य ज्ञानस्य विधातुमयोग्यत्वात्पृथिवी पूर्वरूपमित्यादिवाक्यै-
नैव ज्ञानसिद्धौ तद्विधिवैयर्थ्याच्च । न चात्र वेदेत्येष लट्प्रत्ययो न विधायक इ-
ति वाच्यम् । विधायकस्य पञ्चमलकारस्याऽऽश्रयणात् । न च वाक्यजन्यमेव ज्ञा-
लट्प्रत्ययेनानूद्यतेति वाच्यम् । ज्ञानमात्रेण ५ प्रजापश्वादिफलासंभवात् । तस्मादु-
- सुवर्गेणेत्यपि पाठो वैदिकेषु प्रसिद्धः ।
१ ख. ग. ॰सनं वि॰ । २ ग. संपद्यते । ३ ग. घ. तन्त्रं मा॰ । ४ घ. ॰पि ज्ञा॰ । ५ ख.
॰मात्रे प्र॰ ।
[प्रपा०७अनु०३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४९७
सनक्रियां विविधासु नोपलक्ष्य पञ्चमलकारेण विधत्ते । एवं च सत्युपासनप्रकरणमनुगृह्यते ।
इति प्राचीनयोग्योपास्स्वेत्यभिधानात्तत्प्रकरणत्वमवगम्यते । अत्र स्वर्गाख्यस्य फलस्योऽऽ-
मुष्मिकत्वमेव । पश्वादिफलस्य तु चित्रान्यायेनाऽऽमुष्मिकत्वं पाक्षिकम् । “चित्रया यजेत
पशुकामः” इत्यत्रासति प्रतिबन्धे पशुप्राप्तिरैहिकी, अन्यथा त्वामुष्मिकीति चित्रान्यायः ।
ऐहिकफलसिद्धयर्थं पुरुषतन्त्रोपासनक्रियाऽत्र वेदेत्यनेन विधीयते ।
अत्र मीमांसा । चतुर्थाध्यायस्य प्रथमपादे * चिन्तितम्—
“ नास्त्यासनस्य नियम उपास्तावुत विद्यते ।
न देहस्थितिसापेक्षं मनोऽतो नियमो नहि ॥
शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ।
धीसमाधानहेतुत्वात्परिशिष्यत आसन
भ्यासस्य देशविशेषः श्रूयत इति चेत्सत्यम् । इष्टसौकर्यार्थं तदिति वाक्यशेषे मनोऽनुकू-
लत्वविशेषणान्निन्श्चीयते । तस्मान्नास्ति दिगादिनियमः ।
अत्रोपास्यवस्तुस्वरूपस्येयत्तां निश्चेतुमिदमपरं चिन्तनीयम् । ऐतरेयोपनिषद्यपि
संहितोपासना काचिदेवाम्नायते—“अथातः संहिताया उपनिषत् । पृथिवी पूर्वरूपम् ।
द्यौरुत्तररूपम् ” इत्यादिः । अस्यामैतरेयशाखायां तैत्तिरीयशाखायां चाऽऽम्नाता
येयमुपासना सा किमेका भिन्ना वेत्येको विचारः । उपासनैक्यपक्षेऽपि शाखाद्वये पर-
स्परं गुणोपसंहार सद्भावासद्भावविषयो द्वितीयो विचारः । तत्र पञ्चाग्निविद्याप्राणविद्यान्या-
येनोपासनैक्यं भवितुमर्हति ।
स च न्यायस्तृतीयाध्यायस्य तृतीयपादे + सम्यगभिहितः—
“ सर्ववेदेष्वनेकत्वमुपास्तेरथ वैकता ।
अनेकत्वं कौथुमादिने¹धर्मविभेदतः ॥
विधिरूपफलैकत्वादैकत्वं नाम न श्रुतम् ।
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने ॥
छान्दोग्यबृहदारण्यकयोः पञ्चाग्न्युपासनमाम्नायते तदेकं न भवति नामभेदात्।
कौथुममिति च्छान्दोग्यगतस्य नाम । वाजसनेयकमिति बृहदारण्यक³गतस्य नाम ।
तथोपासनान्तरेषु योजयितव्यम् । धर्मभेदोऽप्युपासनाभेदगमकः शिरोव्रतलक्षणो मुण्डक-
शाखायां श्रूयते—“ तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ” इति ।
शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो नेतरान्प्रति । तस्माच्छाखाभेदा-
दुपासनाभेद इति प्राप्ते ब्रूमः — शाखाभेदेऽपि विध्यभेदादुपासनं न भिद्यते । तथाहि
च्छान्दोग्ये—“यो ह वै ज्येष्ठं च श्रेष्ठं च वेद” इति। यादृशः प्राणविद्याविधिस्तादृश एव
बृहदारण्यकेऽप्याम्नायते । तथा द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्निपञ्चकं वेद्यतया पञ्चा-
ग्निविद्यायां यत्स्वरूपं तदुभयोरपि शाखयोः समानम् । फलं च “ ज्येष्ठश्च ह वै श्रेष्ठश्च
भवति ” इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम् । यस्तु कौथुमादिनामभेद
उदाहृतो नासौ श्रुत्याऽभिहितः । किं तर्ह्यध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनि-
नाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः सोऽप्यध्ययनविषय एव
नोपास्तिविषयः । नैतदचीर्णव्रतोऽधीत इत्यध्ययनधर्मत्वावगमात् । तस्मादैक्यहेतुसद्भावा-
द्भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ” ।
अनेनैव न्यायेन संहितोपासनाया अप्यैक्यं द्रष्टव्यम्—य एवमेतां संहितां वेदेति ।
- सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । अ० ३ पा० ३ अ० १ सू० १ ।
१ ग. ॰नानाध॑ । २ ख. ॰ण्यस्य । ३ क. ङ. ॰कस्य ।