तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 489, कुल 914 में से
संदर्भ में पढ़ेंयेनापूर्वार्थलाभेन तेषामननुवादता ।
उच्यते मान्तरात्सिद्धः किं देहात्माऽथवेतरः ॥
नाऽऽद्ये स्यादनुवादित्वं देहात्मानुकीर्तनात् ।
न वेदान्ताः क्वचिद्देह आत्मेति प्रतिपादयन् ॥
यः कोशोऽन्नमयः प्रोक्तस्तन्नास्त्वेवानुवादता ।
देहेतरोऽपि किं कर्ता ब्रह्म वोभयथाऽपि वा ॥
तयोर्मानान्तराबोधादाशङ्कचा नानुवादता ।
वादिनो लौकिका वाऽत्र भविष्यद्देहभागिनम् ॥
कर्त्रात्मानं न जानन्ति वेदान्तवचसा विना ।
देहान्तराभिसंबद्धो भावित्वान्नाक्षगोचरः ॥
लिङ्गसादृश्यविरहान्नानुमानोपमा तथा ।
भावरूपात्मबोधाय नाभावोऽपि प्रवर्तते ॥
अर्थापत्तिर्न संभाव्या दृष्टकल्पकवर्जनात् ।
अन्यथाऽनुपपन्नोऽपि श्रुतः स्वर्गो न कल्पकः ॥
श्रुतार्थापत्तितोऽप्यत्र श्रुतिरेव बलीयसी ।
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ॥
इति वेदान्तवचसा भविष्यद्देहयोगधीः ।
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मतः ॥
चार्वाक इव नो कुर्याद्दृष्टार्थाः क्रियाः सुधीः ।
योगिप्रत्यक्षतो भाविसंबन्धो ज्ञायते यदि ॥
तथाऽपि योगिता श्रौतानुष्ठानादेव नान्यथा ।
योगिभिर्व्यवधानाद्वा साक्षाद्वा श्रुतिरेव हि ॥
कर्त्रात्मनि प्रमाणं स्यात्स्वर्गादिफलभोक्तरि ।
ब्रह्मात्मन्यप्यहंबुद्धिर्न मानं स्यात्कथंचन ॥
प्रत्युताहंबुद्धिरेव सिद्ध्यत्यात्मानुभूतितः ।
शास्त्रैकवेद्यता प्रोक्ता विषयत्वनिरूपणात् ॥
तस्मादननुवादित्वात्सिद्धा वेदान्तमानता ।
प्रमाणं मेयसापेक्षं मेयता कस्य युज्यते ॥
इत्याकाङ्क्षानिवृत्त्यर्थं मेयमत्र निरूप्यते ।
अविज्ञातः प्रमाणस्य विषयो वादिनां मतः ॥
सोऽज्ञातोऽर्थः प्रमाणात्किं सिध्येद्यद्वाऽनुभूतितः ।