तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 490, कुल 914 में से
संदर्भ में पढ़ेंन तावन्मानतः सिद्धिर्मानात्पूर्वमपेक्षणात् ।
सिद्धमज्ञातमुद्दिश्य ज्ञप्त्यै मानं प्रवर्तते ॥
अज्ञातत्वं न सिद्धं चेन्मानात्तत्केन सिध्यति ।
इति चेन्नित्यचैतन्या¹नुभावेनानुभूयते ॥
मानप्रवृत्तितः पूर्वमज्ञातत्वं यथा तथा ।
ज्ञातत्वमप्युत्तरञ्च चैतन्येनानुभूयते ॥
प्रवृत्तं विषये मानं बोधयेद्विषयोंकृतिम् ।
ज्ञातताज्ञातते भातो न तेनाविषयत्वतः ॥
रूपार्थं संप्रवृत्तेन नेत्रेण रसगन्धयोः ।
अगृहीतितया तद्वज्ज्ञाताज्ञातत्वयोर्भवेत् ॥
नेत्रागृहीतयोरन्यद्बोधकं स्याद्यथा तथा ।
ज्ञातताज्ञातते ग्राह्ये अमेये अपि ते चिता ॥
अज्ञानव्याससञ्ज्ञातं ज्ञातं मानेन भासितम् ।
तच्चोभयं साक्षिभास्यमाहुर्वेदान्तपारगाः ॥
सर्वं वस्तु ज्ञाततया ह्यज्ञातत्वेन वा सदा ।
साक्षिचैतन्यविषय इति शास्त्रेषु निश्चयः ॥
चितैवाज्ञाततासिद्धावज्ञातो यः स मीयते ।
सर्वैर्मानैरतश्चिन्त्यं कस्याज्ञातत्वमीदृशम् ॥
चेतनोऽचेतनो वाऽयमज्ञातो यद्यचेतनः ।
तन्नाज्ञातार्थकार्यस्य जडस्याज्ञातता कुतः ॥
अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि ।
अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः ॥
रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः ।
इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥
किंचाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत् ।
स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः ॥
आविर्भूतस्वरूपे तु चेतनेऽन्येन निर्मितात् ।
तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा ॥
चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्वचित् ।
१ ख. ॰नुभवे॰ । २ क. ङ. यानपि । ज्ञा॰। ३ ग. ॰तनाव्ये॰। ४ क. ख. घ. ङ. ॰हतिः
1° । ५ क. ख. छ. केषु च । ६ ग. किंवाऽज्ञा॰ ।