सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 492, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 492

[प्रपा०७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४८७

अज्ञातश्चेतनो मेयो नाज्ञातोऽन्योऽस्ति कश्चन ॥
किं चाऽऽनन्दाप्तिरूपस्य पुरुषार्थस्य हेतवः ।
वेदान्तास्तेन तन्मेय आनन्दात्मा परः पुमान् ” ॥
उक्तमन्त्रोपनिषदो विषयादिचतुष्टयम् ।
प्रामाण्यमपि तन्मेयमथ व्याख्या प्रवर्तते ॥
सेयं तैत्तिरीयोपनिषत्त्रिविधा । सांहिती वारुणी याज्ञिकी चेति । तत्र प्रथम-
प्रपाठके संहिताध्यायस्योक्तत्वात्तद्रूपोपनिषत्सांहिती । द्वितीयतृतीययोः प्रपाठकयोर्या
ब्रह्मविद्याऽभिहिता तस्याः संप्रदायप्रवर्तको वरुणस्तस्मात्तदुभयरूपोपनिषद्दारुणी । चतु-
र्थप्रपाठके यज्ञोपयुक्ता अपि मन्त्रास्तत्र तत्राऽऽम्नाता अतस्तद्रूपोपनिषद्याज्ञिकी ।
तासां तिसृणां मध्ये वारुणी मुख्या । तस्यां परमपुरुषार्थस्य ब्रह्मप्राप्तिलक्षणस्य साक्षा-
देव साधनभूताया ब्रह्मविद्यायाः प्रतिपादितत्वात् । एवं तर्ह्यभ्यर्हितत्वेन सैव प्रथमं
पठित्येति चेन्न । तस्यामधिकारसिद्धये सांहित्याः प्रथमं पठितव्यत्वात् । यद्यपि
विविदिषोर्विद्यायामधिकारो विविदिषा च कर्माभिरेवोत्पादिता तथाऽपि न कर्माभिश्चित्त-
चैकाग्र्यमुत्पद्यते । प्रत्युतै प्रवृत्तिबाहुल्याद्विक्षेपवासनैव भूयसी भवति । एकाग्र्यस्य
साक्षात्कारहेतुत्वं कठा आम्नन्ति—“दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः”
ति । एकाग्र्यं च ध्यानाभ्यासेन जन्यते । अत एव पतञ्जलियोंगस्वरूपं तत्साधनं च
सूत्रयामास—“ योगश्चित्तवृत्तिनिरोधः ” “ अभ्यासवैराग्याभ्यां तन्निरोधः ” इति । अतो
ध्यानाभ्यासाय सांहित्याः प्रथमभावित्वं युक्तम् । ‘ श्रेयांसि बहुविघ्नानि ’ इति लौकि-
क न्यायाद्विशेषतो ब्रह्मविद्यायां देवकृतविघ्नबाहुल्यसंभवाच्चाऽऽदौ विघ्नपरिहाराय प्रयतित-
व्यम् । दैविक् विघ्नसम्भावना च बृहदारण्यकेऽवगम्यते— “ अथ योऽन्यां देवतामुपास्तेऽ-
न्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो
मनुष्यं भुञ्जुरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु
बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ” इति । अयमर्थः— द्वौ हि पुरुषौ
ब्रह्मवित्कर्मी च । तत्र ब्रह्मविदः सर्वभावापत्तिर्भवतीति पूर्ववाक्ये समाम्नातम्—“ य
एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ” इति । विदितब्रह्मतत्त्वस्य पुरुषस्य सर्वभा-
वापत्तिविधाय देवा अपि न समर्थाः । यस्मादयं ब्रह्मविदेषां देवानामात्मा भवति । एत-
दपि तत्रैवाऽऽम्नातम्—“ तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति ”
इति । इत्थं ब्रह्मविदः परमपुरुषार्थमाम्नाय विद्यारहितस्य तदभावं दर्शयितुमथ योऽन्या-
मित्यादि वाक्यमाम्नातम् । अथ ब्रह्मविद्यामहिमोक्त्यनन्तरमविद्यामहिमा वर्ण्यते । यः

१ ग. व. ॰थ्यो वि॰ । २ घ. ॰लै वृ॰ ।