सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

श्राद्धकाण्डे परिवेषणविधिः । ३४९

एवमुक्तपौराणिकश्लोकजपानन्तरं लघुयमः—
अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् ।
सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत् ॥
अच्छिद्रं जायतामित्यध्याहारेणाच्छिद्रभाषणवाक्यं पूरणीयं,
साकाङ्क्षत्वात् । बोधायनेन तु अच्छिद्रं जायतामित्येवोक्तम् ।
यद्यपि लघुयमवचनादच्छिद्रभाषणानन्तरमेव भोजनप्रतीतेरापो-
शनहस्तेषु ब्राह्मणेषु सत्स्वाच्छिद्रभाषणं कार्यमिति प्रतिभाति,
तथाऽपि प्रागेवापोशनतः कार्यं न पश्चात् । तथाऽऽह प्रचेताः—
आपोशनकराग्राणामच्छिद्रस्य च भाषणात् ।
निराशाः पितरो यान्ति देवैस्सह न संशयः ॥
किं तर्हि आपोशनदानान्तरं कर्तव्यमित्युक्ते स एवाह—
आपोशनं प्रदायाथ सावित्रीं त्रिजपेदथ ।
मधु वाता इति तृचं मध्वित्येव त्रिकं तथा ॥
मध्वित्येतावात्त्रिरावर्तनीयमिति चतुर्थपादस्यार्थः । व्याहृतीर्ज-
पित्वा सावित्रीं जपेत्, 'सव्याहृतिकां गायत्रीम्' इति
याज्ञवल्क्यस्मरणात् । आपोशनदानविधानान्नित्यभोजनाश्रित-
नियमाः पर्युक्षणादयः प्राणाहुत्यन्ता भोक्तृणामत्रापि सन्तीति
गम्यते । अत एव कस्यचिद्भोजननियमस्यात्र प्रतिषेधार्थं तद-
नुष्ठाने दोषमाह भरद्वाजः—
पितॄणामन्नमादाय बलिं यस्तु प्रयच्छति ।
स्तेयेन ब्रह्महा तेन सुवर्णस्तेयकृद्भवेत् ॥

पितॄणामन्नं देवपित्रर्थं परिविष्टमन्नम् । अत एव सामान्येनो-
क्तमत्रिणा—
दत्ते वाऽप्यथवाऽदत्ते भूमौ यो निक्षिपेद्बलिम् ।
तदन्नं निष्फलं याति निराशैः पितृभिर्गतैः ॥
बलिं नित्यभोजननियमविधिषूक्तं बलिं,
भोजनात्किञ्चिदन्नाग्रं धर्मराजाय वै बलिम् ।
दत्त्वाऽथ चित्रगुप्ताय प्रयतश्चेदमुच्चरेत् ॥
इति विहितमिति यावत् । व्याहृत्यादिजपानन्तरं याज्ञवल्क्यः—
‘जप्त्वा यथासुखं वाच्यम्’ इति । यथासुखमिति पदमपरि-
पूर्णत्वादन्विताभिधानात् पदान्तरमपेक्षते । तेन जुषध्वमिति
पदमध्याहार्यम् । अत एव—
जुषध्वमिति ते चोक्तास्सम्यग्विधृतभाजनाः ।
कृतमौनास्समश्नीयुरापोशनादनन्तरम् ॥
इति व्यासेनोक्तम् । आपोशनादनन्तरं अमृतोपस्तरणमसीति
मन्त्रेणापः पीत्वा तदनन्तरमित्यर्थः । प्राणाहुतयस्त्वशनक्रिया-
यामनुप्रविष्टा इति तासां करणेऽपि समश्नीयुरापोशनादन-
न्तरमित्यस्य न कश्चिद्विरोधः । भोक्तुमुपक्रान्तेषु ब्राह्मणेषु
श्राद्धकर्तुः कर्तव्यमाह कात्यायनः—‘अश्नत्सु जपेद्व्याहृति-
पूर्वा गायत्रीं सप्रणवां सकृत्त्रिर्वा रक्षोघ्नीः पित्र्यमन्त्रान्
पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि’ इति । रक्षोघ्नीः
‘कृणुष्व पाजः प्रसितिं न पृथ्वीम्’ इत्याद्या ऋचः । पित्र्य-

श्राद्धकाण्डे परिवेषणविधिः. 351
मन्त्राः—'उदीरतामवरे' इत्यादयः । अप्रतिरथः—'आशुशिशि-
शानः' इति सूक्तम् । मनुरपि—
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश्च पुराणान्यखिलानि च ॥
श्रावयेद्यज्ञोपवीतीति शेषः ।
अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम् ॥
इति जमदग्निस्मरणात् । सूक्तस्तोत्रग्रहणं भुञ्जानेषु विप्रेषु
यद्यज्जप्यं तस्य सर्वस्योपलक्षणार्थम् । बृहस्पतिस्तु मन्त्रादि-
जपादन्यदपि कर्तव्यमाह—
भक्ष्यभोज्यगुणानुक्त्वा भोजयेद्ब्राह्मणान् शनैः ।
इति । भोक्तारं भोजयितारं च प्रत्याह वृद्धशातातपः—
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ।
न याचते द्विजो मूढः स भवेत्पितृघातकः ॥
अपेक्षितं यो न दद्याच्छ्राद्धार्थमुपकल्पितम् ।
कृपणो मन्दबुद्धिश्च न स श्राद्धफलं लभेत् ॥
न केवलं श्राद्धफलालाभः अपितु कष्टतमजन्मप्राप्तिरपि ।
तथाच निगमः—
अपेक्षितं न दद्याद्यश्श्राद्धार्थमुपकल्पितम् ।
अथ कृच्छ्रासु घोरासु तिर्यग्योनिषु जायते ॥

352 स्मृतिचन्द्रिका
यत्तु वायुपुराणेऽभिहितं—
याचते यदि दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस्तस्य रुष्यन्ति दातुर्भोक्तुर्न संशयः ॥
यच्च यमेन—
कृच्छ्रद्वादशरात्रेण मुच्यन्ते कर्मिणस्ततः ।
तस्माद्विद्वान्नैव दद्यान्न याचेन्न तु दापयेत् ॥
इति । तत् श्राद्धार्थमनुपकल्पितवस्तुविषयं, सामान्येनाभिधा-
नात् । श्राद्धार्थमुपकल्पितान्नादिविषयेऽप्यत्यन्ताधिकं दाता न
दद्यात् । भोक्ता च न प्रतिगृह्णीयात् । तथा च शङ्खलिखितौ—
'नात्यधिकं दद्यान्न प्रतिगृह्णीयात्' इति । अत्यधिकान्नस्या-
परिग्रहणार्थं पूर्वपरिविष्टं प्रभूतमत्रास्ति किमन्येनेति भोक्त्रा
न वक्तव्यं, किंतु हस्तसंज्ञया सूचनीयम् । तथाच तावेव—
'अन्नपानादि न प्रभूतमिति ब्रूयुरन्यत्र हस्तसंज्ञायाः' इति ।
निगमोऽपि—
नान्नपानादिकं श्राद्धे वारयेन्मुखतः क्वचित् ।
अनिष्टत्वाद्वहुत्वाद्वा वारणं हस्तसंज्ञया ॥
एवं याचनमपि न मुखतः कुर्यात्, मौनभङ्गप्रसङ्गात् । तेन
तदपि हस्तसंज्ञया कार्यम् । एवं दात्राऽपि पुनर्दानसमये
अत्यधिकदानं न भविष्यतीति ज्ञापनार्थमीषददामीति मुखतो
न वक्तव्यम् । किंतु तूष्णीं किंचित् प्रदर्श्य प्रतिषेधसूचकहस्त-
सङ्केताभावेऽभ्यनुज्ञासूचकहस्तसङ्केते वा देयम् । यदाह यमः—

यावद्धविष्यं भवति यावदिष्टं प्रदीयते ।
तावदश्नन्ति पितरो यावन्नाह ददाम्यहम् ॥
इति । परिविष्टान्नेषु यन्निरवशेषतया भुक्तं यच्च भोक्तुं पुनः-
पुनर्गृह्यते तत्तस्येष्टमित्यनुमाय तदानीय प्रदर्श्य प्रतिषेधसूच-
नाभावे देयम् । तथाच स एव—
यद्यद्रोचेत विप्रेभ्यस्तद्दद्यादविमत्सरः ।
इति । मत्सरग्रहणं दोषान्तराणामुपलक्षणार्थम् । अत एव
ब्रह्माण्डपुराणं—
न चाश्रु पातयेज्जातु न शुक्तां गिरमीरयेत् ।
न चोद्वीक्षेत भुञ्जानं न च कुर्वीत मत्सरम् ॥
न दीनो न च वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः ॥
इति । शुक्तां निष्ठुराम् । कार्ष्णाजिनिरपि—
कुर्यादथापरिश्रान्तो दम्भाहङ्कारवर्जितः ।
क्रोधं लोभं तथा मोहं वर्जयेच्छ्राद्धकर्मणि ॥
इति । समानेषु स्वस्य श्रैष्ठयसिद्धये परमश्रेष्ठानि भक्ष्यभो-
ज्यानि दद्यादित्याह स एव—
भक्ष्यभोज्यानि चोष्याणि पेयलेह्ययुतानि च ।
सर्वश्रेष्ठानि यो दद्यात्सर्वश्रेष्ठो भवेन्नरः ॥
दत्तेषु भक्ष्यादिषु आतृप्तेः स्वेच्छया न किञ्चिदवशेषयेत् ।
Smriti Cha.—Vol. V. 45

354 स्मृतिचन्द्रिकायां
तथाच सुमन्तुः—
अक्रोधनो रसान् सम्यगद्याद्यद्यस्य रोचते ।
आवृत्तेर्भोजनं तेषां कामतो नावशेषणम् ॥
इति स्मृतिचन्द्रिकायां परिवेषणविधिः.
अथान्यान्यपि निमन्त्रितब्राह्मणविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तथाच प्रचेताः—
पीत्वाऽऽपोशनमश्नीयात् पात्रदत्तमगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं न कुर्यात्पाणिपादयोः ॥
इन्द्रियादिषु चापल्यं भोजनार्थव्यापारादभ्यधिकव्यापारः ।
तस्मिंस्तु कृते भुक्तमन्नं न पितॄन् प्रीणातीत्याह हारीतः—
उद्धृत्य पाणी विहसन् सक्रोधो विस्मयान्वितः ।
श्राद्धकाले तु यत् भुङ्क्ते न तत्प्रीणाति वै पितॄन् ॥
बोधायनोपि—
पादेन पादमाक्रम्य यो भुङ्क्तेऽनापदि द्विजः ।
नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः ॥
वाग्व्यापारस्सर्वोपि न कार्यः । यदाह निगमः—‘तूष्णीं
भुञ्जीरन्नविलोकयमाना अनुद्धृत्य पात्रम्’ इति । अविलो-
कयमानाः दिश इति शेषः । मनुरपि—

355

अत्युष्णं सर्वमन्नं स्यादश्नीरंश्चैव वाग्यताः ।
न च द्विजातयो ब्रूयुः दात्रा पृष्टान् हविर्गुणान् ॥
अश्नीरंश्चैवेवैवशब्देन एकपङ्क्त्युपविष्टब्राह्मणेषु भुञ्जानेषु क-
थञ्चिदन्योन्यस्पर्शने सत्यपि भोजनोपरमो नैव कार्य इत्याह ।
अत एव शङ्खः—
श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमसृजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ॥
वाग्यमनविधानादेव हविर्गुणवचननिषेधसिद्धौ पुनर्निषेधो ह-
स्तसङ्केतेनाप्यतत्सूनार्थः । अतो हस्तसङ्केतेनापि हविर्गुण-
कथने दोषमाहात्रिः—
हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वाऽपि गुणान्वदेत् ।
भूतलाच्चोद्धरेत्पात्रं मुखेद्धस्तेन वाऽपि तत् ॥
प्रौढपादो बहिःकक्षो बहिर्जानुकरोऽथवा ।
अङ्गुष्ठेन विनाऽश्नाति मुखशब्देन वा पुनः ॥
पीतावशिष्टतोयादि पुनरुद्धृत्य वा पिबेत् ।
खादितार्धं पुनः खादेन् मोदकादि फलानि वा ॥
मुखेन वा धमेदन्नं निष्ठीवेत् भाजनेऽथवा ।
इत्थमश्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् ॥
प्रौढपाद आसनाध्यारोपितपादः । बहिःकक्ष उत्तरवासोबहि-
र्भूतकक्षद्वयः । भूतलात्पात्रोद्धरणे दोषोऽन्नाद्याधारमहाभाजन-
विषयः । पानाद्याधारलघुपात्रस्य 'पुनरुद्धृत्य वा पिबेत्' इत्य-

नेनोद्धाराभ्यनुज्ञावगमात् । यत्तु देवेनोक्तं—
अन्नपानकशीतोदं ददद्भिरवलोकितः ।
वक्तव्ये कारणे संज्ञां कुर्वन् भुञ्जीत पाणिना ॥
इति । अपेक्षानुसारेणान्नपानशीतलवार्यादिदातृभिरपेक्षां ज्ञातुम-
वलोकितः क्षुत्पिपासादिलक्षणे अपेक्षादेः कारणे वक्तव्ये
पाणिना संज्ञां सङ्केतं अपेक्षादिसूचकं कुर्वन् भुञ्जीतेति
तस्यार्थः प्रत्येतव्यः । न तु स्वादुत्वादिहविर्गुणरूपे अपेक्षाका-
रणे संज्ञां कुर्वन्निति, एवंविधार्थपरिग्रहे पूर्वोक्तवचनविरो-
धापत्तेः । अन्नपानदात्रा तु हविर्गुणप्रश्नोऽत्यर्थं दोषत्वान्न
कार्य इत्याह शङ्खः—
श्राद्धे नियुक्तान् भुञ्जानान् पृच्छेल्लवणादिषु ।
उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥
दातुः पतति बाहुर्वै जिह्वा भोक्तुश्च भिद्यते ।
इति । लवणादिषु न्यूनाधिक्याभावेन हविषः साद्गुण्यं पुनरपि
प्रदानार्थं न पृच्छेत् । न च पृष्ट्वा सम्यक्त्वेन ज्ञातं दद्यात्,
‘दातुः पतति बाहुः’ इति दोषश्रवणात् । ‘जिह्वा भोक्तुश्च
भिद्यते’ इति निन्दाबलाद्धविषस्साद्गुण्यं सङ्केतेनापि भोक्ता
न सूचयेदिति निषेधविधिर्गम्यते । पादुकयोरुपविष्टपीठे वा
पादौ निधाय न निमन्त्रिता अश्नीयुरित्याह विष्णुः—‘अश्नी-
युर्ब्राह्मणा न सोपानत्काः न पीठोपरि निहितपादाः’ इति ।
अत्र द्वितीयनिषेधातिक्रमेण यो भुङ्क्ते तस्य दोषमाह वृद्धशातातपः—

357
आसने पादमारोप्य यो भुङ्क्ते द्विजसत्तमः ।
हन्ति दैवं च पित्र्यं च तदन्नं च प्रजाः पशून् ॥
निषेधान्तरमाह प्रचेताः—
न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन ।
न पादौ न शिरो बस्तिं न पदा भाजनं स्पृशेत् ॥
निगमोऽपि—
मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत् ।
ग्रासशेषं न पात्रेऽस्येत्पीतशेषं च नो पिबेत् ॥
दन्तच्छेदं न भक्षयेत् हस्तेन मांसादि धृत्वा स्वल्पं स्वल्पं दन्तै-
श्छित्त्वा न भक्षयेत् ग्रासशेषं आस्यार्पितग्रासशेषं पुनर्भाजने
नास्येत् न क्षिपेत् । उशनाऽपि—
भाजनं तु न निःशेषं कुर्यात्प्राज्ञः कथञ्चन ।
अन्यत्र दध्नः क्षीराद्वा क्षौद्रात्सक्तुभ्य एव च ॥
इति, यत्तु जमदग्निरोक्तं 'न निन्देयुर्नावशेषयेयुः' इति, तत्
अधिकावशेषविषयम् । यतोऽनन्तरमाह स एव—
'अल्पं पुनरुत्सृष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेय-
त्वात्' इति । प्रचेता अपि वर्जनियमाह—
दन्तच्छेदं हस्तपानं वर्जयेच्चातिभोजनम् ।
इति । हस्तपानं हस्तेन पेयादिपानं वर्जयेत् । अपितु लघुपात्रेण
कुर्यात् । अतिभोजनं तृप्तौ सत्यामपि भोजनम् ॥
इति स्मृतिचन्द्रिकायां निमन्त्रितभोक्तृविषयाणि ॥

358 स्मृतिचन्द्रिकायां.
अथान्नविकिरणादिविधिः ।
तृप्तिं बुद्ध्वान्नमादाय सतिलं पूर्ववज्जपेत् ।
तृप्तिं पृच्छेत्.................................... ॥
इति। पूर्ववज्जपेदित्यादेरर्थः कात्यायनेन प्रपञ्चितः 'गायत्रीं
मधु मध्विति च जपित्वा तृप्तास्थ इति पृच्छति' इति ।
एवं पृष्टाः ते विप्राः तृप्ताः स्मः, इति ब्रूयुः
तृप्ताः स्थ इति पृष्टास्ते ब्रूयुस्तृप्तास्स्म इत्यपि ।
इति व्यासस्मरणात् । तृप्ताः स्मः इत्युक्ते अनन्तरं
ब्रह्माण्डपुराणं—
प्रोक्ष्य भूमिमथाद्भिस्तुभूमौ पितृपरायणः ।
ततो विकिरणं कुर्याद्विधिदृष्टेन कर्मणा ॥
किं पुनर्विधिदृष्टं कर्मेत्यपेक्षिते मनुः—
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरं भुवि ॥
सर्वे विप्रभुक्तान्नव्यञ्जनवर्णाः प्रकारा यस्मिन्नन्नाद्ये तत्सार्ववर्णिकं
अन्नाद्यं संनीय यद्यदन्नं विप्रैरुपभुक्तं ततस्तत एकदेशमव-
दायावदाय क्वचित्पात्रे एकीकृत्येत्यर्थः ।
मत्स्यपुराणे—
भुक्तवत्सु ततस्तेषु भाजेनवाऽन्तिके नृप * ।
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ॥

  • स्वतः

समुत्सृजेद्भुक्तवतामग्रतो विकिरेद्भुवि ।
आप्लाव्य अवोक्ष्येत्यर्थः । समुत्सृजेत् विनिक्षिपेत् । 'ये अग्नी-
ति भुवि क्षिपेत्' इति प्रचेतसोऽभिधानात् । ये अग्नीति मन्त्रः
कात्यायनेन दर्शितः—
ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥
इति। यद्यपि भूमौ दत्तेनेति मन्त्रवर्णात् विधायकसर्ववचनेषु
भुवीत्यभिधानाच्च न दर्भास्तरणमत्रास्तीति प्रतिभाति । तथाऽपि
'दर्भेषु विकिरश्च यः' इति मनुवचने दर्भसत्त्वानुवाददर्शनाद्-
र्भानास्तीर्य तत्र विकिरो देय इति विधिः कल्प्यते । तेन
दर्भास्तृतभूमौ विकिरो देयः न केवलायामिति मन्तव्यम् ।
सार्ववर्णिकान्नोद्धरणादि सर्वं प्राचीनावीतिना कार्यम् । सूक्ता-
दिजपव्यतिरिक्ते श्राद्धकर्मणि प्राचीनावीतित्वाभिधानात् ।
विकिरनिक्षेपस्थाने विक्षेपात्पूर्वं पिण्डदानोक्तप्रकारेण तूष्णीं
सतिलं वारि क्षिप्त्वा विकिरस्योपरि पुनः सतिलं वारि
निक्षेप्तव्यम् ॥
उदङ्मुखानां विप्राणां पुरतस्सोदकं ततः ।
अन्नं तु किरेत् भक्त्या................... ॥
इति मार्कण्डेयेनोक्तत्वात् । अन्नं विकीर्यानन्तरं उपवीती
भूत्वाऽऽचामेत् । अनाचमने दोषस्मरणात् । तथाच मरीचिः—

360 तच्चन्द्रिकाया.

श्राद्धेषु विकिरं दत्वा यो नाचामेन्मतिभ्रमात् ।
पितरस्तस्य षण्मासं भवन्त्युच्छिष्टभोजिनः ॥
तदनन्तरं ब्राह्मणांश्चाचमयेत् । तथाच मदालसावाक्यम् ॥
.... ............................. प्रकीर्य भुवि सर्वतः ।
तदन्वाचमनार्थाय दद्यादापस्सकृत्सकृत् ॥
तदनु अन्नविकिरणात्पश्चादाचमनार्थाय नित्यभोजननियमेषु उक्तं
'अमृतापिधानमसि' इति मन्त्रपूर्वकं यद्गण्डूषं तदर्थं वैश्वदैविक-
विप्रपूर्वकं प्रतिविप्रं सकृत्सकृदपो निनयेदित्यर्थः । गण्डूषकरणं
च विप्रैर्हस्तलेपप्रक्षालनमकृत्वैव कार्यमिति सूचयितुं सकृत्सकृद्द-
द्यादित्युक्तम् । एवं च यथा हस्तप्रक्षालनं कृत्वा गण्डूषकरणे
नित्यभोजने पुरुषार्थविध्यतिक्रमात्पुरुषदोषः, तथाऽत्र श्राद्धार्थ-
विध्यतिक्रमाच्छ्राद्धस्य वैगुण्यं भवति । तथाऽऽह मरीचिः—
हस्तौ प्रक्षाल्य गण्डूषं यः पिबेदविचक्षणः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
इति। गण्डूषं यः पिबेत् भोजने विरते ' अमृतापिधानमसि '
इति मन्त्रेणापो यः पिबेदित्यर्थः। गण्डूषार्थोदकदानान्तरं विष्णुः—
'उदङ्मुखेष्वाचमनमादौ दद्यात् प्राङ्मुखेषु ततः प्रोक्षणं इति
श्राद्धशेषं प्रोक्ष्य दर्भपाणिस्सर्वं कुर्यात्' इति । पैतृकब्राह्मणेषु
प्रथमं हस्तप्रक्षालनपूर्वकाचमनार्थमपो दत्वा पश्चाद्वैश्वदैविक-
ब्राह्मणेषु दत्वा 'सुप्रोक्षितम्' इति मन्त्रेण श्राद्धदेशं प्रोक्ष्य

दर्भपाणिस्सर्वमुपरितनं कर्म कुर्यादित्यर्थः । एवम्भूतहस्तप्रक्षाळ-
नपूर्वकाचमनक्रमविधिं हेतुवन्निगदार्थवादसहितमाह शातातपः-
विश्वेदेवनिविष्टानां चरमं हस्तधावनम् ।
विसर्जनं च निर्दिष्टं तेषु रक्षा यतास्थिरा ॥ इति ॥
इति स्मृतिचन्द्रिकायां अन्नावकिरणादिविधिः.
अथ पिण्डदानविधिः.
तत्र मनुः-
पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते ।
इति । ब्राह्मणभोजनात्पुरस्तात् तेषामर्चनानन्तरं अग्नौकरणा-
नन्तरं वा पिण्डनिर्वपणं केचित्कुर्वत इत्यर्थः । एवमेव स्मृ-
त्यन्तरेषु भोजनात्पुरस्तात्पिण्डनिर्वपणस्य कालद्वयदर्शनात् ।
केचिदितिवचनादपरे ब्राह्मणभोजनात्परस्तादाचमनात्प्रागूर्ध्वं वा
(ब्राह्मणविसर्जनादूर्ध्वं वा) पिण्डनिर्वपणं कुर्वत इत्यवग-
म्यते । स्मृत्यन्तरेषु ब्राह्मणभोजनादूर्ध्वमेव कालद्वयदर्शनात् ।
अत्र यथास्वशाखं व्यवस्था । तथाच स्मृत्यन्तरम्--
मुनिभिर्भिन्नकालेषु पिण्डदानं तु यत्स्मृतम् ।
तत्स्वशाखामतं यत्र तत्र कुर्याद्विचक्षणः ॥
तत् भिन्नकालेषु स्मृतं पिण्डदानं यस्मिन् काले कृतं स्व-
शाखायामनुमतं अनुगृहीतं भवति तस्मिन् काले कुर्यादित्यर्थः ।
SMRITI CHA.—Vol. V. 46

362 स्मृतिचन्द्रिकायां
ब्राह्मणभोजनात्पुरस्तात्परस्ताद्वेति पक्षद्वये व्यवस्थामाह लो-
काक्षिः--
अप्रशस्तेषु यागेषु पूर्वं पिण्डावनेजनम् ।
भोजनस्य प्रशस्तं तु पश्चादेवोपकल्पयेत् ॥
अप्रशस्तेषु यागेषु सपिण्डीकरणाख्यश्राद्धात् पूर्वं विहितश्रा-
द्धेषु । अवनेजनं अवाचीनपाणिना निर्वपणम् । भोजनस्य
निमन्त्रितब्राह्मणभोजनस्य । प्रशस्तं सपिण्डीकरणादिश्राद्धेषु
क्रियमाणं भोजनात्पश्चादेव यथाकालमुपकल्पयेत् । एवञ्च
पार्वणश्राद्धे भोजनात्पश्चादेव स्वशाखानुमते काले पिण्डं
दद्यात् । तत्राश्वलायनशाखिनां ब्राह्मणभोजनादूर्ध्वं तेष्वाचा-
न्तेषु पिण्डदानकालः । तथाऽऽश्वलायनः-- 'भुक्तवत्स्वाचा-
न्तेषु पिण्डं निदध्यादनाचान्तेष्वेके' इति । तत्र अनाचान्तेष्वेके
इति पक्षश्च सौकर्यात्स्वगृह्यानुक्तकालविशेषैरप्ययमेव पक्षो
ग्राह्यः । याज्ञवल्क्यस्तु पिण्डदानप्रकारमाह--
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसन्निधौ पिण्डान् दद्यात्तु पितृयज्ञवत् ॥
श्राद्धार्थपाकसिद्धं सर्वप्रकारमन्नं स्तोकंस्तोकमुद्धृत्य क्वचित्पात्रे
समवदाय तदन्नमयान् पिण्डान् स्वशाखाविहितपिण्डपितृयज्ञ-
विधानेन स्मृतिकारोपदिष्टेन सतिलत्वदक्षिणामुखत्वादिविशे-
षसहितेनोच्छिष्टसंनिधौ दद्यादित्यर्थः । ननूच्छिष्टसन्निधिरशु-
चिर्देशो भवतीति तत्र कथं पिण्डदानं विधीयत इत्याशङ्कयाहात्रिः-

श्र . . ... 363
पितॄणामासनस्थानादग्रतस्त्रिष्वरत्निषु ॥
उच्छिष्टसन्निधानं तन्नोच्छिष्टासनसन्निधौ ॥
उच्छिष्टसम्पर्करहितासन्नदेशोपलक्षणार्थं त्रिष्वरत्निष्वित्युक्तम् ।
तेन नात्र त्र्यरत्निनियमः । अत एव जातूकर्ण्यः—
व्याममात्रं समुत्सृज्य पिण्डांस्तत्र प्रदापयेत् ।
इति । पारस्करोपि—
पात्राणां बाहुमात्रेण पिण्डदानं विधीयते । इति ॥
पात्राणा मुच्छिष्टाशनवदन्नानां आधारस्थानात् । बाहुमात्रेण
बाहुमात्रमुत्सृजेदित्यर्थः । व्यासोपि—
अरत्निमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत् ।
यत्रोपस्पृशतां वाऽपि प्राप्नुवन्ति न बिन्दवः ॥
इति । कार्ष्णाजिनिरपि पिण्डपितृयज्ञविधानेन क्रियमाणे पिण्ड-
दाने विशेषमाह—
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ।
शेषान्नप्रश्नपूर्वं तु दद्यात्पिण्डान् क्रमेण तु ।
इति। शेषमन्नं पिण्डार्थमुद्धृताच्छेषं सर्वं प्रकृतमन्नम्। तस्य एवं-
विधशेषान्नस्य प्रश्नः तत्पूर्वकं पिण्डान् दद्यात् । शेषमप्यस्ति
किं क्रियतामित्येवंविधं प्रश्नं कृत्वा तदनुगुणं विप्राणामुत्तरं
च श्रुत्वा पश्चात्पिण्डदानविधिं कुर्यादिति यावत्। किंपुनस्तदनु-
गुणमुत्तरं विप्रैर्वक्तव्यमित्यपेक्षिते तत्सूचनार्थमुशनसोक्तं—
‘तैरनुज्ञातः शेषमिष्टेभ्यो दद्यात्स्वयं वा भुञ्जीत’ इति । इष्टेभ्यो

३६४ स्मृतिचन्द्रिकायां

दद्यात् इष्टान् भोजयेत् स्वयं वा भुञ्जीतेत्यर्थः । वाशब्दोत्र
चशब्दार्थे द्रष्टव्यः, ‘भुञ्जीत पितृसेवितम्। इति याज्ञवल्क्येन
नित्यवद्भोजनविधानात् । यत एव पितृसेवितावशिष्टभोजनं
नित्यं अत एवैकादश्यामुपवाससिद्धये पितृसेवितशेषभोजनस्थाने
प्रत्याम्नायः स्मर्यते—
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति। यत्पुनरौशनसवचनगतवाशब्दस्य प्रसिद्धार्थत्वमभिसन्धा-
याभिहितं देवस्वामिना ‘भुञ्जीत पितृसेवितमित्येतन्न नैयमि-
कम्’ इति । एवञ्च स्वयं वा भुञ्जीतेत्यौशनसवचस्थवाशब्देन
पितृसेवितशेषभोजनस्य पाक्षिकत्वावगतेर्भुञ्जीत पितृसेवितमि-
त्येतद्याज्ञवल्कीयं विधानं न नैयमिकं न नित्यं इति तदीयग्रन्थ-
स्यार्थः। तदेतच्चिन्त्यम्—याज्ञवल्कीयं च वचनं नित्यं, प्रत्याम्नाय-
वचनस्य दर्शितत्वात् ।
श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते तु कदाचन ।
देवा हविर्न गृह्णन्ति कव्यानि पितरस्तथा ॥
इति देवलेन पितृसेवितशेषभोजनाकरणे दोषस्मरणाच्च । एव-
ञ्चेष्टैस्सह भुज्यतामित्यभ्यनुज्ञारूपमुत्तरं विप्रैर्देयमित्युशनसा सूचि-
तमिति मन्तव्यम् । देवलोपि पितृयज्ञविधानेन पिण्डदाने विशे-
षमाह—
ततस्सर्वाशनं पात्रे गृहीत्वा विधिवत्स्वयम् ।

श्राद्धकाण्डे पिण्डदानविधिः. 365
तेषामुच्छेषणस्थाने तेन पात्रेण निक्षिपेत् ॥
तेषां भुक्तवतां ब्राह्मणानां उच्छेषणस्थाने उच्छिष्टसन्निधा-
वित्यर्थः । पात्रेण निक्षेपो नैयमिको न भवति । यदाह
मरीचिः—
पात्राणां खङ्गपात्रेण पिण्डदानं विधीयते ।
राजतौदुम्बराभ्यां वा हस्तेनैवाथवा पुनः ॥
हस्तेनेति पक्षः श्रेयानित्यर्थ एवकारः कृतः, न पुनरवधार-
णार्थः । तथात्वे पूर्वापरविरोधो देवलवचनविरोधश्च स्यात् ।
पिण्डनिर्वपणस्थाने प्रथमं यत्कर्तव्यं तद्ब्रह्माण्डपुराणे दर्शितं—
सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः ।
प्रघर्षणं ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥
खण्डनं पेषणं चैव तथैवोल्लेखनक्रिया ।
सकृद्देवपितॄणां स्याद्देवानां तु त्रिरुच्यते ॥
खण्डनं बर्हिरादेश्छेदनम् । पेषणं भूमिघर्षणादिकम् । उल्लेखन-
क्रिया पिण्डनिर्वपणलेखाकरणम् । केनोल्लेखनं कार्यमित्य-
पेक्षायामुक्तं तत्रैव—
वज्रेण वा कुशैर्वाऽपि उल्लिखेत्तु महीं द्विजः ।
इति । वज्रेण स्फ्येनेत्यर्थः । ‘वज्रो वै स्फ्यः’ इति श्रुतेः ।
पारस्करेण तु स्फ्यशब्देनैवोक्तं—
कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वाऽपि महीं द्विजः ।

[366] स्मृतिचन्द्रिकायां

इति । कराभ्यां गृहीतेन स्फ्येन गृहीतैः कुशैर्वा महीं लि-
खेदित्यर्थः । अत्र मन्त्रमाह कात्यायनः— 'उल्लिख्यापहताः'
इति । 'अपहता असुरा रक्षांसि पिशाचा वेदिषदः' इति
मन्त्रेणोल्लिखेदित्यन्वयः । अनेन मन्त्रेण स्फ्येनोल्लेखनं पितृ-
यज्ञवदित्यनेन प्राप्तम् । उल्लेखनानन्तरं उल्लिखितदेशमवोक्षेत्
'स्फ्येन तेषामुल्लिखेदपहता असुरा रक्षांसि पिशाचा वे-
दिषद इति तामवोक्ष्य' इत्याश्वलायनेन पिण्डपितृयज्ञधर्मक-
थनेऽभिधानात् । रेखां दक्षिणाप्राचीमुल्लिखेत्, 'सर्वकर्मणि
तां दिशम्' इति परिभाषायां तेनैवोक्तत्वात् । अवोक्षि-
तदेशे कुशानास्तृणुयात्, 'क्षिपेत् कुशांस्तत्र च दक्षिणाग्रान्'
इति पुराणेऽभिधानात् । इदमपि पिण्डपितृयज्ञवदित्यनेनैव
प्राप्तं, सकृदाच्छिन्नैरवस्तीर्योति पिण्डपितृयज्ञे विहितत्वात् ।
एवञ्च दक्षिणाग्रत्वमात्रमेव पौराणिको विशेषः । कुशालाभे
विष्णुधर्मोत्तरेऽभिहितं—
पिण्डनिर्वपणं कार्यं कुशालाभे विचक्षणैः ।
काशेषु राजदूर्वासु पवित्रे परमे स्मृते ॥
राजदूर्वासु अतिदीर्घदूर्वासु । कुशास्तरणे विशेषो वायुपुराणे
दर्शितः ।
सकृदेवास्तरेद्दर्भान् पिण्डार्थं दक्षिणामुखः ।
प्राग्दक्षिणाग्रान्नियतः ॥

श्राद्धकाण्डे [पिण्डदानविधिः. 367

इति। एवञ्च दक्षिणाग्रतया सह दक्षिणाप्रागग्रताया विक-
ल्पो वेदितव्यः। दर्भास्तरणानन्तरं सुमन्तुः—
असाववनेनिक्ष्वेति पुरुषं पुरुषं प्रति।
त्रिस्त्रिरेकेन हस्तेन विदधीतावनेजनम् ॥
असावित्यत्र पित्रादीनां गोत्रसहितनामग्रहणं सम्बोधनरूपेण
कृत्वा अवनेनिक्ष्वेति वक्तव्यं,
पिण्डोदकप्रदानं तु नित्यनैमित्तकेष्वपि।
आलभ्य नाम गोत्रेण कर्तव्यं सर्वदैव हि ॥
इति व्यासस्मरणात्। आलभ्य पित्रादीन् सम्बोध्येत्यर्थः।
एकेन हस्तेनेत्यञ्जलिनिवृत्त्यर्थमुक्तम्। तथाच सुमन्तुः—
श्राद्धे सेचनकाले तु पाणिनैकेन दीयते।
तर्पणे तूभयं कुर्यादेष एव विधिस्सदा ॥
इति। एकेन पाणिना सव्येतरेण।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि।
इति मनुस्मरणात्। अपसव्यहस्ते प्रदेशविशेषो मदालस-
योक्तः—
पितृतीर्थेन तोयं च दद्यात्तेभ्यस्समाहितः।
इति। तेभ्यः पितृभ्यः। चशब्दात्सतिलं तोयं प्रसेतव्यम्।
तथाचौशनसोक्तं— 'तिलामिश्रितोदकेनासिच्य दर्भास्तीर्णायां
भूमौ पिण्डान् दद्यात्' इति। कात्यायनस्त्ववनेजनमुदपात्रेण
कर्तव्यमित्याह— 'उदपात्रेणावनेजयत्यसाववनेनिक्ष्वेति यजमा-

[Page 368]
स्मृतिचन्द्रिकायां

नस्य पितृप्रभृतींस्त्रीन्' इति। आश्वलायनस्त्ववनेजने मन्त्रान्तर-
माह—'प्राचीनावीती रेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः
शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः' इति। कात्यायनस्त्व-
वनेजनानन्तरं बर्हिरास्तरणं कार्यमित्याह—'उपमूलं च
सकृदाच्छिन्नं रेखायां कृत्वा यथाऽवनिक्तं पिण्डान् ददाति' इति।
अवनेजनबर्हिरास्तरणयोः पौर्वापर्यविकल्पे यथास्वशाखं व्यव-
स्था। एवमेवावनेनिङ्क्ष्व शुन्धन्तां पितर इत्यादिमन्त्राणामपि
यथास्वशाखं व्यवस्था। एवमेवावनेजनकरणभूतहस्तोदपात्रयो-
रपि। यथाऽवनिक्तं पिण्डदाने मन्त्रानाह कात्यायनः 'असावेतत्ते
इति, ये च त्वमन्विति चैके' इति । असावित्यत्र पित्रादीनां
सम्बोधनरूपेण गोत्रसहितनामग्रहणं कृत्वा एतत्ते इति वक्त-
व्यम् ।
पिण्डोदकप्रदानं तु नित्यनैमित्तिकेष्वपि ।
आलभ्य नाम गोत्रेण कर्तव्यं सर्वदैव हि ॥
इति व्यासस्मरणात् । एवं च अमुकगोत्रामुकशर्मन्नेतत्ते इति
पिण्डदानमन्त्र ऊह्यः । 'ये च त्वामनु इति चैके' इति
पक्षे मन्त्रत्रयेऽप्येतत्ते इत्यस्मादनन्तरं 'ये च त्वामनु' इति मन्त्र-
शेषो द्रष्टव्यः । आश्वलायनस्त्वन्यथा पिण्डदानमन्त्रानाह—'ए-
तत्तेऽसौ, ये च त्वामनु' इति। अत्रापि असावित्यत्र संबोधनरू-
पेण पित्रादीनां गोत्रसहितनामग्रहणं कर्तव्यम् । नन्वेतत्ते
इत्यत्रैतदिति कथं नपुंसकलिङ्गनिर्देशः, पिण्डस्यैतच्छब्दा-