सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

१४ शिल्परत्ने [उत्तरभागे
पञ्चपञ्चांशके दैर्घ्ये वसुसप्तषडंशकैः ॥ ६५ ॥
विस्तारं वेसरे विद्यात् पूर्ववज्जयदादिकम् ।
लिङ्गं सर्वसमं समोन्मितिविभक्तांशत्रयं तत् पुनः
स्वायत्या समनाहकं यदि समांशं चाथ वृद्ध्युत्तरम् ।
भक्ते भानुयुजोच्छ्रयेऽद्रिवसुनन्दांशैस्तु मूलादिष्व-
पेतं दिग्दलिते त्रिलोकयुगसङ्ख्यातैस्तथेशाधिकम् ॥ ६६ ॥
आयामे दलिते दिवाकरयुजाभीष्टेऽष्टभिर्विस्तृतिः
कार्यांशैरपि पञ्चपञ्चयवयुक्तैः सप्तभिः पञ्चभिः ।
स्वायामार्कयुगांशकद्विरसनांशः स्याद् यवः केवलैः
पञ्चांशैरपि गर्भगेहनवमांशेनापि सा स्मर्यते ॥ ६७ ॥
मार्ताण्डद्वयभागभक्तमखिलं लिङ्गं विधायांशकै-
रष्टाभिर्यवपञ्चयुक्तमुनिभिः सार्धं यवैः पञ्चभिः ।
भूतैः पञ्चभिरेव वर्णविहितैर्विप्रादितो विस्तृतिः
कुर्यात् सर्वसमं समांशविहितं वृद्ध्युत्तरेशाधिके ॥ ६८ ॥
भागैश्चतुर्विंशतिभिः समस्त-
लिङ्गस्य दीर्घं प्रविभज्य सम्यक् ।
विष्कम्भमंशैरथ पञ्चभिश्च
नाहं मितं षोडशभिश्च भागैः ॥ ६९ ॥
आरभ्य षड्भागमतः क्रमेण
पादांशवृद्ध्या नवधा विभागैः ।
वस्वन्तमेतानि नवोदितानि
लिङ्गानि मित्रद्वयभागभक्ते ॥ ७० ॥

लिङ्गलक्षणम् ।] द्वितीयोऽध्यायः । १५
अष्टाष्टार्धनवांशकैर्विभजिते विस्तारमंशद्वयं
श्रेष्ठं मध्यममंशकैस्त्रिभिरतश्चार्धांशवृद्धयोत्तरे ।
भक्ते कन्यकमंशकैस्त्रिभिरतो भक्ते च भागद्वयं
विष्कम्भं पुनरेवमेव नवधा संकल्पयेद् वा क्रमात् ॥ ७१ ॥
रागिदाराक्षनिहतं कृत्वा विष्कम्भमार्जितम् ॥ ७२ ॥
अनूननेत्रवीभक्तं परिणाहं समीपगम् ।
विष्कम्भमानात् त्रिगुणं निधाय
विष्कम्भवस्वंशकतोऽष्टमांशम् ।
विक्षिप्य वा नाहविधिस्तदेक- .
विंशद्भिभागो निहितोऽथवा स्यात् ॥ ७३ ॥
सर्वतोभद्रकं लिङ्गं वर्धमानं शिवाधिकम् ॥ ७४ ॥
स्वस्तिकं च चतुर्धा स्यात् तल्लक्ष्म पृथगुच्यते ।
विप्राणां सर्वतोभद्रं भूभुजां वर्धमानकम् ॥ ७५ ॥
शिवाधिकं विशामिष्टं शूद्राणां स्वस्तिकं मतम् ।
प्रतिलोमानुलोमादिवर्णानामपि स्वस्तिकम् ॥ ७६ ॥
यथोचितातानवितानयुक्तां
शिलां यथोक्तक्रमतोऽभिभज्य ।
मूलं युगाश्रं विदधीत मध्य-
मष्टाश्रकं वृत्तमयं परं च ॥ ७७ ॥
तुर्यश्रे सुसमे प्रसार्य भुजसूत्रं कर्णसूत्राध्वना
तस्यान्ताहितलक्ष्मसु प्रतिदिशं द्वे द्वे भुजासूत्रके ।
१. 'अन्यनेत्रविभ' ग. पाठः.

१६ शिल्परत्ने [उत्तरभागे
कृत्वा तद्द्वयमध्यसंस्थितचतुष्कोणानि संशोध्य सा-
ध्वष्टाश्रं विदधीत वृत्तभपि तद् व्यष्टाश्रकादिक्रमात् ॥ ७८॥
तुर्यश्रेऽष्टाश्रके वृत्ते ब्रह्मा विष्णुः शिवः क्रमात् ।
देवताः सर्वलिङ्गेषु त्रिखण्डेषु विशेषतः ॥ ७९ ॥
कांश्ः पादशिलायां स्याद् विष्ण्वंशः पीठिकासमम् ।
दृश्यः शिवांशः पूज्यः स्यात् सर्वलिङ्गेष्वयं विधिः ॥८०॥
सममाना भवेद् वेदी लिङ्गस्यावारिका यथा ।
पूजांश एव निर्दिष्टो लिङ्गशब्देन चात्र हि ॥ ८१ ॥
वेदाश्रपीठिकायांस्तु लिङ्गे सर्वं समं त्विदम् ।
तल्लिङ्गपरिणाहस्थब्रह्मसूत्रचतुष्टये ॥ ८२ ॥
विस्तारः सम एव स्याच्छायादोषोऽन्यथा भवेत् ।
अ(थो ? तो) लिङ्गसमं पीठं स्याच्छायादोषवर्जितम् ॥८३॥
पीठेषु लिङ्गतुल्या स्यात् परिणाहं तु विस्तृतिः ।
तथा तुङ्गेषु लिङ्गेषु पीठिकाधिकविस्तृतिः ॥ ८४ ॥
अवगम्य शिवांशे तु वर्धयेत् तत्समं यथा ।
यावद् वृद्धं शिवांशे तु ब्रह्मांशे हापयेत् तु तत् ॥ ८५ ॥
तद्वत् स्थूलेषु लिङ्गेषु न्यूनतां पीठविस्तृतेः ।
विज्ञाय पूजाभागं तु कुर्याद्ध्रस्वं तदंशतः ॥८६॥
ब्रह्मांशे वर्धयेद् भागे वृद्धिहानी न वैष्णवे ।
छायादोषो विचार्योऽयं लिङ्गे सर्वसमे स्मृतः ॥ ८७ ॥
१. 'वीथिका' ग. पाठः. २. 'द्रून्मूलेषु लि' ख. ग. पाठः.

लिङ्गलक्षणम् ] द्वितीयोऽध्यायः । १७
वर्धमानादिलिङ्गेषु नैतत् स्यादिति केचन ।
तद्वद् व्यक्तेषु लिङ्गेषु व्यक्ताव्यक्ते च रत्नजे ॥ ८८ ॥
स्वयंभुवि तथा बाणेऽप्यार्षे वा नियमो नहि ।
वर्धमानादिलिङ्गानां त्रयाणमप्ययं विधिः ॥ ८९ ॥
यमसूत्रे तु कथिता छायादोषं विना यथा ।
लिङ्गायतप्रमाणानीत्यादिना पीठविस्तृतिः ॥ ९० ॥
शिवभागसमा कार्या व्याख्यातं सङ्ग्रहे तथा ।
यावल्लिङ्गस्य वै दैर्घ्यं तावत् पीठस्य विस्तृतिः ॥ ९१ ॥
सङ्कृत्यंशे तु लिङ्गोच्चे सप्ताष्टनवाभिः क्रमात् ।
अंशैर्ब्रह्महरीशानभागाः स्युर्वर्धमानके ॥ ९२ ॥
लिङ्गायामे प्रकृत्यंशे षट्सप्ताष्टांशकल्पिताः ।
क्रमाद् ब्रह्मादिभागास्त एवं वा वर्धमानके ॥ ९३ ॥
पञ्चषट्सप्तभागैर्वा चतुष्पञ्चषडंशकैः ।
वर्धमानं भवेल्लिङ्गं श्रेष्ठमध्याधमक्रमात् ॥ ९४ ॥
लिङ्गायामे तु पङ्क्त्यंशे रामाग्निश्रुतिसम्मितैः ।
अंशैर्ब्रह्मादिभागाः स्युः क्रमाल्लिङ्गे शिवाधिके ॥ ९५ ॥
लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागकैः ।
ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः ॥ ९६ ॥
लिङ्गं त्रैराशिकं नाम भवेत् सर्वसमे तु तत् ।
स्वायामार्धार्धविस्तारं स्वस्तिकं वा शिवाधिकम् ॥ ९७ ॥
वर्धमानं च तल्लिङ्गं नाम्ना सुरगणार्चितम् ।
तत् सार्वदेशिकं ज्ञेयं सर्ववर्णहिताव्हम् ॥ ९८ ॥
D

१८ शिल्परत्ने [उत्तरभागः
पौष्करे कारणाख्ये च यथोक्तं तत्तु कथ्यते ।
चतुरंशादि विप्राणां पञ्चांशादि नृपोचितम् ॥ ९९ ॥
षड्भागादि विशां योग्यं सप्तांशार्थं तु वार्षलम् ।
वर्धमानं चतुर्भेदमेवं वर्णक्रमादिदम् ॥ १०० ॥
आकृत्यंशे तु लिङ्गोच्चे सप्तसप्ताष्टभागकैः ।
ब्रह्माद्यंशेषु यल्लिङ्गं विप्राभीष्टं शिवाधिकम् ॥ १०१ ॥
एकोनविंश(ता ?त्या) भक्ते तुङ्गे षट्षट्‌तुरङ्गकैः ।
ब्रह्मादिभागतुङ्गं चेद् भौपमीशाधिके स्मृतम् ॥ १०२ ॥
त्रयोदशांशे लिङ्गोच्चे वेदवेदशरांशकैः ।
कादिभागं विशां योग्यं लिङ्गमुक्तं शिवाधिकम् ॥ १०३ ॥
लिङ्गतुङ्गे दशांशे तु गुणाग्निश्रुतिभागिकम् ।
ब्रह्माद्यंशेषु शूद्राणामिष्टं लिङ्गं शिवाधिकम् ॥ १०४ ॥
पूर्वोक्तसमलिङ्गे च धारालिङ्गं विकल्पितम् ।
चतुरश्रं द्विरष्टाश्रं तन्मूले परिकल्पयेत् ॥ १०५ ॥
वैष्णवांशे च शैवांशे धारा द्विद्विगुणीकृते ।
सर्वेषामपि लिङ्गानां धारालिङ्गं त्रिधा मतम् ॥ १०६ ॥
मूलेऽष्टाश्रं वा कलाश्रं युगाश्रं
तस्मादूर्ध्वं तद्युगाः स्युश्च धाराः ।
एवं पूर्वाचार्यकैरीश्वरस्य
प्रोक्तं धारालिङ्गमेतत् त्रिधैव ॥ १०७ ॥

लिङ्गशिरोवर्तनम् ] द्वितीयोऽध्यायः । १९
सर्वतोभद्रलिङ्गेषु धाराः स्युः पञ्चविंशतिः ।
सप्तपर्णदलाकाराः समाः सर्वाः समान्तराः ॥ १०८ ॥
एकैकस्यां तु धारायां चत्वारिंशत्प्रसङ्ख्यया ।
कुर्यात् समानि लिङ्गानि स्यात् तल्लिङ्गसहस्रकम् ॥ १०९ ॥
चतुरश्रस्य कोणार्धसूत्रलाञ्छनमध्यतः ।
कोणत्यागात् तदष्टाश्रं कुर्याद् विष्ण्वंशसिद्धये ॥ ११० ॥
अथवा लिङ्गविस्तारं सप्तधा विभजेत् समम् ।
मध्ये त्रिभागं संस्थाप्य द्विद्विभागविवर्जनात् ॥ १११ ॥
वस्वश्रं सिध्यति सममथ वृत्तं निगद्यते ।
चतुरश्रस्य लिङ्गस्य शिरोमध्ये निधाय तु ॥ ११२ ॥
सूत्रं दिगन्तेमानेन भ्रामयेद् वृत्तसिद्धये ।
अथ शिरोवर्तनम् ।
कुर्वीत त्रपुषीफलाग्रसदृशं छत्रोपमं मस्तकं
बालेन्द्राकृति कुक्कुटाण्डसदृशं विप्रादिवर्णक्रमात् ।
भेदाः सर्वसमांशकप्रभृतयो नाहप्रभेदान्विता-
स्तेऽप्येतत्क्रमतः स्युरेतदनुलोमाङ्गीकृतिश्चेष्यते ॥
विस्तारं शिवलिङ्गमूर्ध्नि वसुनन्दादित्यरुद्रांशकं
कृत्वात्र क्रमतो विशोध्य परितो ह्येकद्विलोकांशकान् ।
कृत्वात्यष्टितिथिप्रकृत्यतिधृतिख्यातांशयुक्तं क्रमात्
पूजाभागमिहोक्तभागमुपरिष्टाच्छोधयेद् वर्णिषु ॥
१. 'णोर्ध्व' ख. पाठः. २. 'न्तं तेनैव आ' ख. ग. पाठः,

२० शिल्परत्ने [उत्तरभागः
तन्मस्तके नवविभागतया विभक्ते
भागं विशोध्य परितः शिवभागदैर्घ्यम् ।
द्वात्रिंशदंशकतया परिकल्प्य भागा-
नैकैकशो द्विजमुखेषु विशोधयेद् वा ॥ ११५ ॥
छत्राभं त्रपुषाकारं कुक्कुटाण्डनिभं तथा ।
अर्धेन्दुसदृशं चाथ बुद्बुदाभं तु पञ्चमम् ॥ ११६ ॥
सर्वेषामपि लिङ्गानां शिरसो वर्तनक्रमम् ।
लिङ्गव्यासात् षोडशांशमेकद्वित्रियवाधिकम् ॥ ११७ ॥
आरोप्य केऽधः संलम्ब्य लिङ्गस्योभयपार्श्वयोः ।
वर्तयेत् तत्र चत्वारि छत्राभाणि भवन्ति हि ॥ ११८ ॥
प्रथमं च द्वितीयं चैं समालिङ्गे नियोजयेत् ।
शिवाधिके तृतीयं तु चतुर्थं वर्धमानके ॥ ११९ ॥
वर्तनं सङ्करं नैव कुर्यात् तदशुभं यतः ।
षडंशे लिङ्गविस्तारे सार्धद्वयंशेन वर्तयेत् ॥ १२० ॥
त्रपुषाभशिरःसिद्धयै रामांशैः कुक्कुटाण्डकम् ।
लिङ्गव्यासत्तृतीयांशवर्तनादर्धचन्द्रकम् ॥ १२१ ॥
लिङ्गव्यासेऽष्टधा भक्ते सार्धांशत्रयवर्तनात् ।
बुद्बुदाभस्य लिङ्गस्य शिरः सिध्यति शोभनम् ॥
लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्पार्श्वयोः
कृत्वा मत्स्ययुगं तदास्यजघनान्निष्क्रान्तसूत्रद्वये ।
तस्माद् यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा
तत्तद् वर्तयितव्यमत्र बहुधा सोपायमीशोदितम् ॥

बाणलिङ्गम् ] द्वितीयोऽध्यायः । २१
अथ लिङ्गं स्थूलमूलं स्थूलं मध्ये कृशं तथा ।
शेषं स्थूलशिरस्कं च चतुर्थेति मयोदितम् ॥ १२४ ॥
लिङ्गव्यासेऽष्टधा भक्ते मूले मध्याग्रयोरपि ।
भागाधिकं च हीनं च स्थूलमूलादिकं स्मृतम् ॥ १२५ ॥
लिङ्गमार्षं तथा स्वायम्भुवमित्यत्र द्विश्वरित तत् ।
वेदाश्रौ ब्रह्मविष्ण्वंशौ लिङ्गेष्वार्षेषु सम्मतौ ॥ १२६ ॥
शिवांशो वृत्त एव स्याच्छिरसो वा न वर्तनम् ।
अथ स्वयम्भूलिङ्गानि जर्जराणि कृशानि च ॥ १२७ ॥
ह्रस्वानि चातिदीर्घाणि फलकासदृशानि च ।
अनेकाग्राणि गोकर्णमातुलुङ्गनिभान्यपि ॥ १२८ ॥
षट्पञ्चत्रिदशाग्राणि मानोन्मानादिभिर्विना ।
शृङ्गाण्यपि च वक्राणि नानावर्णाकृतीनि च ॥ १२९ ॥
सपीठानि विपीठानि साल्यान्यगृहाणि च ।
वनपर्वतनद्यब्धितीर्थक्षेत्रगतान्यपि ॥ १३० ॥
दर्शनस्पर्शनार्चाभिर्येषां सिद्धिरनुत्तमा ।
विद्यात् स्वयम्भूलिङ्गानि येषु नित्यं स्थितः शिवः ॥ १३१ ॥
मूलं न शोधयेत् तेषां शोधनं सर्वनाशकृत् ।
अमीमांस्यानि तान्याहुः पूज्यान्येव यथास्थिति ॥ १३२ ॥
नैषां मूर्तिविभागोऽस्ति नच स्यान्मन्त्रसङ्करः ।
मानुषेष्वेव लिङ्गेषु मन्त्रमूर्त्यादिसङ्करः ॥ १३३ ॥
अथ बाणलिङ्गम् ।
बाणलिङ्गं तु यत् सर्वं यथाजातं निधापयेत् ।
स्वेच्छयार्धं तु रामांशं वा पञ्चांशं द्विभागिकम् ॥ १३४ ॥

२२ शिल्परत्ने [उत्तरभागः
पीठे सलक्षणे लौहे सौधे वा स्थापयेच्छुभे ।
कोट्यस्तिस्रस्तु लिङ्गाद्रौ तिस्रः श्रीपर्वते स्थिताः ॥ १३५॥
तिस्रस्तु कालिकागर्ते तिस्रश्चाप्यमरेश्वरे ।
कन्यातीर्थे महेन्द्राद्रौ नेपाले कन्यकाश्रमे ॥ १३६ ॥
तेष्वेकैका स्थिता कोटिरेवं कोट्यस्तु षोडश ।
सपीठं वाप्यपीठं वा सप्रासादमवर्तनम् ॥ १३७ ॥
सर्वसङ्करहीनं तत् सर्वेषां भुक्तिमुक्तिदम् ।
पूजयेद् बाणलिङ्गं तत् प्रतिष्ठाप्य विधानतः ॥ १३८ ॥
अन्यान्यपि च लिङ्गानि नद्यब्धिगिरिकान्यपि ।
अकृतानि विशिष्टानि देवदैत्यमुनीश्वरैः ॥ १३९ ॥
दिव्यैरन्यैः सिद्धमुख्यैः पूज्यान्येव हि बाणवत् ॥ १४० ॥
इति शिल्परत्ने उत्तरभागे लिङ्गलक्षणं नाम
द्वितीयोऽध्यायः ॥
अथ तृतीयोऽध्यायः ।
अथ लक्षणोद्धारः ।
एवं लिङ्गं कारयित्वा महात्मा
शून्यं दोषैर्लक्षणैरन्वितं च ।
लक्ष्मोद्धारं कारयेद् वर्णयोग्यं
यद्वत् प्रोक्तं तत्क्रमात् (स्वर्ग ? स्वाग)मेषु ॥ १ ॥
लिङ्गमूर्ध्नि क्षतं स्याच्चेद् राज्ञां कर्तुश्च नाशनम् ।
छिद्रं भार्यां सुतं शङ्खे वक्त्रे हन्याच्च शिल्पिनम् ॥ २ ॥

लक्षणोद्धारः ] तृतीयोऽध्यायः । २३
मध्ये दुःखं च दुर्भिक्षं क्रोडे वृष्टिविनाशनम् ।
अत्यायतं चातिह्रस्वं कृशं स्थूलं नृपान्तकृत् ॥ ३ ॥
पर्याप्तकर्म यल्लिङ्गं शोणादि(?)र्वालुकादिभिः ।
गोबालरज्जुभिश्चैव घर्षयेन्निर्व्रणं समम् ॥ ४ ॥
मुकुरोदरवच्छ्लक्ष्णं दृश्यच्छायं सुवर्तुलम् ।
ततः शुद्धाम्बुगोक्षीरनालिकेरेक्षुवारिभिः ॥ ५ ॥
प्रक्षाल्य तीर्थतोयेन प्रोक्तचिह्नानि लक्षयेत् ।
राजसर्षपमात्राश्चेद् यत्र स्युः स्वर्णबिन्दवः ॥ ६ ॥
लिङ्गे वा पीठिकायां वा सर्ववर्णहितावहम् ।
स्वल्पदोषमपि त्याज्यं लिङ्गं पीठं च तद् भवेत् ॥ ७ ॥
निर्दोषमन्यत् संपाद्य लक्षणोद्धारमाचरेत् ।
भङ्क्त्वा त्रेधा शिवांशायातिमुपरितनं भागमुत्क्षिप्य शिष्टं
कृत्वाष्टांशं समास्फाल्य च विषुवसिरासूत्रमत्राष्टमांशे ।
लिङ्गाभं लक्ष्म साधारणमथ यवरूपं महेमेक्षणाभं
व्रीह्याकारं च बद्धाञ्जलिनिभमपि विप्रादिक्लृप्त्या लिखेद्
[वा ॥ ८ ॥
रेखां लक्षणमूलतो मणिमयीं मूलांशयुग्मान्तिमं
रेखे लक्षणपार्श्वजे च परिलिख्येष्वांशमध्यावधि ।
ऊर्ध्वाग्रैर्ऋतुसूत्रकैस्त्रिदशकोष्ठानि प्रकल्प्याथ ते
तत्कर्णक्रमतः परागवनिपङ्क्त्यन्ते मिथो योजयेत् ॥ ९ ॥
विस्तारोऽधमलक्षणे द्वियवतस्तत्पादवृद्धयोर्ध्वतो
रेखा तद्दुलतो मिता मणिमयी तत्सामिक्लृप्ते परे ।

२४ शिल्परत्ने [उत्तरभागः
रेखा दक्षिणवाममध्यरचिता ब्रह्माजितानङ्घ्राजि-
हैवत्यश्चतुरश्रकादिशिवलिङ्गांशाश्च तद्देवताः ॥ १० ॥
प्रथमं नागरलिङ्गे षोडशभागं कृते शिवायामे ।
षड्भूतवेदभागांस्त्यक्त्वोर्ध्वे कन्यसाद्युदयम् ॥ ११ ॥
एवं त्रिकमुत्सेधं बुद्ध्वा च त्र्यंशकास्तु सर्वेषाम् ।
विष्ण्वंशादिसुखे द्वे सूत्रे संलम्बयेत् पार्श्वे ॥ १२ ॥
पृष्ठे तयोर्युतिः स्याद्दीने वेदाग्निदसेषु ।
मध्ये भूतवनानिलपांशेषु (?) युतिस्तयोः पृष्ठे ॥ १३ ॥
श्रेष्ठे षड्भूतवनानलपांशेषूदिता तु युतिः ।
तेषु ग्रीवैकांशं त्र्यंशं सूत्रविष्कम्भम् ॥ १४ ॥
यावदधोविष्ण्वंशं प्रोक्तोत्सेधे नयेत् तु समम् ।
एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम् ॥ १५ ॥
पादोनं भागमर्धं वा ब्रह्मसूत्रविशालता ।
भवेद् विष्ण्वंशपर्यन्तं ब्रह्मसूत्रस्य तु स्थितिः ॥ १६ ॥
तदर्धं पार्श्वसूत्रस्य लेखा मध्यभवा भवेत् ।
तथा द्राविडलिङ्गेच्च त्रिपुञ्चांशे क्रमेण तु ॥ १७ ॥
नन्दाद्रिरुद्रभागोच्चं हीनादुच्चमिहोदितम् ।
सप्ताष्टनवभागे(स्यात् ? भ्यः) क्रमात् सूत्रे तु लम्बयेत् ।
नीचे युगाग्निद्वितये मध्ये बाणयुगाग्निषु ।
द्वयोश्चाथोत्तमे लिङ्गे रसेषु श्रुतिभागिषु ॥ १९ ॥

लक्षणोद्धारः] तृतीयोऽध्यायः । २५
युतिः स्याद् द्राविडे सू(त्रे ? त्र)न्यासः स्वांशार्धतः समः ।
तदर्धं पक्षसूत्रस्य व्यासागाधे च पूर्ववत् ॥ २० ॥
षोडशांशे शिवायामे सूत्रायामो दशांशतः ।
ऊर्ध्वांशश्च चतुर्भागः स्यादधश्च द्विभागिकः ॥ २१ ॥
मुकुलाकारमारभ्य पार्श्वसूत्रद्वयं क्रमात् ।
द्व्यंशं विहाय पृष्ठे तु युतिर्युक्ता तयोः पुनः ॥ २२ ॥
अथवा षोडशांशेऽधोभागं वेदांशमूर्ध्वतः ।
त्यक्त्वा सूत्रं तु रुद्रांशैरुच्चात् प्राग्वद् युतिः स्मृता ॥
इत्थं द्राविडलिङ्गस्य लक्षणोद्धारं स्मृतम् ।
अथ वेसरलिङ्गस्य त्रिपञ्चांशे शिवोच्छ्रये ॥ २४ ॥
नालायामो दशांशः स्याद् वस्वंशप्रभृति क्रमात् ।
सूत्रयोर्लम्बनं कुर्याद् भूतवेदगुणांशकैः ॥ २५ ॥
तयोर्युतिर्भवेच्छ्रेष्ठे विष्कम्भः षोडशांशतः ।
मध्येऽशे वसुभागोच्चे वेदांशैर्नालमुन्नतम् ॥ २६ ॥
ऊर्ध्वं त्रयोंऽशाः शोध्योंऽशो गुणभागात् प्रभृत्यधः ।
सूत्रे तु लम्बयेत त्रिद्विभागेषु स्यात् तयोर्युतिः॥ २७ ॥
गृहीतांशे त्रिधा भक्ते व्यासो भागद्वयेन तु ।
एवं मध्यममुक्तं स्याल्लिङ्गे वेसरसंज्ञिते ॥ २८ ॥
कनिष्ठवेसरस्याथ द्वादशांशे शिवोच्छ्रये ।
अधोऽशमंशा(दू ? र्ध्वें) तु सूत्राया(मे ? मो) नवांशतः॥
सङ्गमः पूर्ववज्ज्ञेयो भागे वै षोडशांशिते ।
भोगेन सूत्रन्यासः स्यात् तदर्धं पक्षसत्रयोः ॥ ३० ॥
E

२६ शिल्परत्ने [उत्तरभागः
कनिष्ठवेसरस्यैवं लक्षणोद्धारणं स्मृतम् ।
छत्राभमस्तके लिङ्गे सूत्राग्रं स्याद् गजाक्षवत् ॥ ३१ ॥
खण्डेन्दुमस्तके लिङ्गे सूत्राग्रं बुद्बुदोपमम् ।
लिङ्गाग्रे त्रपुषाभे तु सूत्राग्रं कुक्कुटाण्डवत् ॥ ३२ ॥
कुक्कुटाण्डशिरोलिङ्गे सूत्राग्रं छत्रसन्निभम् ।
सामान्येन तु लिङ्गानां सूत्राग्रमथ कथ्यते ॥ ३३ ॥
कदलीमुकुलाभं वा सरोजमुकुलाकृति ।
अश्वत्थपत्रसदृशं सामान्यं हि यवोपमम् ॥ ३४ ॥
अत्यष्ट्यंशे तु लिङ्गाभे भागं त्रेधा विभज्य तु ।
मध्यसूत्रततिर्द्व्यंशं तदर्धं पक्षसूत्रयोः ॥ ३५ ॥
कनिष्ठवेसरस्यैवं लक्षणोद्धार ईरितः ॥ ३६ ॥
अथ मुखलिङ्गम् ।
यथोक्ताव्यक्तलिङ्गेषु शिवांशे दशभाजिते ।
अश्विनेत्राग्निभागैः१ स्यात् स्कन्धः कण्ठस्तथाननम् ॥ ३७ ॥
उष्णीषोंऽशस्तु मकुटं द्व्यंशमूर्ध्वं तु भागतः ।
भागेन मुखविष्कम्भो विस्तृतश्चोर्ध्वलिङ्गवत् ॥ ३८ ॥
ललाटकण्ठभ्रूनेत्रघ्राणगण्डमुखादिकम् ।
मानोन्मानप्रमाणे सर्वं सकलवत् स्मृतम् ॥ ३९ ॥
अथैकत्रं चतुर्वक्त्रं ग्रामादिष्वेव विन्यसेत् ।
द्विवक्त्रं पर्वतेऽरण्ये परराष्ट्रान्तिकेऽपि च ॥ ४० ॥
स्थापयेत् तदरिध्वंसं विदधाति स्वलक्षणम् ।
चतुर्मुखैकानन भूत्यै पञ्चास्यं चाभिचारकम् ॥ ४१ ॥
१. 'गो' ग. पाठः.

लक्षणोद्धारः] तृतीयोऽध्यायः । २७
(वि ? द्वि)मुखं चारिनाशाय स्थाप्यं शैलवनादिषु ।
सर्वेषां मुखलिङ्गानां निर्गमः स्यात् पृथक् पृथक् ॥४२॥
प्रविष्टा कन्धरा कार्या विष्णुभागोपरि स्थिता ।
हस्तादिपञ्चहस्तान्तं मुखलिङ्गं प्रकल्पयेत् ॥ ४३ ॥
अतः परं न कुर्वीत मुखलिङ्गं शुभेच्छया ।
पूजांशार्धे त्रिभागैकं गाढं वा स्फाटिके मतम् ॥ ४४ ॥
समं त्रिपादमर्धं वा पूजांशात् तस्य विस्तृतिः ।
सधारं वाथ वृत्तं वा लिङ्गं स्यात् स्फाटिकं स्मृतम् ॥४५॥
शिरसो वर्तनं प्राग्वद् ब्रह्मसूत्रं न भावयेत् ।
ब्रह्मसूत्रं विनाप्येतत् तेजोद्रव्यं वरप्रदम् ॥ ४६ ॥
स्फटिकादिशिलाद्यैस्तु प्रतिमाकरणे पुनः ।
१वज्रं शस्त्रं प्रकर्तव्यं कारयेत् तेन शाणया ॥ ४७ ॥
दारणच्छेदनादौ तु कृष्णलोहशलाकया ।
शाणाचूर्णेन तोयेन यथायुक्ति समाचरेत् ॥ ४८ ॥
स्फाटिकं शकलं वाथ दग्ध्वा२ चूर्णीकरोत्वथ ।
पिष्ट्वा तच्चूर्णमम्भोभिस्तत् पिष्टं कदलीदले ॥ ४९ ॥
विन्यस्याङ्गारराशौ तु पाचयेन्मोदकं यथा ।
तस्मिन्नग्निनिभे जाते मन्दमादाय चूर्णयेत् ॥ ५० ॥
तच्चूर्णं किंशुकाक्लृप्तफलकायां समाहितः ।

२८ शिल्परत्ने [उत्तरभागः
अथ योन्याद्यम् ।
त्रिविधाङ्गुलमानानां जात्यंशं नातिरोपयेत् ।
बेरेषु तेषु योन्याद्यं नयेत् स्वैः स्वैरिहाङ्गुलैः ॥ ५३ ॥
लिङ्गानामपि शिष्टानां जात्यंशारोपणं मतम् ।
(माने) चतुरशीत्यंशे (द्विषष्ट्यंशे) तदुच्छ्रये ॥ ५४ ॥
सङ्कृत्यंशे विकारांशे विप्रादीनां यथाक्रमम् ।
एकांशारोपणादुक्तं¹ जात्यंशारोपणं हितम्² ॥ ५५ ॥
प्रस्तुतप्रतिमोत्सेधं त्रिंशदंशादितः क्रमात् ।
शतांशान्तं विभज्यैषु भागैरन्यतमैर्बुधैः ॥ ५६ ॥
उक्तविप्रादिमानेषु जात्यंशारोपणं स्मृतम् ।
गृहीतोत्सेधमाने तु मानाङ्गुलविभाजिते ॥ ५७ ॥
वृद्ध्या वाङ्गुलिविच्छेदं परिहृत्य प्रकल्पयेत् ।
मानं प्रमाणमित्यादि पूर्वोक्तन्यायमाश्रितः ॥ ५८ ॥
योनिवारादिघटनां योजयेच्छोभनं यथा ॥ ५८- ॥
इति शिल्परत्ने उत्तरभागे लक्षणोद्धारविधिर्नाम
तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः ।
अथ सकलबिम्बोत्सेधः ।
द्वारोत्सेधसमं तदङ्घ्रिरहितं द्वारेऽखिले चोनिते
नन्दांशेन गजांशकेन च समं भक्ते त्रिधा द्व्यंशकैः ।
१. 'क' ख., 'क्ता' क. ग. पाठः. २. 'त्' ख. पाठः.

प्रतिमोत्सेधः] चतुर्थोऽध्यायः । २९
कॢप्तानीत्युदितानि पञ्च मनुबिम्बान्यत्र गर्भालये
भक्ते लोकशरैक्षणैर्द्विगुणभूम्यंशग्रहात् त्रीणि च ॥१॥
गर्भगेहे ततो नन्दभागे नन्दविधोन्नतम् ।
अथवा गर्भगेहे तु त्रिनवांशविभाजिते ॥ २ ॥
एकांशादेकवृद्ध्या तु सप्तविंशतिधा पुनः ।
अथवाष्टादशांशे तु गर्भगेहविशालके ॥ ३ ॥
तावता बिम्बमानोच्चमेकादेकांशवर्धनात् ।
गर्भद्वारस्य चोत्सेधं गजभागविभाजिते ॥ ४॥
पञ्चांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् ।
अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानतः ॥ ५॥
अधमोत्तमयोर्मध्यं वसुभागविभाजिते ।
नवधा सकलोत्तुङ्गं द्वारमानाद् विधीयते ॥ ६ ॥
अथवा द्वारतुङ्गं तु सप्तविंशतिभाजिते ।
एकैकांशविहीनेन बिम्बोच्चं त्र्यक्षभेदतः ॥ ७ ॥
एवं हि द्वारमानेन षट्त्रिंशद्भेदतोदितम् ।
अथाधिष्ठानमानेन एवमेवाङ्घ्रिमानतः ॥ ८ ॥
बाह्यप्रासादमानेन गर्भगेहोक्तवत् स्मृतम् ।
एकादिनवहस्तान्तं नवधा हस्तमानतः ॥ ९ ॥
तालादिदशतालान्तं तालमानेन कल्पयेत् ।
कर्तुश्च हृदयान्तं वा स्तनान्तं बाहुसीमकम् ॥ १० ॥
हन्वन्तं चास्यसीमान्तं नेत्रसूत्रावसानकम् ।
कर्तुश्चोदयतुल्यं वा यजमानवशादिमे ॥ ११ ॥

३० शिल्परत्ने [उत्तरभागः
अथ वा कर्तृतुङ्गं तु नवभागविभाजिते ।
एकैकांशकहीनेनाप्यष्टधा सकलोदयम् ॥ १२ ॥
मानाङ्गुलैः पुरा प्रोक्तैस्तथा मात्राङ्गुलैरपि ।
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ १३ ॥
त्रयोविंशाङ्गुलं यावत् तावद् बिम्बोदयं स्मृतम् ।
सर्वेषामपि बिम्बानां प्रोक्तानां बहुधात्र हि ॥ १४ ॥
उष्णीषात् पादपर्यन्तं तुङ्गमापादमूर्धकम् ।
अथ बहुबेरे—
शम्भोर्नासाग्रमानं वा हनुसीमन्तमेव वा ॥ १५॥
(ते कांस्ये मथाभिघार्य हविषा मूलेन लिङ्गाकृतिं
कृत्वाथा दशरुद्रदिग्वसुदो भिन्नैर्मतं चाङ्गुलैः ।
विप्रादिष्वथ वर्णभेदविहितं साज्यं दधि क्लेदितम् ?)
....................................... ॥ १६ ॥
तयोर्मध्येऽष्टधा भङ्क्त्वा नवधा शक्तितुङ्गकम् ।
सर्वेषामपि पार्श्वाङ्कस्थितशक्त्युदयं तथा ॥ १७ ॥
बहुबेरविधानमूलबिम्बं सुसमं द्वारसमुच्छ्रयेण कार्यम् ।
चरणांशविवृद्धमर्धवृद्धं पादोनद्विगुणं द्विसंगुणं च ॥
गृहे त्वात्मार्थबिम्बानां मानं मात्राङ्गुलेन तु ।
कर्तव्यमन्यथाचेत्तु वक्तव्यं कर्तृनाशनम् ॥ १९ ॥
अङ्गुलैर्निर्मितं बिम्बं सर्वजात्यर्हकं शुभम् ।
अङ्गुलीनिर्मिते बिम्बे जात्यंशं नातिरोपयेत् ॥ २० ॥

प्रतिमोत्सेधः] चतुर्थोऽध्यायः । ३१
अङ्गुलादन्यबिम्बोच्चे सवेदाशीतिभाजिते ।
एकांशं रोपयेत् तत्तु विप्रजात्यर्हकं स्मृतम् ॥ २१ ॥
द्विभागाधिकषष्ट्यंशैर्भङ्क्त्वैकांशसमन्वितम् ।
नृपजात्यर्हकं बिम्बमथार्कद्विगुणांशिते ॥ २२ ॥
एकांशारोपणं वैश्ययोग्यं बिम्बमिति स्मृतम् ।
षोडशांशेंऽशमारोप्यं बिम्बं शूद्रस्य सम्मतम् ॥ २३ ॥
एवं जात्यंशसंयुक्तबिम्बमानेन पूर्ववत् ।
योन्यादीनि समानीय चिन्तयेत्तु शुभाशुभम् ॥ २४ ॥
गृहोक्तमार्गमाश्रित्य विशेषः कथ्यतेऽत्र हि ।
यद्योनिर्निलयेऽर्चायां तयोनिः स्यान्नचान्यथा ॥ २५ ॥
कर्तुश्च जन्मनक्षत्रान्नृपवास्तुदिनात् तथा ।
गुणयेद् बिम्बतारांतं तेन लोकप्रसिद्धितः ॥ २६ ॥
विचार्य गणयोगादि शोभनं तु परिग्रहेत् ।
भौमवारो विवर्ज्यः स्यान्मध्यमौ सौरिसूर्ययोः ॥ २७ ॥
भानुवारादिभिर्युक्तं विशाखादि चतुश्चतुः ।
वियोगं मरणं नाशममृतं च यथाक्रमम् ॥ २८ ॥
सर्वेषामपि वृद्ध्यर्थं जात्यंशारोपणं स्मृतम् ।
तस्मात् तदनु कर्तव्यमायादीनां तु चिन्तनम् ॥ २९ ॥
अथ कौतुकोच्चम् ।
सकले सति मूलबिम्बके निगमांशोन्मिति कर्मबिम्बकम् ।
सकलाकृति निष्कलेऽपि वा स्थितमासीनमतः प्रकल्पयेत्
॥ ३० ॥

३२ शिल्परत्ने [उत्तरभागः
आयामेन शिवांशकस्य रचयेन्नाहेन वा सम्मितं
व्यासेनापिच मन्त्रलिङ्गविषये तत् कर्मबिम्बं शिवे ।
भङ्क्त्वा षोडशधा पुनस्त्रयमिदं रुद्राङ्कशैलाशुगा-
न्यंशैर्वाधिकमूनितं च कुहचित् कुर्यात् तदौचित्यतः ॥३१॥
सौवर्णे...................................।
..........................॥
लिङ्गमानेन बिम्बोच्चं कथ्यते पूर्वशास्त्रतः ।
पूजांशद्विगुणा वा स्यात् तुङ्गे द्वात्रिंशदंशिते ॥ ३२ ॥
तेषु वै सप्तविंशांशं पञ्चविंशांशमेव वा ।
त्रिभागाधिकविंशांशमेकविंशांशमेव वा ॥ ३३ ॥
एकोनविंशतिर्वाथ नृपांशं विश्वभागिकम् ।
रुद्रांशं नन्दभागं वा सप्तांशं पञ्चभागिकम् ॥ ३४ ॥
स्थूलदेशस्य लिङ्गानां पूर्वोक्तपरिणाहतः ।
तुल्यं विस्तारतो वाथ पूर्वोक्तक्रमतो द्वयम् ॥ ३५ ॥
अंशीकृत्य यथोक्तांशैः कौतुकोच्चं करोतु वा ।
पूजांशोच्चं तु नाहं विततिमपि पृथग् ह्यष्टभागं तु कृत्वा
तैरेवांशैस्त्रिभेदैर्गुणशरमुनिनन्दांशरुद्रांशकैर्वा ।
न्यूनं चैवाधिकं वा सममपि कथितं लिङ्गतो बेरमानं
भेदैर्गीर्वाणसंख्यैरिति विदितमभूत् पूर्वशास्त्रान्तरेषु॥३६॥
अथ तालनियमः —
उत्तमं दशतालाख्यं चतुर्विंशच्छताङ्गुलम् ।
मध्यमं दशतालं स्याद् विंशाधिकशताङ्गुलम् ॥ ३७ ॥

प्रतिमोत्सेधः] चतुर्थोऽध्यायः । ३३
अधमं दशतालं तु कलाधिकशताङ्गुलम् ।
तालं प्रत्ययमेवं तु क्रमाद् वेदांशहानितः ॥ ३८ ॥
उत्तमं नवतालादि बिम्बमानमुदाहृतम् ।
उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वराः ॥ ३९ ॥
मध्यमं दशतालेन तथैवोमासरस्वती ।
उषा भूमिश्च दुर्गा च लक्ष्मीज्येष्ठा च मातरः ॥ ४० ॥
मध्यमं दशतालेन वा त्रिमूर्तीन् प्रकल्पयेत् ।
कन्यसं दशतालेन चन्द्रादित्यावथाश्विनौ ॥ ४१ ॥
आर्यं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।
महर्षीणां गणांश्चैव तेषां देवीश्च कारयेत् ॥ ४२ ॥
उत्तमं नवतालेन विघ्नेशान् लोकपालकान् ।
वसूंश्च दिक्पतींश्चैव अस्त्रमूर्तींश्च गुह्यकान् ॥ ४३ ॥
देवानन्यांश्च देवीस्ताः कारयेल्लक्षणान्वितम् ।
मध्यमं नवतालेनाप्यष्टमूर्तिमरुद्गणान् ॥ ४४ ॥
यक्षासुरगणांश्चैव करोतु शुभलक्षणम् ।
कन्यसं नवतालेन विद्याधरगणांस्तथा ॥ ४५ ॥
असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च ।
अष्टतालेन मर्त्यांस्तु पिशाचाः सप्ततालतः ॥ ४६ ॥
षष्ठतालेन कुब्जाश्च तत्तच्छ्रेष्ठान्तराधमाः ।
तत्तदुत्तममध्यादिभेदेनैव भवन्त्यतः ॥ ४७ ॥
पञ्चतालोत्तमेनैव विघ्नेशं स्कन्दमेव च ।
वामनं च करोत्यस्य भूतान् मध्येन वाधमात् ॥ ४८ ॥