शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 47, कुल 280 में से
संदर्भ में पढ़ें२८ शिल्परत्ने [उत्तरभागः
अथ योन्याद्यम् ।
त्रिविधाङ्गुलमानानां जात्यंशं नातिरोपयेत् ।
बेरेषु तेषु योन्याद्यं नयेत् स्वैः स्वैरिहाङ्गुलैः ॥ ५३ ॥
लिङ्गानामपि शिष्टानां जात्यंशारोपणं मतम् ।
(माने) चतुरशीत्यंशे (द्विषष्ट्यंशे) तदुच्छ्रये ॥ ५४ ॥
सङ्कृत्यंशे विकारांशे विप्रादीनां यथाक्रमम् ।
एकांशारोपणादुक्तं¹ जात्यंशारोपणं हितम्² ॥ ५५ ॥
प्रस्तुतप्रतिमोत्सेधं त्रिंशदंशादितः क्रमात् ।
शतांशान्तं विभज्यैषु भागैरन्यतमैर्बुधैः ॥ ५६ ॥
उक्तविप्रादिमानेषु जात्यंशारोपणं स्मृतम् ।
गृहीतोत्सेधमाने तु मानाङ्गुलविभाजिते ॥ ५७ ॥
वृद्ध्या वाङ्गुलिविच्छेदं परिहृत्य प्रकल्पयेत् ।
मानं प्रमाणमित्यादि पूर्वोक्तन्यायमाश्रितः ॥ ५८ ॥
योनिवारादिघटनां योजयेच्छोभनं यथा ॥ ५८- ॥
इति शिल्परत्ने उत्तरभागे लक्षणोद्धारविधिर्नाम
तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः ।
अथ सकलबिम्बोत्सेधः ।
द्वारोत्सेधसमं तदङ्घ्रिरहितं द्वारेऽखिले चोनिते
नन्दांशेन गजांशकेन च समं भक्ते त्रिधा द्व्यंशकैः ।
१. 'क' ख., 'क्ता' क. ग. पाठः. २. 'त्' ख. पाठः.