शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 41, कुल 280 में से
संदर्भ में पढ़ें२२ शिल्परत्ने [उत्तरभागः
पीठे सलक्षणे लौहे सौधे वा स्थापयेच्छुभे ।
कोट्यस्तिस्रस्तु लिङ्गाद्रौ तिस्रः श्रीपर्वते स्थिताः ॥ १३५॥
तिस्रस्तु कालिकागर्ते तिस्रश्चाप्यमरेश्वरे ।
कन्यातीर्थे महेन्द्राद्रौ नेपाले कन्यकाश्रमे ॥ १३६ ॥
तेष्वेकैका स्थिता कोटिरेवं कोट्यस्तु षोडश ।
सपीठं वाप्यपीठं वा सप्रासादमवर्तनम् ॥ १३७ ॥
सर्वसङ्करहीनं तत् सर्वेषां भुक्तिमुक्तिदम् ।
पूजयेद् बाणलिङ्गं तत् प्रतिष्ठाप्य विधानतः ॥ १३८ ॥
अन्यान्यपि च लिङ्गानि नद्यब्धिगिरिकान्यपि ।
अकृतानि विशिष्टानि देवदैत्यमुनीश्वरैः ॥ १३९ ॥
दिव्यैरन्यैः सिद्धमुख्यैः पूज्यान्येव हि बाणवत् ॥ १४० ॥
इति शिल्परत्ने उत्तरभागे लिङ्गलक्षणं नाम
द्वितीयोऽध्यायः ॥
अथ तृतीयोऽध्यायः ।
अथ लक्षणोद्धारः ।
एवं लिङ्गं कारयित्वा महात्मा
शून्यं दोषैर्लक्षणैरन्वितं च ।
लक्ष्मोद्धारं कारयेद् वर्णयोग्यं
यद्वत् प्रोक्तं तत्क्रमात् (स्वर्ग ? स्वाग)मेषु ॥ १ ॥
लिङ्गमूर्ध्नि क्षतं स्याच्चेद् राज्ञां कर्तुश्च नाशनम् ।
छिद्रं भार्यां सुतं शङ्खे वक्त्रे हन्याच्च शिल्पिनम् ॥ २ ॥