शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 38, कुल 280 में से
संदर्भ में पढ़ेंलिङ्गशिरोवर्तनम् ] द्वितीयोऽध्यायः । १९
सर्वतोभद्रलिङ्गेषु धाराः स्युः पञ्चविंशतिः ।
सप्तपर्णदलाकाराः समाः सर्वाः समान्तराः ॥ १०८ ॥
एकैकस्यां तु धारायां चत्वारिंशत्प्रसङ्ख्यया ।
कुर्यात् समानि लिङ्गानि स्यात् तल्लिङ्गसहस्रकम् ॥ १०९ ॥
चतुरश्रस्य कोणार्धसूत्रलाञ्छनमध्यतः ।
कोणत्यागात् तदष्टाश्रं कुर्याद् विष्ण्वंशसिद्धये ॥ ११० ॥
अथवा लिङ्गविस्तारं सप्तधा विभजेत् समम् ।
मध्ये त्रिभागं संस्थाप्य द्विद्विभागविवर्जनात् ॥ १११ ॥
वस्वश्रं सिध्यति सममथ वृत्तं निगद्यते ।
चतुरश्रस्य लिङ्गस्य शिरोमध्ये निधाय तु ॥ ११२ ॥
सूत्रं दिगन्तेमानेन भ्रामयेद् वृत्तसिद्धये ।
अथ शिरोवर्तनम् ।
कुर्वीत त्रपुषीफलाग्रसदृशं छत्रोपमं मस्तकं
बालेन्द्राकृति कुक्कुटाण्डसदृशं विप्रादिवर्णक्रमात् ।
भेदाः सर्वसमांशकप्रभृतयो नाहप्रभेदान्विता-
स्तेऽप्येतत्क्रमतः स्युरेतदनुलोमाङ्गीकृतिश्चेष्यते ॥
विस्तारं शिवलिङ्गमूर्ध्नि वसुनन्दादित्यरुद्रांशकं
कृत्वात्र क्रमतो विशोध्य परितो ह्येकद्विलोकांशकान् ।
कृत्वात्यष्टितिथिप्रकृत्यतिधृतिख्यातांशयुक्तं क्रमात्
पूजाभागमिहोक्तभागमुपरिष्टाच्छोधयेद् वर्णिषु ॥
१. 'णोर्ध्व' ख. पाठः. २. 'न्तं तेनैव आ' ख. ग. पाठः,