शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 51, कुल 280 में से
संदर्भ में पढ़ें३२ शिल्परत्ने [उत्तरभागः
आयामेन शिवांशकस्य रचयेन्नाहेन वा सम्मितं
व्यासेनापिच मन्त्रलिङ्गविषये तत् कर्मबिम्बं शिवे ।
भङ्क्त्वा षोडशधा पुनस्त्रयमिदं रुद्राङ्कशैलाशुगा-
न्यंशैर्वाधिकमूनितं च कुहचित् कुर्यात् तदौचित्यतः ॥३१॥
सौवर्णे...................................।
..........................॥
लिङ्गमानेन बिम्बोच्चं कथ्यते पूर्वशास्त्रतः ।
पूजांशद्विगुणा वा स्यात् तुङ्गे द्वात्रिंशदंशिते ॥ ३२ ॥
तेषु वै सप्तविंशांशं पञ्चविंशांशमेव वा ।
त्रिभागाधिकविंशांशमेकविंशांशमेव वा ॥ ३३ ॥
एकोनविंशतिर्वाथ नृपांशं विश्वभागिकम् ।
रुद्रांशं नन्दभागं वा सप्तांशं पञ्चभागिकम् ॥ ३४ ॥
स्थूलदेशस्य लिङ्गानां पूर्वोक्तपरिणाहतः ।
तुल्यं विस्तारतो वाथ पूर्वोक्तक्रमतो द्वयम् ॥ ३५ ॥
अंशीकृत्य यथोक्तांशैः कौतुकोच्चं करोतु वा ।
पूजांशोच्चं तु नाहं विततिमपि पृथग् ह्यष्टभागं तु कृत्वा
तैरेवांशैस्त्रिभेदैर्गुणशरमुनिनन्दांशरुद्रांशकैर्वा ।
न्यूनं चैवाधिकं वा सममपि कथितं लिङ्गतो बेरमानं
भेदैर्गीर्वाणसंख्यैरिति विदितमभूत् पूर्वशास्त्रान्तरेषु॥३६॥
अथ तालनियमः —
उत्तमं दशतालाख्यं चतुर्विंशच्छताङ्गुलम् ।
मध्यमं दशतालं स्याद् विंशाधिकशताङ्गुलम् ॥ ३७ ॥