सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 39, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 39

२० शिल्परत्ने [उत्तरभागः
तन्मस्तके नवविभागतया विभक्ते
भागं विशोध्य परितः शिवभागदैर्घ्यम् ।
द्वात्रिंशदंशकतया परिकल्प्य भागा-
नैकैकशो द्विजमुखेषु विशोधयेद् वा ॥ ११५ ॥
छत्राभं त्रपुषाकारं कुक्कुटाण्डनिभं तथा ।
अर्धेन्दुसदृशं चाथ बुद्बुदाभं तु पञ्चमम् ॥ ११६ ॥
सर्वेषामपि लिङ्गानां शिरसो वर्तनक्रमम् ।
लिङ्गव्यासात् षोडशांशमेकद्वित्रियवाधिकम् ॥ ११७ ॥
आरोप्य केऽधः संलम्ब्य लिङ्गस्योभयपार्श्वयोः ।
वर्तयेत् तत्र चत्वारि छत्राभाणि भवन्ति हि ॥ ११८ ॥
प्रथमं च द्वितीयं चैं समालिङ्गे नियोजयेत् ।
शिवाधिके तृतीयं तु चतुर्थं वर्धमानके ॥ ११९ ॥
वर्तनं सङ्करं नैव कुर्यात् तदशुभं यतः ।
षडंशे लिङ्गविस्तारे सार्धद्वयंशेन वर्तयेत् ॥ १२० ॥
त्रपुषाभशिरःसिद्धयै रामांशैः कुक्कुटाण्डकम् ।
लिङ्गव्यासत्तृतीयांशवर्तनादर्धचन्द्रकम् ॥ १२१ ॥
लिङ्गव्यासेऽष्टधा भक्ते सार्धांशत्रयवर्तनात् ।
बुद्बुदाभस्य लिङ्गस्य शिरः सिध्यति शोभनम् ॥
लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्पार्श्वयोः
कृत्वा मत्स्ययुगं तदास्यजघनान्निष्क्रान्तसूत्रद्वये ।
तस्माद् यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा
तत्तद् वर्तयितव्यमत्र बहुधा सोपायमीशोदितम् ॥