शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 36, कुल 280 में से
संदर्भ में पढ़ेंलिङ्गलक्षणम् ] द्वितीयोऽध्यायः । १७
वर्धमानादिलिङ्गेषु नैतत् स्यादिति केचन ।
तद्वद् व्यक्तेषु लिङ्गेषु व्यक्ताव्यक्ते च रत्नजे ॥ ८८ ॥
स्वयंभुवि तथा बाणेऽप्यार्षे वा नियमो नहि ।
वर्धमानादिलिङ्गानां त्रयाणमप्ययं विधिः ॥ ८९ ॥
यमसूत्रे तु कथिता छायादोषं विना यथा ।
लिङ्गायतप्रमाणानीत्यादिना पीठविस्तृतिः ॥ ९० ॥
शिवभागसमा कार्या व्याख्यातं सङ्ग्रहे तथा ।
यावल्लिङ्गस्य वै दैर्घ्यं तावत् पीठस्य विस्तृतिः ॥ ९१ ॥
सङ्कृत्यंशे तु लिङ्गोच्चे सप्ताष्टनवाभिः क्रमात् ।
अंशैर्ब्रह्महरीशानभागाः स्युर्वर्धमानके ॥ ९२ ॥
लिङ्गायामे प्रकृत्यंशे षट्सप्ताष्टांशकल्पिताः ।
क्रमाद् ब्रह्मादिभागास्त एवं वा वर्धमानके ॥ ९३ ॥
पञ्चषट्सप्तभागैर्वा चतुष्पञ्चषडंशकैः ।
वर्धमानं भवेल्लिङ्गं श्रेष्ठमध्याधमक्रमात् ॥ ९४ ॥
लिङ्गायामे तु पङ्क्त्यंशे रामाग्निश्रुतिसम्मितैः ।
अंशैर्ब्रह्मादिभागाः स्युः क्रमाल्लिङ्गे शिवाधिके ॥ ९५ ॥
लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागकैः ।
ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः ॥ ९६ ॥
लिङ्गं त्रैराशिकं नाम भवेत् सर्वसमे तु तत् ।
स्वायामार्धार्धविस्तारं स्वस्तिकं वा शिवाधिकम् ॥ ९७ ॥
वर्धमानं च तल्लिङ्गं नाम्ना सुरगणार्चितम् ।
तत् सार्वदेशिकं ज्ञेयं सर्ववर्णहिताव्हम् ॥ ९८ ॥
D