सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 52, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 52

प्रतिमोत्सेधः] चतुर्थोऽध्यायः । ३३
अधमं दशतालं तु कलाधिकशताङ्गुलम् ।
तालं प्रत्ययमेवं तु क्रमाद् वेदांशहानितः ॥ ३८ ॥
उत्तमं नवतालादि बिम्बमानमुदाहृतम् ।
उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वराः ॥ ३९ ॥
मध्यमं दशतालेन तथैवोमासरस्वती ।
उषा भूमिश्च दुर्गा च लक्ष्मीज्येष्ठा च मातरः ॥ ४० ॥
मध्यमं दशतालेन वा त्रिमूर्तीन् प्रकल्पयेत् ।
कन्यसं दशतालेन चन्द्रादित्यावथाश्विनौ ॥ ४१ ॥
आर्यं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।
महर्षीणां गणांश्चैव तेषां देवीश्च कारयेत् ॥ ४२ ॥
उत्तमं नवतालेन विघ्नेशान् लोकपालकान् ।
वसूंश्च दिक्पतींश्चैव अस्त्रमूर्तींश्च गुह्यकान् ॥ ४३ ॥
देवानन्यांश्च देवीस्ताः कारयेल्लक्षणान्वितम् ।
मध्यमं नवतालेनाप्यष्टमूर्तिमरुद्गणान् ॥ ४४ ॥
यक्षासुरगणांश्चैव करोतु शुभलक्षणम् ।
कन्यसं नवतालेन विद्याधरगणांस्तथा ॥ ४५ ॥
असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च ।
अष्टतालेन मर्त्यांस्तु पिशाचाः सप्ततालतः ॥ ४६ ॥
षष्ठतालेन कुब्जाश्च तत्तच्छ्रेष्ठान्तराधमाः ।
तत्तदुत्तममध्यादिभेदेनैव भवन्त्यतः ॥ ४७ ॥
पञ्चतालोत्तमेनैव विघ्नेशं स्कन्दमेव च ।
वामनं च करोत्यस्य भूतान् मध्येन वाधमात् ॥ ४८ ॥