शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 33, कुल 280 में से
संदर्भ में पढ़ें१४ शिल्परत्ने [उत्तरभागे
पञ्चपञ्चांशके दैर्घ्ये वसुसप्तषडंशकैः ॥ ६५ ॥
विस्तारं वेसरे विद्यात् पूर्ववज्जयदादिकम् ।
लिङ्गं सर्वसमं समोन्मितिविभक्तांशत्रयं तत् पुनः
स्वायत्या समनाहकं यदि समांशं चाथ वृद्ध्युत्तरम् ।
भक्ते भानुयुजोच्छ्रयेऽद्रिवसुनन्दांशैस्तु मूलादिष्व-
पेतं दिग्दलिते त्रिलोकयुगसङ्ख्यातैस्तथेशाधिकम् ॥ ६६ ॥
आयामे दलिते दिवाकरयुजाभीष्टेऽष्टभिर्विस्तृतिः
कार्यांशैरपि पञ्चपञ्चयवयुक्तैः सप्तभिः पञ्चभिः ।
स्वायामार्कयुगांशकद्विरसनांशः स्याद् यवः केवलैः
पञ्चांशैरपि गर्भगेहनवमांशेनापि सा स्मर्यते ॥ ६७ ॥
मार्ताण्डद्वयभागभक्तमखिलं लिङ्गं विधायांशकै-
रष्टाभिर्यवपञ्चयुक्तमुनिभिः सार्धं यवैः पञ्चभिः ।
भूतैः पञ्चभिरेव वर्णविहितैर्विप्रादितो विस्तृतिः
कुर्यात् सर्वसमं समांशविहितं वृद्ध्युत्तरेशाधिके ॥ ६८ ॥
भागैश्चतुर्विंशतिभिः समस्त-
लिङ्गस्य दीर्घं प्रविभज्य सम्यक् ।
विष्कम्भमंशैरथ पञ्चभिश्च
नाहं मितं षोडशभिश्च भागैः ॥ ६९ ॥
आरभ्य षड्भागमतः क्रमेण
पादांशवृद्ध्या नवधा विभागैः ।
वस्वन्तमेतानि नवोदितानि
लिङ्गानि मित्रद्वयभागभक्ते ॥ ७० ॥