सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 37, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 37

१८ शिल्परत्ने [उत्तरभागः
पौष्करे कारणाख्ये च यथोक्तं तत्तु कथ्यते ।
चतुरंशादि विप्राणां पञ्चांशादि नृपोचितम् ॥ ९९ ॥
षड्भागादि विशां योग्यं सप्तांशार्थं तु वार्षलम् ।
वर्धमानं चतुर्भेदमेवं वर्णक्रमादिदम् ॥ १०० ॥
आकृत्यंशे तु लिङ्गोच्चे सप्तसप्ताष्टभागकैः ।
ब्रह्माद्यंशेषु यल्लिङ्गं विप्राभीष्टं शिवाधिकम् ॥ १०१ ॥
एकोनविंश(ता ?त्या) भक्ते तुङ्गे षट्षट्‌तुरङ्गकैः ।
ब्रह्मादिभागतुङ्गं चेद् भौपमीशाधिके स्मृतम् ॥ १०२ ॥
त्रयोदशांशे लिङ्गोच्चे वेदवेदशरांशकैः ।
कादिभागं विशां योग्यं लिङ्गमुक्तं शिवाधिकम् ॥ १०३ ॥
लिङ्गतुङ्गे दशांशे तु गुणाग्निश्रुतिभागिकम् ।
ब्रह्माद्यंशेषु शूद्राणामिष्टं लिङ्गं शिवाधिकम् ॥ १०४ ॥
पूर्वोक्तसमलिङ्गे च धारालिङ्गं विकल्पितम् ।
चतुरश्रं द्विरष्टाश्रं तन्मूले परिकल्पयेत् ॥ १०५ ॥
वैष्णवांशे च शैवांशे धारा द्विद्विगुणीकृते ।
सर्वेषामपि लिङ्गानां धारालिङ्गं त्रिधा मतम् ॥ १०६ ॥
मूलेऽष्टाश्रं वा कलाश्रं युगाश्रं
तस्मादूर्ध्वं तद्युगाः स्युश्च धाराः ।
एवं पूर्वाचार्यकैरीश्वरस्य
प्रोक्तं धारालिङ्गमेतत् त्रिधैव ॥ १०७ ॥