शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 45, कुल 280 में से
संदर्भ में पढ़ें२६ शिल्परत्ने [उत्तरभागः
कनिष्ठवेसरस्यैवं लक्षणोद्धारणं स्मृतम् ।
छत्राभमस्तके लिङ्गे सूत्राग्रं स्याद् गजाक्षवत् ॥ ३१ ॥
खण्डेन्दुमस्तके लिङ्गे सूत्राग्रं बुद्बुदोपमम् ।
लिङ्गाग्रे त्रपुषाभे तु सूत्राग्रं कुक्कुटाण्डवत् ॥ ३२ ॥
कुक्कुटाण्डशिरोलिङ्गे सूत्राग्रं छत्रसन्निभम् ।
सामान्येन तु लिङ्गानां सूत्राग्रमथ कथ्यते ॥ ३३ ॥
कदलीमुकुलाभं वा सरोजमुकुलाकृति ।
अश्वत्थपत्रसदृशं सामान्यं हि यवोपमम् ॥ ३४ ॥
अत्यष्ट्यंशे तु लिङ्गाभे भागं त्रेधा विभज्य तु ।
मध्यसूत्रततिर्द्व्यंशं तदर्धं पक्षसूत्रयोः ॥ ३५ ॥
कनिष्ठवेसरस्यैवं लक्षणोद्धार ईरितः ॥ ३६ ॥
अथ मुखलिङ्गम् ।
यथोक्ताव्यक्तलिङ्गेषु शिवांशे दशभाजिते ।
अश्विनेत्राग्निभागैः१ स्यात् स्कन्धः कण्ठस्तथाननम् ॥ ३७ ॥
उष्णीषोंऽशस्तु मकुटं द्व्यंशमूर्ध्वं तु भागतः ।
भागेन मुखविष्कम्भो विस्तृतश्चोर्ध्वलिङ्गवत् ॥ ३८ ॥
ललाटकण्ठभ्रूनेत्रघ्राणगण्डमुखादिकम् ।
मानोन्मानप्रमाणे सर्वं सकलवत् स्मृतम् ॥ ३९ ॥
अथैकत्रं चतुर्वक्त्रं ग्रामादिष्वेव विन्यसेत् ।
द्विवक्त्रं पर्वतेऽरण्ये परराष्ट्रान्तिकेऽपि च ॥ ४० ॥
स्थापयेत् तदरिध्वंसं विदधाति स्वलक्षणम् ।
चतुर्मुखैकानन भूत्यै पञ्चास्यं चाभिचारकम् ॥ ४१ ॥
१. 'गो' ग. पाठः.