सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

१६० शिल्परत्ने [उत्तरभागः
नानाविभ्रमभूषणव्यतिकरं स्मेरप्रभासुन्दरं
वन्दे शक्त्यभयौ दधानमुदिताभीष्टप्रभावं गुहम् ॥ ६४ ॥
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्व(र्णस्य ? र्णादि) सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुट(व ? ध)रं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ६५ ॥
अथवा,
स्फुरन्मुकुटपत्रकुण्डलविभूषितं चम्पक-
स्रजाकलितकन्धरं करयुगेन शक्तिं पविम् ।
दधानमथवा कटीकलितवामहस्तेष्टदं
गुरुं घुसृणभासुरं स्मरतु पीतवासोवसम् ॥ ६६ ॥
अथ नागयक्षी —
गात्रं यस्याः सुनेत्रं जलधरकबरीभारमाकल्पजालैः
[

मिश्रमूर्तिः ] पञ्चविंशोऽध्यायः । १६१
अथवा,
पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थं
श्यामं कालाम्बराभं श्रितकरयुगलं + + चिन्तामणिं च ।

    • निस्त्रिंशबाणासनविशिखयुतं रक्तमाल्यानुलेपं
      वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौलिम्
      [॥ ६९ ॥
      अपिच —
      अंसासक्तसुवर्णकर्णिकमुरोविस्तीर्णहारोज्ज्वलं
      शृङ्गारोचितवेषविभ्रमसुखं श्यामांशुकं श्यामलम् ।
      रक्तालेपनमाल्यदामदयितं नीलोल्लसत्कुन्तलं
      वन्दे बाणशरासनोद्यतकरं वीरेशमाद्यं सदा ॥ ७० ॥
      अथ प्रभा —
      रक्ताकल्पोज्ज्वलां रक्तां सुरूपां कान्तयौवनाम् ।
      धृतवीणां प्रभां वन्दे देवीं रक्तान्तलोचनाम् ॥ ७१ ॥
      अथ सत्यकः —
      तमालश्यामलं भद्रं पिङ्गलाकल्पसुन्दरम् ।
      अधिज्यकार्मुकं वन्दे सत्यमव्यक्तयौवनम् ॥ ७२ ॥
      अथ मिश्रमूर्तयः² ।
      तत्र पूर्वमनुष्टुप्त्रयम् —
      हेमाम्भोजे निषण्णं स्रवदमृतघटौ चक्रशङ्खौ कराब्जे-
      ष्पक्षस्रक्कुण्डिकाख्ये शिरसि शशिकलां धारयन्तं सुभूषम् ।
      १. 'कराल' ख. पाठः. २. 'र्तिः । त' क. ख. ग. पाठः,
      w

हेमाभं पीतवस्त्रं रविशशिदहनत्रीक्षणं चित्स्वरूपं
सर्वज्ञं सर्वगं^१ तं हरिहरविधिजं विश्वरूपं नमामि ॥ ७३ ॥
अथ शक्तिगणपतिः —
द्वाभ्यां विभ्राजमानं द्रुतकनकमहाशृङ्खलाभ्यां कराभ्यां
बीजापूरादिशुम्भद्दशभुजललितं पञ्चबीजस्वरूपम् ।
सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं सन्नितम्बं
कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो (तं ?) नौमि देवं
[गणेशम् ॥ ७४ ॥
अथ लक्ष्मीनारायणः —
चक्रं विद्यादरैर्^२घटगदादर्पणान् पद्मयुग्मं
दोर्भिर्बिभ्रत् सुरुचिरतरं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठाविवशमनिशं पुण्डरीकाक्षलक्ष्म्यो-
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ ७५ ॥
अथार्धनारीश्वरः —
पाशाङ्कुशौ जपपटीमभयं च बिभ्रद्
बालेन्दुचूड़मरुणाम्बुजगं त्रिनेत्रम् ।
बन्धूककाञ्चननिभोभयपार्श्वमव्या-
दर्धाम्बिकेशमनिशं रुचिरं वपुर्वः ॥ ७६ ॥
अपिच,
सिन्दू^३रकाञ्चनसंमोभयपार्श्वमर्ध-
नारीश्वरं गिरिसुताहरभूषचिह्नम् ।
——————————————————————————————
१. 'गन्धं ह', २. 'घ' क. ग. पाठः. ३. 'नुं' ख.
घ. पाठः

सौरमष्टाक्षरम् ।] पञ्चविंशोऽध्यायः । १६३
पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत् सकलवाञ्छितवस्तुसिद्धयै ॥ ७७ ॥
अपिच,
अरुणकनकवर्णं पद्मसंस्थं च गौरी-
हरनियमितचिह्नं सौम्यतानूनपातम् ।
भवतु भवदभीष्टप्राप्तये पाशटङ्का-
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ ७८ ॥
अथ शङ्करनारायणः —
ध्येयो जटामकुटचन्द्रकलार्धमूर्धा
त्रीक्षस्तरक्ष्वजिनपीतदुकूलवासाः ।
ईशाच्युतस्त्रिशिखचक्रकपालशङ्खान्
बिभ्रत् सितासितवपुर्युचितात्मभूषः ॥ ७९ ॥
अथ सूर्यः—
रक्तासिताम्भोजधरं कराभ्या-
मादीप्तभामण्डलमध्यसंस्थम् ।
सूर्यं पिशङ्गांशुकगन्धमाल्य-
मादीप्तदिव्याभरणं नमामि ॥ ८० ॥
अथ सौरमष्टाक्षरम् —
अरुणसरोरुहसंस्थ-
स्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदकरो
द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः॥ ८१ ॥
१. 'त्र्य' घ. पाठः.

१६४ शिल्परत्ने [उत्तरभागः
अथ कामः —
अरुणमरुणवासोमाल्यदामाङ्गरागं
स्वकरकलितपाशं साङ्कुशास्रेक्षुचापम् ।
मणिमयमकुटाद्यैर्दीप्तमाकल्पजालै-
ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ ८२ ॥
अपिच,
रक्ताम्भोरुहसंस्थितं करतले कोदण्डमिक्षूद्भवं
पुष्पास्त्रं वरदाभयौ च दधतं रक्ताङ्गरागादिकम् ।
वामाङ्कस्थितयोपगूढमनिशं रत्या च दत्तेक्षणं
तद्वक्राम्बुरुहे मनोहरतनुं वन्दे सदा मन्मथम् ॥ ८३ ॥
अथ वीरभद्रः —
गोक्षीराभं दधानं परशुडमरुकौ खड्गखेटौ कपालं
शूलं चाभीतिदाने त्रिनयनलसितं व्याघ्रचर्माम्बराढ्यम् ।
वेतालारूढमुग्रं कपिशतरजटाबद्धशीतांशुखण्डं
१ध्यायेद् भोगीन्द्रभूषं निजगणसहितं सन्ततं वीरभद्रम्
[॥ ८४ ॥
अथवा,
सितपङ्कजमध्यसंस्थमेनं सुसितं व्याघ्रनखादिबालचिह्नैः ।
उपलक्षितबालभावमाशापरिधानं कमनीयगात्रयष्टिम् ॥ ८५ ॥
अथ हनुमान् —
पिङ्गाक्षं पिङ्गकेशं शशरुधिरनिकाशास्यदोःपादपद्मं
प्रोद्यन्मार्ताण्डकोटिप्रतिम२तनुगलद्रश्मिभिर्दुर्निरीक्ष्यम् ।
१. 'भजेत्' । अ', २. 'मितत' घ. पाठः.

गरुडः ] पञ्चविंशोऽध्यायः । १६५
राकाचन्द्रांशुजालप्रसृमरनखदंष्ट्रांशुसन्दोहनश्यद्-
ध्वान्ताशाचक्रवालं कपिवरमनिशं वायुपुत्रं नमामि
[॥ ८६ ॥
अथवा,
वामे जानुनि वामबाहुमपरं ज्ञानाख्यमुद्रायुतं
हृद्देशे कलयन् वृतो मुनिगणैर्नासाग्रदत्तेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभो
ध्यायन् ब्रह्म परं करोतु मनसः शुद्धिं हनूमान् मम
[॥ ८७ ॥
अथवा,
क्रोधोद्विग्नविघूर्णितारुणतरप्रौद्धान्तनेत्रद्वय-
प्रोद्यद्वह्निशिखास्फुलिङ्गनिकरप्लुष्टाहिचोरादिकम् ।
घोरं मेरुसमानदेहमरुणश्रोत्रास्यपादस्थलं
वन्दे मारुतिमाञ्जनेयमनिशं दंष्ट्राकरालाननम् ॥ ८८ ॥
अथ गरुडः —
आजानूत्तप्तहेमप्रभमथ + हिमप्रख्यमानाभि साक्षा-
दा कण्ठोत् कुङ्कुमाभं भ्रमरकुलसमश्यामलं मूर्ध्नि शान्तम्।
व्याप्तब्रह्माण्डगर्भं द्विभुजमभयदं पिङ्गनेत्रोग्रतारं
तार्क्ष्यं नीलाग्रनासाद्युतिविविधमहापक्षलक्ष्यं नमामि
[॥ ८९ ॥
अपिच,
पायाद् देवो गरुत्मानमृतघटगदाशङ्खचक्रासिना(गा)न्
बिभ्राणः कृष्णपादो निजकरकमलैरष्टभिः स्वर्णवर्णः ।
१. 'यद्वा' घ. पाठः. २. 'र्णा' क. ख. ग. पाठः.

१६६ शिल्परत्ने [उत्तरभागः
पापघ्नैः पक्षवातैरखिलविषहरैराश्रितार्तिघ्नवृत्तः
श्रीमान् वः पन्नगारिः सकलविषभयाद् रत्नजालोज्जवलाङ्गः
[॥ ९० ॥
अथाश्विनौ —
एकसिंहासनासीनावाश्विनावश्वरूपिणौ ।
दाडिमीपुष्पसङ्काशावुभौ³ तौ सोपँवीतकौ ॥ ९१ ॥
फुल्लरक्तोत्पलाक्षौ च पीतस्रग्वस्त्रधारिणौ ।
करद्वयसमायुक्तौ श्रीभूषणविभूषितौ ॥ ९२ ॥
अभयं दक्षिणे हस्ते वैरदं वामहस्तके ।
लम्बितौ दक्षिणं पादं वाममुत्कुटिकास नौ ॥ ९३ ॥
अथ पितरः —
पितरः पीतवर्णाभा द्विभुजाः श्वेतवाससः ।
यज्ञसूत्रसमायुक्ताः सौम्यदृग्वदनान्विताः ॥ ९४ ॥
फलके भद्रपीठे वा त्रयस्तु सहितासनाः ।
अथाप्सरसः —
दुकूलवसनाः सर्वाः पीनोरुजघनस्तनाः ॥ ९५॥
मध्ये क्षौमा(र्ध ? श्र) सौम्याश्च किञ्चित्प्रहसिताननाः ।
नानालङ्कारसंयुक्ता भद्रपीठोपरिस्थिताः ॥ ९६ ॥
समभङ्गसमायुक्ताः सप्तसङ्ख्याप्सराः स्मृताः ।

१. 'निदेवौ । ए' क. ख. ग. पाठः. २. 'हसहासी' क. ग. पाठः.
३. 'मयोः सो' क. ख. ग. पाठः. ४. 'मवीत' क. ग., 'मनीत' ख.
पाठः. ५. 'वामकं वा' क. ख. ग. पाठः. ६. 'क्षौमाद्विसौ' ग. पाठः.

क्षेत्रपालः] पञ्चविंशोऽध्यायः । १६७
अथ सप्तर्षयः —
ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः ॥ ९७ ॥
वृद्धाश्च द्विभुजाः शान्ता जटामकुटमण्डिताः ।
बिन्दुकाहृदयान्ताश्च यज्ञसूत्रसमन्विताः ॥ ९८ ॥
भस्मनैव त्रिपुण्ड्राढ्याः स्थानका वासनास्तु वा ।
दण्डं दक्षिणहस्ते तुच्छत्रं वामकरे धृताः ॥ ९९ ॥
छत्रदण्डौ विना वाथ सव्ये वै ज्ञानमुद्रिकाम् ।
वामजानूपरिन्यस्तवामहस्तसमन्विताः ॥ १०० ॥
एकादशरुद्राः —
चतुर्भुजास्त्रिनेत्राश्च जटामकुटमण्डिताः ।
शुक्लवस्त्रधराः सर्वे शुक्लवर्णाः प्रकीर्तिताः ॥ १०१ ॥
अभयं परशुः सव्ये कृष्णश्च वरदोऽन्यतः ।
अथ क्षेत्रपालः —
त्रिविधः क्षेत्रपालस्तु सात्त्विको राजसोऽन्तिमः ॥ १०२ ॥
श्वेतो रक्तस्तथा कृष्णः सात्त्विकादिगुणाद् भवेत् ।
शूलं दक्षिणहस्ते तु कपालमितरे स्मृतम् ॥ १०३ ॥
द्विभुजं ह्येवमाख्यातं चतुर्हस्तमथोच्यते ।
वरंहस्ते तु सव्ये तु वामे डमरुकं न्यसेत् ॥ १०४ ॥ १
अथवा पूर्वहस्तौ द्वौ वरदाभयसंयुतौ ।
पूर्ववत् परहस्तौ द्वौ घण्टा वा वामहस्तके ॥ १०५ ॥
सात्त्विकं ह्येवमाख्यातमथ राजसमुच्यते ।
शूलं खड्गं च घण्टा च दक्षिणे तु करत्रये ॥ १०६ ॥
१. 'वं', २. 'स्या' घ. पाठः.

१६८ शिल्परत्ने [उत्तरभागः
खेटकं च कपालं च नागपाशमदक्षिणे ।
तामसे तु धनुर्बाणं दक्षिणेऽदक्षिणे धृतम् ॥ १०७ ॥
शेषं राजसवत् ख्यातं रक्तकेशोर्ध्वमण्डलम् ।
उग्रदृष्टिसमायुक्तं नानानागविभूषितम् ॥ १०८ ॥
त्रिनेत्रं नग्नरूपं च क्षेत्रपालमिमं विदुः ।
अथवा,
व्यालम्बाग्रजटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं
दोर्द्वन्दात्तकपालशूलमरुणस्रग्वस्त्रगन्धोल्बणम् ।
घण्टामेखलघर्घर(स्यनिबि ? ध्वनिमि)लड्डुङ्कारभीमं विभुं
वन्दे संहितसर्पकुण्डलधरं तं क्षेत्रपालं सदा ॥ १०९ ॥
अपिच,
दंष्ट्रोग्रदन्तुरमहीश्वरभोगभूष-
माशाम्बरं करधृतोग्रगदाकपालम् ।
वृत्तोद्यचक्षुषमुदग्रपिशङ्गकेशं
तं क्षेत्रपालमनिशं + महं नमामि ॥ ११० ॥
अथ वामनंः —
कृष्णाजिन्युपवीती स्याच्छत्री धृतकमण्डलुः ॥ १११ ॥
कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः ।
अथ नृवराहः —
नृवराहं प्रवक्ष्यामि सूकरास्येन शोभितम् ॥ ११२ ॥
गदापद्मधरं धात्रीं दंष्ट्राग्रेण समुद्धृताम् ।
बिभ्राणं कूर्परे वामे विस्मयोत्फुल्ललोचनाम् ॥ ११३ ॥
१. 'नन्मूर्तिः—' घ. पाठः.

कूर्म्मः] पञ्चविंशोऽध्यायः । १६९
नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ११४ ॥
दक्षिणं कटिसंस्थं च बाहुं तस्य प्रकल्पयेत् ।
कूर्म्मपृष्ठे पदं चैकमन्यन्नागेन्द्रमूर्धनि ॥ ११५ ॥
अथवा सूकराकारं महाकायं क्वचिल्लिखेत् ।
तीक्ष्णदंष्ट्राग्रघोणास्यस्कन्धकर्णोर्ध्वरोमकम् । ११६ ॥
अथ नृसिंहः —
नरसिंहाकृतिं वक्ष्ये रौद्रसिंहमुखेक्षणाम् ।
भुजाष्टकसमायुक्तां स्तैम्भपीनसमाश्रिताम् (?) ॥ ११७ ॥
हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः ।
ऊरोरुपरि विन्यस्य खड्गखेटकधारिणम् ॥ ११८ ॥
तस्यान्त्रमालां निष्कृत्य बाहुयुग्मेन बिभ्रतीम् ।
मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजम् ॥ ११९ ॥
कौमोदकीं गदां शङ्खं बाहुभ्यामिति वामतः ।
नीलोत्पलपट्टच्छायां किं वा चम्पकप्रभाम् ॥ १२० ॥
तप्तकाञ्चनसंकाशां बालार्कसदृशीं लिखेत् ।
त्रिविक्रमः—
तथा त्रिविक्रमं वक्ष्ये वामपादेन मेदिनीम् ॥ १२१ ॥
आक्रामन्तं द्वितीयेन साकल्येन नभस्तलम् ।
अथ मत्स्यमूर्तिः —
मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत् ॥ १२२ ॥
अथ कूर्मः —
कूर्म्मावतारिणं देवं कमठाकृतिमालिखेत् ।
१. 'पिङ्गलमु' घ. पाठः. २. 'स्तब्धपी' क. ख. पाठः.
x

१७० शिल्परत्ने [उत्तरभागः
अथ ब्रह्मा —
लिखेच्चतुर्मुखं देवं चतुर्बाहुं शुभेक्षणम् ॥ १२३ ॥
रत्नकुण्डलसंयुक्तं लम्बकूर्चोपवीतिनम् ।
कृष्णाजिनधरं गौरं शुक्लाम्बरविराजितम् ॥ १२४ ॥
दक्षिणं वरदं हस्तं तत्रान्यं शुभधोरिणम् ।
कमण्डलुधरं वामं तथान्यं संयुतं शुचा ॥ १२५ ॥
बिभ्राणं चतुरो वेदान् पुरतश्चास्य विन्यसेत् ।
वामे पार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् ॥ १२६ ॥
आज्यस्थालीं पुरोभागे महर्षींश्च समन्ततः ।
हंसारूढं लिखेत् कापि कचिच्च कमलासनम् ॥ १२७ ॥
स्रष्टारं सर्वलोकानां ब्रह्माणं परिकल्पयेत् ।
अथ कुमारः —
विलिखेत् षण्मुखं देवं मयूरवरवाहनम् ॥ १२८ ॥
तरुणादित्यसङ्काशं बालभूषणभूषितम् ।
स्थानीये खेटके वापि कुमारो लिख्यते यदा ॥ १२९ ॥
भुजा द्वादश कुर्वीत खर्वटे चतुरो भुजान् ।
ग्रामे वने द्विबाहुः स्याल्लेखनीयो विचक्षणैः ॥ १३० ॥
अथ नागः —
नागानां वक्ष्यते रूपं नाभेरूर्ध्वं नराकृति ।
सर्पाकारमधोभागं मस्तके भोगमण्डलम् ॥ १३१ ॥
एकं फणं त्रयं वापि पञ्च वा सप्त वा नव ।
द्विजिव्हास्ते विधातव्याः खड्गचर्मकरैर्युताः ॥ १३२ ॥
१. 'दा' ग. पाठः. २. 'पन्नग' घ. पाठः.

रविः ] पञ्चविंशोऽध्यायः । १७१
अथासुराः —
किरीटकुण्डलोपेतास्तीक्ष्णदंष्ट्रा भयानकाः ।
नानाशस्त्रधराः कार्या दैत्याः सुरगणद्विषः ॥ १३३ ॥
अथ दानवाः —
दानवा विकृताकारा भ्रुकुटीकुटिलाननाः ।
किरीटेन च कुब्जेन मण्डिताः शस्त्रपाणयः ॥ १३४ ॥
दंष्ट्राकरालवदना भ्रुकुटीकुटिलेक्षणाः ।
नानारूपा महाकाया नानाशस्त्रवरास्तथा ॥ १३५ ॥
अथ पिशाचाः —
उत्पर्वकृशकायास्ते चारास्थिस्नायुविग्रहाः ।
ह्रस्वकीर्णशिरोजाः स्युः पिशाचाश्चित्रकर्मणे ॥ १३६ ॥
अथ वेतालाः —
ईदृशा एव वेताला दीर्घदेहाः कृशोदराः ।
कपोलैः पूर्वजैर्मुक्ता लेखनीया मनीषिभिः ॥ १३७ ॥
अथ ग्रहाः ।
रक्तवर्णो महातेजा द्विबाहुः पद्मभृद् रविः ।
सप्तभिस्तुरगैर्युक्ते सर्परज्जुसमन्विते ॥ १३८ ॥
एकचक्रे रथे तिष्ठन् पादाक्रान्तसरोरुहः ।
माणिक्यकुण्डलोपेतः पद्मरागकिरीटकः ॥ १३९ ॥
रक्ताम्बरधरो रम्यः सुव्यक्ताङ्गो मनोहरः ।
अनूरुः सारथिः कार्यः प्रतीहारौ च पार्श्वयोः ॥ १४० ॥
१. 'क' क. ख. ग. पाठः. २. 'क्र' घ. पाठः.

१७२ शिल्परत्ने [उत्तरभागः
चण्डपिङ्गलनामानौ खड्गखेटकधारिणौ ।
चन्द्रश्चित्रे विधातव्यः श्वेताम्बरसमावृतः ॥ १४१ ॥
दशश्वेताश्वसंयुक्तमारूढः स्यन्दनं शुभम् ।
द्विभुजो दक्षिणे पाणौ गदां बिभ्रत् पृथूदरीम् ॥ १४२ ॥
वामस्तु वरदो हस्तः शशाङ्कस्य निरूप्यते ।
धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ॥ १४३ ॥
चतुर्भुजो मेषगमश्चाङ्गारकसमद्युतिः ।
दक्षिणं पुस्तकं¹ हस्तं वरदं परिकल्पयेत् ॥ १४४ ॥
ऊर्ध्वं शक्तिसमायुक्तं वामौ शुकगदाधरौ ।
सिंहारूढं सम्प्रवक्ष्ये कर्णिकारसमप्रभम् ॥ १४५ ॥
पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ।
वरदं खड्गसंयुक्तं खेटकेन समन्वितम् ॥ १४६ ॥
गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ।
एवं लिखेच्चन्द्रसूनुं बुधं ग्रहपतिं वरम् ॥ १४७ ॥
ततो देवगुरुर्लेख्यः शुक्रश्च भृगुनन्दनः ।
चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ १४८ ॥
वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा ।
दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ १४९ ॥
सौरिं नीलसमाभासं गृध्रारूढं चतुर्भुजम् ।
वरदं वामसंयुक्तं चापशूलधरं लिखेत् ॥ १५० ॥
सिंहासनगतं राहुं करालवदनं लिखेत् ।
वरदं खड्गसंयुक्तं खेटशूलधरं क्रमात् ॥ १५१ ॥
१. 'बुद्धके' क. ग. पाठः, 'तद्वरं ह' घ. पाठः.

गृध्राः ] पञ्चविंशोऽध्यायः । १७३
धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः ।
गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ १५२ ॥
अथवा,
प्रागादिदिशिसंस्थाः
शशिगुरुबुधभार्गवाः क्रमेण स्युः ।
आग्नेयादिष्वाश्रिषु
धरणिजमन्दाहिकेतवः पूज्याः ॥ १५३ ॥
शुभ्रसितपीतशुक्ला
रक्तासितधूम्रकृष्णकाः क्रमशः ।
चन्द्राद्याः केत्वन्ता
वामोरुन्यस्तवामकरलसिताः ॥ १५४ ॥
अपरकराभयमुद्रा
विकृतमुखोऽहिः कराहिताञ्जलियुक् ।
दंष्ट्रोग्रास्यो मन्दः
सुवर्णसदृशांशुकादिभूषश्च ॥ १५५ ॥
अरुणसरोरुहसंस्थ-
स्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदकरो
द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ १५६ ॥
अथ गृध्राः —
गृध्राः किरीटिनः कार्या नवतालप्रमाणकाः ।
रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ १५७ ॥
इति शिल्परत्ने उत्तरभागे इन्द्रादिदेवताध्यानप्रकरणं नाम
पञ्चविंशोऽध्यायः ॥
१. 'ताप्र' ख. पाठः.

१७४ शिल्परत्ने [उत्तरभागः
*अथ षड्विंशोऽध्यायः ।
अथ बिम्बदोषाः ।
मांसवर्णैर्नखैर्वाथ पद्मताम्रनिभैस्तथा ।
संयुक्ताः प्रतिमा यत्र तत्रस्थाः सुखिनो नराः ॥ १ ॥
‡श्वेतैर्नखैर्दुःखिनश्च शूलाग्रैः स्फटिकोपमैः ।
दरिद्रतां भ(व ? ज)न्त्येव तथैव हरितै(र्नखैः) ॥ २ ॥
(अङ्गुल्यः) प्रोन्नताग्राश्चेद् भवन्ति सुखदाः सदा ।
पादाङ्गुष्ठमतिक्रम्य प्रदेशिन्यनिवर्तयेत् (?) ॥ ३ ॥
लभन्ते तत्रदेशस्था नारीभोगमनुत्तमम् ।
कनिष्ठायां तु दीर्घायां बहुवित्तकरो भवेत् ॥ ४ ॥
अङ्गुल्यः कुटिलाः शुक्ला विरला दुःखभागिनः ।
अस्वेदनौ मृदू रक्तौ पुष्पौ चारुदलाविव ॥ ५ ॥
लम्बाङ्गुली सुपाणिं च सिराविरहितौ तथा ।
मांसलौ गूढगुल्फौ च कूर्मपृष्ठसमावपि ॥ ६ ॥
भवेतां चरणौ यस्य तत्रस्था राजवल्लभाः ।
विवृतौ शूर्पसङ्काशौ सस्वेदौ ह्रस्वपाण्डरौ ॥ ७ ॥
रोमशौ चरणौ यस्य तत्रस्था दुःखभागिनः ।
दीर्घपादतले रेखा हलाङ्कुशनिभा यदि ॥ ८ ॥
सार्वभौमत्वदं लक्ष्म तदि(नं ? दं) नात्र संशयः ।
क्रमाद् वृत्ते प्रशस्येते जङ्घे स्निग्धे त्वरोमके ॥ ९ ॥

  • घ-मातृकायामेतदादि पञ्चत्रिंशाध्यायस्यारम्भावधिको भागो लुप्तः ।
    ‡ इतःप्रभृति क-मातृकायां पत्राणि पञ्च लुप्तानि ।

बिम्बदोषाः ] षड्‌विंशोऽध्यायः । १७५
सिंहव्याघ्रोपमे जङ्घे धनिनां परिकीर्तिते ।
काकजङ्घो भवेद् राजा मृगजङ्घोऽपि तादृशः ॥ १० ॥
जङ्घे(व ? च) मीनवद्¹ यस्य सोऽपि साम्राज्यभाग् जनः ।
स्थूलजङ्घा दीर्घजङ्घा जायन्ते पथिगाः सदा ॥ ११ ॥
सृगालकोलजङ्घा ये ते नरा दुःखभागिनः ।
इदं तु बिम्बे सञ्चिन्त्यं तथा वृत्ते च जानुनी ॥ १२ ॥
मांसले च समे शब्दहीने गूढनगन्थिनी ।
किञ्चिदुन्नतयुक्ते तु भवेतां सर्वमङ्गले ॥ १३ ॥
ऊरू करिकराकारौ रोमाभिः परिवर्जितौ ।
सुश्लक्ष्णौ निबिडौ नातिस्थूलौ नातिकृशौ वरौ ॥ १४ ॥
सुखदं मांसलं स्फिक् चेद् व्याघ्रभेकस्फिगेव हि ।
तथैव दुःखदं ज्ञेयं शुष्कस्फिङ् नैव संशयः ॥ १५ ॥
मृगेन्द्रकटिसङ्काशकटिश्चेत् पार्थिवत्वदा ।
कामित्वं स्यात् कोलकटेः ++++++++॥ १६ ॥
कर्कटोष्ट्रकटिस्तद्वत् श्वकटित्वं सुतापहम् ।
मेहनं धनदं ह्रस्वं स्थूलं पुत्रार्थनाशदम् ॥ १७ ॥
(अ ? पु)त्रवृद्धिकरं ज्ञेयमेतद् दक्षिणतोन्नतम् ।
मणिनी सोन्नते स्निग्धे धनस्त्रीरत्नभाजनम् ॥ १८ ॥
मध्यनिम्ने भवेन्निःस्वो मध्यादग्रे विशेषतः ।
ईषद्रक्ते समृद्धिः स्यात् पाण्डरे धनहीनता ॥ १९ ॥
१. 'मिग्नव' ख. ग. पाठः. २. 'व' ग. पाठः.

१७६ शिल्परत्ने [उत्तरभागः
मणौ च मलिनच्छाये दारिद्र्यमुपजायते ।
मुष्कयोरुभयोः साम्ये राजराजत्वमाप्नुयात् ॥ २० ॥
लम्बयोर्ह्रस्वयोश्चैव मुष्कयोर्दीर्घजीविनः ।
एक एव यदा मुष्कस्तदा स्यान्मरणं जलात् ॥ २१ ॥
वृत्तविस्तीर्णगम्भीरनाभौ सुखमतीव हि ।
विषमा बिलमध्यस्था नाभिर्दारिद्र्यकारिणी ॥ २२ ॥
दक्षिणावर्तनी शस्ता वामावर्तापकारिणी ।
लम्बोदरो भवेदाढ्यो बहुभोगः समोदरे ॥ २३ ॥
कृशोदरे लघुः कामी दुःखभागी महोदरे ।
घटोदरे भवेन्निःस्वस्तथैव विकृतोदरे ॥ २४ ॥
सर्पोदरे दरिद्रत्वं तथा निम्नोदरेऽपिच ।
वल्यैकया शस्त्रमृत्युः स्त्रीजितत्वं वलिद्वये ॥ २५ ॥
आर्यः स्यात् त्रिवलीयुक्ते घृटं चतुरवलीयुते ।
सुतुल्यौ धनदौ पार्श्वौ निर्धनाख्यौ च वक्रकौ ॥ २६ ॥
स्निग्धं विशालमुत्तुङ्गमुरश्चेद् राजलक्षणम् ।
सिरालं विषमं निम्नं वक्षश्चेद् विपदास्पदम् ॥ २७ ॥
समौ चेच्चूचुकौ भूपा लम्बितौ प्रेष्यतां गताः ।
अदृश्यौ तन्तुनाशाख्यौ विषमौ दुःखदौ स्मृतौ ॥ २८ ॥
उच्चकक्षसमायु(क्तौ ? क्ता)धनधान्यविवर्धनाः ।
समकक्षश्च तत्तुल्यो निर्धनो निम्नकक्षकः ॥ २९ ॥
दुःखी विषमकक्षः स्यादथ पृष्ठस्य लक्षणम् ।
अलग्नं मांसलं पृष्ठं मग्नवंशं शुभावहम् ॥ ३० ॥
१. 'भ्रष्टं च' ग. पाठः.

? It's सन्ध्यालयौorसन्ध्यस्थौ? Wait! सन्ध्यस्थौ! Look at स्थौ: स+थ+ौ! In Devanagari ligature स्थ: स्+थ. Does it look like स्थौ? स+न्ध्या? No, सन्धि? Let's read: गूढसंश्लिष्टसन्ध्... wait! गूढसंश्लिष्टसन्ध्यस्थौ? Wait, स न्धि... wait, सन्धौ? Let's look at the letters: गू ढ सं श्लि ष्ट स न्धि? No, स न्ध ्या ल यौ? Wait, look at शृङ्गिणौ: The letter is श्withृ? Yes, श्ृङ्गिणौorशृङ्गिणौ! It has the loop of शandृbelow:शृङ्गिणौ. Wait, what is before it? गूढसंश्लिष्टसन्ध्यालयौorगूढसंश्लिष्टसन्ध्यस्थौ? Wait, look at the letters: स`

१७८ शिल्परत्ने [उत्तरभागः
चतुरश्रानना धूर्ता निम्नास्यः पुत्रवर्जितः ।
भीतास्यः पापकारी स्यादेवं वदनलक्षणम् ॥ ४१ ॥
रक्ता स्निग्धा शुभा जिह्वा पापी स्याच्छ्यामजिह्वकः ।
स्थूलजिह्वश्च तत्तुल्यः कृष्णजिह्वस्तथैव च ॥ ४२॥
कृष्णा च कर्बुराधस्ताद् रसना दुःखदा सदा ।
सुवर्णं रक्तवर्णं च तालु दुःखतरं मतम् ॥ ४३ ॥
लम्बमांसलकर्णाः स्युः पापिनः शुष्ककर्णकाः ।
शु(ष्क ? क)नासः सुखी प्रोक्तश्चिरायुः शुष्कनासिकः॥४४॥
वक्राग्रा धनदा नासा क्रूरा दक्षिणवक्रका ।
समाल्प + + + + + दुःखिनो मानवाः स्मृताः ॥ ४५ ॥
शङ्कुकर्णो महाभागो रोमकणाः शतायुषः ।
विस्तीर्णकर्णा धनिनः सिंहकर्णस्तु निष्ठुरः ॥ ४६ ॥
कृपणा ह्रस्वकर्णाः स्युः सुभगाः श्याम(कर्णकाः) ।
समाल्पविवरा मूर्ध्नि नासा भाग्यप्रदायिनी ॥ ४७ ॥
धनिनः पद्मपत्राक्षा रक्तान्ताक्षास्तु श्रीप्रदाः ।
महाक्षा मधुपिङ्गाक्षा गजाक्षाश्च महत्तराः ॥ ४८ ॥
गम्भीरनेत्रा धनिनः स्थूलाक्षश्चैव तत्समः ।
सुभगाः श्यामनयना बुधा नीलोत्पलेक्षणाः ॥ ४९ ॥
अधोदृष्टिश्चोर्ध्वदृष्टिः सततं दुःखदा नृणाम् ।
पार्श्वदृष्टिश्च तत्तुल्या समदृष्टिः शुभावहा ॥ ५० ॥
जिह्माः स्युः सारमेयाक्षास्तस्करा मर्कटेक्षणाः ।
निःस्वा निर्गतनेत्राः स्युः पापा मार्जारलोचनाः ॥ ५१ ॥
१. 'न्त' ग. पाठः.

' or 'द्व'?
It looks like 'च्छ्वि' or 'च्छ्रि'.
Wait, could it be 'कच्छपैः'? There is no 'प'. There is clearly 'च्छ'.
Let's look at the letters:
क (ka)
च्छ (ccha)
व (va) or वि (vi)
Let's look at the question mark: ?
Then: क च छ व ि भ ि ः -> wait, look at the 'इ' matra: it covers 'च्छ्वि' or 'च्छ्रि'?
Wait, the first word is: कच्छविः - wait, does it have an 'ि'?
क, च्छ, व, ि, ः -> कच्छविः.
The second word: क, च्छ, wait, is that a 'व' below 'छ'?
Ah, 'च्छ्व'! 'छ' with 'व' subscript!
And then 'ि' (short i)?
Wait, no, look at the stroke below 'छ': it's a 'व' subscript, like 'च्छ्व'.
And then 'भिः'? No, there is an 'इ' on the 'च्छ्व', making it 'च्छ्वि'.
So: (कच्छविः ? कच्छ्विभिः) or (कच्छविः ? कच्छ्रिभिः)?
Wait, look at line 15 very carefully