सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 190, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 190

रविः ] पञ्चविंशोऽध्यायः । १७१
अथासुराः —
किरीटकुण्डलोपेतास्तीक्ष्णदंष्ट्रा भयानकाः ।
नानाशस्त्रधराः कार्या दैत्याः सुरगणद्विषः ॥ १३३ ॥
अथ दानवाः —
दानवा विकृताकारा भ्रुकुटीकुटिलाननाः ।
किरीटेन च कुब्जेन मण्डिताः शस्त्रपाणयः ॥ १३४ ॥
दंष्ट्राकरालवदना भ्रुकुटीकुटिलेक्षणाः ।
नानारूपा महाकाया नानाशस्त्रवरास्तथा ॥ १३५ ॥
अथ पिशाचाः —
उत्पर्वकृशकायास्ते चारास्थिस्नायुविग्रहाः ।
ह्रस्वकीर्णशिरोजाः स्युः पिशाचाश्चित्रकर्मणे ॥ १३६ ॥
अथ वेतालाः —
ईदृशा एव वेताला दीर्घदेहाः कृशोदराः ।
कपोलैः पूर्वजैर्मुक्ता लेखनीया मनीषिभिः ॥ १३७ ॥
अथ ग्रहाः ।
रक्तवर्णो महातेजा द्विबाहुः पद्मभृद् रविः ।
सप्तभिस्तुरगैर्युक्ते सर्परज्जुसमन्विते ॥ १३८ ॥
एकचक्रे रथे तिष्ठन् पादाक्रान्तसरोरुहः ।
माणिक्यकुण्डलोपेतः पद्मरागकिरीटकः ॥ १३९ ॥
रक्ताम्बरधरो रम्यः सुव्यक्ताङ्गो मनोहरः ।
अनूरुः सारथिः कार्यः प्रतीहारौ च पार्श्वयोः ॥ १४० ॥
१. 'क' क. ख. ग. पाठः. २. 'क्र' घ. पाठः.