शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 192, कुल 280 में से
संदर्भ में पढ़ेंगृध्राः ] पञ्चविंशोऽध्यायः । १७३
धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः ।
गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ १५२ ॥
अथवा,
प्रागादिदिशिसंस्थाः
शशिगुरुबुधभार्गवाः क्रमेण स्युः ।
आग्नेयादिष्वाश्रिषु
धरणिजमन्दाहिकेतवः पूज्याः ॥ १५३ ॥
शुभ्रसितपीतशुक्ला
रक्तासितधूम्रकृष्णकाः क्रमशः ।
चन्द्राद्याः केत्वन्ता
वामोरुन्यस्तवामकरलसिताः ॥ १५४ ॥
अपरकराभयमुद्रा
विकृतमुखोऽहिः कराहिताञ्जलियुक् ।
दंष्ट्रोग्रास्यो मन्दः
सुवर्णसदृशांशुकादिभूषश्च ॥ १५५ ॥
अरुणसरोरुहसंस्थ-
स्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदकरो
द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ १५६ ॥
अथ गृध्राः —
गृध्राः किरीटिनः कार्या नवतालप्रमाणकाः ।
रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ १५७ ॥
इति शिल्परत्ने उत्तरभागे इन्द्रादिदेवताध्यानप्रकरणं नाम
पञ्चविंशोऽध्यायः ॥
१. 'ताप्र' ख. पाठः.