सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 188, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 188

कूर्म्मः] पञ्चविंशोऽध्यायः । १६९
नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ११४ ॥
दक्षिणं कटिसंस्थं च बाहुं तस्य प्रकल्पयेत् ।
कूर्म्मपृष्ठे पदं चैकमन्यन्नागेन्द्रमूर्धनि ॥ ११५ ॥
अथवा सूकराकारं महाकायं क्वचिल्लिखेत् ।
तीक्ष्णदंष्ट्राग्रघोणास्यस्कन्धकर्णोर्ध्वरोमकम् । ११६ ॥
अथ नृसिंहः —
नरसिंहाकृतिं वक्ष्ये रौद्रसिंहमुखेक्षणाम् ।
भुजाष्टकसमायुक्तां स्तैम्भपीनसमाश्रिताम् (?) ॥ ११७ ॥
हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः ।
ऊरोरुपरि विन्यस्य खड्गखेटकधारिणम् ॥ ११८ ॥
तस्यान्त्रमालां निष्कृत्य बाहुयुग्मेन बिभ्रतीम् ।
मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजम् ॥ ११९ ॥
कौमोदकीं गदां शङ्खं बाहुभ्यामिति वामतः ।
नीलोत्पलपट्टच्छायां किं वा चम्पकप्रभाम् ॥ १२० ॥
तप्तकाञ्चनसंकाशां बालार्कसदृशीं लिखेत् ।
त्रिविक्रमः—
तथा त्रिविक्रमं वक्ष्ये वामपादेन मेदिनीम् ॥ १२१ ॥
आक्रामन्तं द्वितीयेन साकल्येन नभस्तलम् ।
अथ मत्स्यमूर्तिः —
मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत् ॥ १२२ ॥
अथ कूर्मः —
कूर्म्मावतारिणं देवं कमठाकृतिमालिखेत् ।
१. 'पिङ्गलमु' घ. पाठः. २. 'स्तब्धपी' क. ख. पाठः.
x