सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 186, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 186

क्षेत्रपालः] पञ्चविंशोऽध्यायः । १६७
अथ सप्तर्षयः —
ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः ॥ ९७ ॥
वृद्धाश्च द्विभुजाः शान्ता जटामकुटमण्डिताः ।
बिन्दुकाहृदयान्ताश्च यज्ञसूत्रसमन्विताः ॥ ९८ ॥
भस्मनैव त्रिपुण्ड्राढ्याः स्थानका वासनास्तु वा ।
दण्डं दक्षिणहस्ते तुच्छत्रं वामकरे धृताः ॥ ९९ ॥
छत्रदण्डौ विना वाथ सव्ये वै ज्ञानमुद्रिकाम् ।
वामजानूपरिन्यस्तवामहस्तसमन्विताः ॥ १०० ॥
एकादशरुद्राः —
चतुर्भुजास्त्रिनेत्राश्च जटामकुटमण्डिताः ।
शुक्लवस्त्रधराः सर्वे शुक्लवर्णाः प्रकीर्तिताः ॥ १०१ ॥
अभयं परशुः सव्ये कृष्णश्च वरदोऽन्यतः ।
अथ क्षेत्रपालः —
त्रिविधः क्षेत्रपालस्तु सात्त्विको राजसोऽन्तिमः ॥ १०२ ॥
श्वेतो रक्तस्तथा कृष्णः सात्त्विकादिगुणाद् भवेत् ।
शूलं दक्षिणहस्ते तु कपालमितरे स्मृतम् ॥ १०३ ॥
द्विभुजं ह्येवमाख्यातं चतुर्हस्तमथोच्यते ।
वरंहस्ते तु सव्ये तु वामे डमरुकं न्यसेत् ॥ १०४ ॥ १
अथवा पूर्वहस्तौ द्वौ वरदाभयसंयुतौ ।
पूर्ववत् परहस्तौ द्वौ घण्टा वा वामहस्तके ॥ १०५ ॥
सात्त्विकं ह्येवमाख्यातमथ राजसमुच्यते ।
शूलं खड्गं च घण्टा च दक्षिणे तु करत्रये ॥ १०६ ॥
१. 'वं', २. 'स्या' घ. पाठः.