शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 195, कुल 280 में से
संदर्भ में पढ़ें१७६ शिल्परत्ने [उत्तरभागः
मणौ च मलिनच्छाये दारिद्र्यमुपजायते ।
मुष्कयोरुभयोः साम्ये राजराजत्वमाप्नुयात् ॥ २० ॥
लम्बयोर्ह्रस्वयोश्चैव मुष्कयोर्दीर्घजीविनः ।
एक एव यदा मुष्कस्तदा स्यान्मरणं जलात् ॥ २१ ॥
वृत्तविस्तीर्णगम्भीरनाभौ सुखमतीव हि ।
विषमा बिलमध्यस्था नाभिर्दारिद्र्यकारिणी ॥ २२ ॥
दक्षिणावर्तनी शस्ता वामावर्तापकारिणी ।
लम्बोदरो भवेदाढ्यो बहुभोगः समोदरे ॥ २३ ॥
कृशोदरे लघुः कामी दुःखभागी महोदरे ।
घटोदरे भवेन्निःस्वस्तथैव विकृतोदरे ॥ २४ ॥
सर्पोदरे दरिद्रत्वं तथा निम्नोदरेऽपिच ।
वल्यैकया शस्त्रमृत्युः स्त्रीजितत्वं वलिद्वये ॥ २५ ॥
आर्यः स्यात् त्रिवलीयुक्ते घृटं चतुरवलीयुते ।
सुतुल्यौ धनदौ पार्श्वौ निर्धनाख्यौ च वक्रकौ ॥ २६ ॥
स्निग्धं विशालमुत्तुङ्गमुरश्चेद् राजलक्षणम् ।
सिरालं विषमं निम्नं वक्षश्चेद् विपदास्पदम् ॥ २७ ॥
समौ चेच्चूचुकौ भूपा लम्बितौ प्रेष्यतां गताः ।
अदृश्यौ तन्तुनाशाख्यौ विषमौ दुःखदौ स्मृतौ ॥ २८ ॥
उच्चकक्षसमायु(क्तौ ? क्ता)धनधान्यविवर्धनाः ।
समकक्षश्च तत्तुल्यो निर्धनो निम्नकक्षकः ॥ २९ ॥
दुःखी विषमकक्षः स्यादथ पृष्ठस्य लक्षणम् ।
अलग्नं मांसलं पृष्ठं मग्नवंशं शुभावहम् ॥ ३० ॥
१. 'भ्रष्टं च' ग. पाठः.