सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 194, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 194

बिम्बदोषाः ] षड्‌विंशोऽध्यायः । १७५
सिंहव्याघ्रोपमे जङ्घे धनिनां परिकीर्तिते ।
काकजङ्घो भवेद् राजा मृगजङ्घोऽपि तादृशः ॥ १० ॥
जङ्घे(व ? च) मीनवद्¹ यस्य सोऽपि साम्राज्यभाग् जनः ।
स्थूलजङ्घा दीर्घजङ्घा जायन्ते पथिगाः सदा ॥ ११ ॥
सृगालकोलजङ्घा ये ते नरा दुःखभागिनः ।
इदं तु बिम्बे सञ्चिन्त्यं तथा वृत्ते च जानुनी ॥ १२ ॥
मांसले च समे शब्दहीने गूढनगन्थिनी ।
किञ्चिदुन्नतयुक्ते तु भवेतां सर्वमङ्गले ॥ १३ ॥
ऊरू करिकराकारौ रोमाभिः परिवर्जितौ ।
सुश्लक्ष्णौ निबिडौ नातिस्थूलौ नातिकृशौ वरौ ॥ १४ ॥
सुखदं मांसलं स्फिक् चेद् व्याघ्रभेकस्फिगेव हि ।
तथैव दुःखदं ज्ञेयं शुष्कस्फिङ् नैव संशयः ॥ १५ ॥
मृगेन्द्रकटिसङ्काशकटिश्चेत् पार्थिवत्वदा ।
कामित्वं स्यात् कोलकटेः ++++++++॥ १६ ॥
कर्कटोष्ट्रकटिस्तद्वत् श्वकटित्वं सुतापहम् ।
मेहनं धनदं ह्रस्वं स्थूलं पुत्रार्थनाशदम् ॥ १७ ॥
(अ ? पु)त्रवृद्धिकरं ज्ञेयमेतद् दक्षिणतोन्नतम् ।
मणिनी सोन्नते स्निग्धे धनस्त्रीरत्नभाजनम् ॥ १८ ॥
मध्यनिम्ने भवेन्निःस्वो मध्यादग्रे विशेषतः ।
ईषद्रक्ते समृद्धिः स्यात् पाण्डरे धनहीनता ॥ १९ ॥
१. 'मिग्नव' ख. ग. पाठः. २. 'व' ग. पाठः.