शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 193, कुल 280 में से
संदर्भ में पढ़ें१७४ शिल्परत्ने [उत्तरभागः
*अथ षड्विंशोऽध्यायः ।
अथ बिम्बदोषाः ।
मांसवर्णैर्नखैर्वाथ पद्मताम्रनिभैस्तथा ।
संयुक्ताः प्रतिमा यत्र तत्रस्थाः सुखिनो नराः ॥ १ ॥
‡श्वेतैर्नखैर्दुःखिनश्च शूलाग्रैः स्फटिकोपमैः ।
दरिद्रतां भ(व ? ज)न्त्येव तथैव हरितै(र्नखैः) ॥ २ ॥
(अङ्गुल्यः) प्रोन्नताग्राश्चेद् भवन्ति सुखदाः सदा ।
पादाङ्गुष्ठमतिक्रम्य प्रदेशिन्यनिवर्तयेत् (?) ॥ ३ ॥
लभन्ते तत्रदेशस्था नारीभोगमनुत्तमम् ।
कनिष्ठायां तु दीर्घायां बहुवित्तकरो भवेत् ॥ ४ ॥
अङ्गुल्यः कुटिलाः शुक्ला विरला दुःखभागिनः ।
अस्वेदनौ मृदू रक्तौ पुष्पौ चारुदलाविव ॥ ५ ॥
लम्बाङ्गुली सुपाणिं च सिराविरहितौ तथा ।
मांसलौ गूढगुल्फौ च कूर्मपृष्ठसमावपि ॥ ६ ॥
भवेतां चरणौ यस्य तत्रस्था राजवल्लभाः ।
विवृतौ शूर्पसङ्काशौ सस्वेदौ ह्रस्वपाण्डरौ ॥ ७ ॥
रोमशौ चरणौ यस्य तत्रस्था दुःखभागिनः ।
दीर्घपादतले रेखा हलाङ्कुशनिभा यदि ॥ ८ ॥
सार्वभौमत्वदं लक्ष्म तदि(नं ? दं) नात्र संशयः ।
क्रमाद् वृत्ते प्रशस्येते जङ्घे स्निग्धे त्वरोमके ॥ ९ ॥
- घ-मातृकायामेतदादि पञ्चत्रिंशाध्यायस्यारम्भावधिको भागो लुप्तः ।
‡ इतःप्रभृति क-मातृकायां पत्राणि पञ्च लुप्तानि ।