शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
DevanagariSanskritpublished280 पृष्ठ
पृष्ठ 179, कुल 280 में से
संदर्भ में पढ़ेंपृष्ठ 179
१६० शिल्परत्ने [उत्तरभागः
नानाविभ्रमभूषणव्यतिकरं स्मेरप्रभासुन्दरं
वन्दे शक्त्यभयौ दधानमुदिताभीष्टप्रभावं गुहम् ॥ ६४ ॥
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्व(र्णस्य ? र्णादि) सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुट(व ? ध)रं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ६५ ॥
अथवा,
स्फुरन्मुकुटपत्रकुण्डलविभूषितं चम्पक-
स्रजाकलितकन्धरं करयुगेन शक्तिं पविम् ।
दधानमथवा कटीकलितवामहस्तेष्टदं
गुरुं घुसृणभासुरं स्मरतु पीतवासोवसम् ॥ ६६ ॥
अथ नागयक्षी —
गात्रं यस्याः सुनेत्रं जलधरकबरीभारमाकल्पजालैः
[