सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 182, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 182

सौरमष्टाक्षरम् ।] पञ्चविंशोऽध्यायः । १६३
पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत् सकलवाञ्छितवस्तुसिद्धयै ॥ ७७ ॥
अपिच,
अरुणकनकवर्णं पद्मसंस्थं च गौरी-
हरनियमितचिह्नं सौम्यतानूनपातम् ।
भवतु भवदभीष्टप्राप्तये पाशटङ्का-
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ ७८ ॥
अथ शङ्करनारायणः —
ध्येयो जटामकुटचन्द्रकलार्धमूर्धा
त्रीक्षस्तरक्ष्वजिनपीतदुकूलवासाः ।
ईशाच्युतस्त्रिशिखचक्रकपालशङ्खान्
बिभ्रत् सितासितवपुर्युचितात्मभूषः ॥ ७९ ॥
अथ सूर्यः—
रक्तासिताम्भोजधरं कराभ्या-
मादीप्तभामण्डलमध्यसंस्थम् ।
सूर्यं पिशङ्गांशुकगन्धमाल्य-
मादीप्तदिव्याभरणं नमामि ॥ ८० ॥
अथ सौरमष्टाक्षरम् —
अरुणसरोरुहसंस्थ-
स्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदकरो
द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः॥ ८१ ॥
१. 'त्र्य' घ. पाठः.