शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 189, कुल 280 में से
संदर्भ में पढ़ें१७० शिल्परत्ने [उत्तरभागः
अथ ब्रह्मा —
लिखेच्चतुर्मुखं देवं चतुर्बाहुं शुभेक्षणम् ॥ १२३ ॥
रत्नकुण्डलसंयुक्तं लम्बकूर्चोपवीतिनम् ।
कृष्णाजिनधरं गौरं शुक्लाम्बरविराजितम् ॥ १२४ ॥
दक्षिणं वरदं हस्तं तत्रान्यं शुभधोरिणम् ।
कमण्डलुधरं वामं तथान्यं संयुतं शुचा ॥ १२५ ॥
बिभ्राणं चतुरो वेदान् पुरतश्चास्य विन्यसेत् ।
वामे पार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् ॥ १२६ ॥
आज्यस्थालीं पुरोभागे महर्षींश्च समन्ततः ।
हंसारूढं लिखेत् कापि कचिच्च कमलासनम् ॥ १२७ ॥
स्रष्टारं सर्वलोकानां ब्रह्माणं परिकल्पयेत् ।
अथ कुमारः —
विलिखेत् षण्मुखं देवं मयूरवरवाहनम् ॥ १२८ ॥
तरुणादित्यसङ्काशं बालभूषणभूषितम् ।
स्थानीये खेटके वापि कुमारो लिख्यते यदा ॥ १२९ ॥
भुजा द्वादश कुर्वीत खर्वटे चतुरो भुजान् ।
ग्रामे वने द्विबाहुः स्याल्लेखनीयो विचक्षणैः ॥ १३० ॥
अथ नागः —
नागानां वक्ष्यते रूपं नाभेरूर्ध्वं नराकृति ।
सर्पाकारमधोभागं मस्तके भोगमण्डलम् ॥ १३१ ॥
एकं फणं त्रयं वापि पञ्च वा सप्त वा नव ।
द्विजिव्हास्ते विधातव्याः खड्गचर्मकरैर्युताः ॥ १३२ ॥
१. 'दा' ग. पाठः. २. 'पन्नग' घ. पाठः.