सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

६२ षड्विंशब्राह्मणम्
नियमान्तरमाह—
रेतस्या [गायत्री] छन्दसा। प्राजापत्या देवतया।
सर्वमेतया ध्यायन् गायेत्। सर्वं हीदं रेतः॥ ६॥
रेतस्या प्रथमा ऋक्। छन्दसा गायत्री। देवतया प्राजापत्या।
प्रजापतिना गीतत्वात्। इत्येतत् सर्वं ध्यायन् एतया रेतस्यया गायेत्। हि
यस्माद् इदं सर्वं रेतः। तथा च श्रूयते—प्रजापते रेतो देवाः। देवानां
रेतो वर्षम्। वर्षस्य रेत ओषधयः (ऐ. आ. २१.३.१) इत्यादि॥ ६॥
रेतस्यायां सेतिकर्तव्यताकं गानं विधायेदानीं द्वितीयायाम् अभि
ते मधुना पयः (सा. ६५२) इत्यस्यां गीयमानं विधत्ते—
द्वितीयां गायति॥ ७॥
गायेदित्यर्थः॥ ७॥
तत्र विशेषमाह—
तस्या द्वे अक्षरे सशयनी व्यतिषजति। मध्यमस्य
च पादस्योत्तममुत्तमस्य च प्रथमम्॥ ८॥
तस्या ऋचो द्वे अक्षरे सशयनी सह शयाते इति सशयनी व्यतिषजति
व्यतिषक्ते कुर्यात्। ते के अक्षरे इत्यत उक्तम् मध्यमस्य पादस्य इति। अथर्वाणो
अशिश्रियुः (सा. ६५२ᵇ) इत्यस्य पादस्य उत्तमम् अन्त्याक्षरम्। उत्तमस्य
देवं देवाय देवयुः (सा. ६५२ᶜ) इत्यस्य च प्रथमम् अक्षरम्। तथा च
२. [गायत्री] See CN.
५. RKSI. गीयमानत्वात् for गीतत्वात् ; M. adds प्राजापत्या after
गीतत्वात्; RJ. इत्येवं, M. इत्येतया, T कृत्येतत्, SI प्रत्येत्तत् for इत्येतत्.
६. MTKI om. देवाः.
७. Bh om. वर्षे.
८. J रेतस्यायाः for रेतस्यायां ; M. ०कर्तव्यतां गानं च. for ०कर्त
व्यताकं गानं.
१५. R. तस्यामृचि for तस्या ऋचः; Bh. om. ऋचो...शिश्रियुरित्यस्य;
R. om. सशयनी; MT शयनी for सशयनी; J om. सह शयाते इति सशयनी.
१६. RTJK. om. इति; M. उत्तमम् for उक्तम् ; SIK. om. पादस्य;
K. adds यया before अथर्वाणो०.
१७. M. पदस्य for पादस्य; M मध्यमस्य च for इत्यस्य; BhJ.
अन्त्यमक्षारम् for अन्त्या०.

द्राह्मायणो गानेन व्यतिषङ्गं दर्शितवान् । अथर्वाणो आश्रश्वदे३युर्वन्दे वायदा
(सा. ६५२bc) (२१.३.१९; ला. ७.१२.४) इति ॥ ८ ॥
एतत्प्रशंसति—
व्यतिषक्तौ प्राणापानौ प्रजा दधतः ॥ ९ ॥
स्पष्टोऽर्थः ॥ ९ ॥
गाने नियमं दर्शयति —
गायत्री छन्दसाग्नेयी देवतया । पृथिवीमेतया ध्यायन्
गायेत् ॥ १० ॥
छन्दसा गायत्री देवतया आग्नेयीति । अग्न्यधिष्ठानरूपां पृथिवीं च
ध्यायन् एतया गायेत् ॥ १० ॥
अथ स नः पवस्व शं गवे (सा. ६५३) इत्यस्यां तृतीयायां
गानं विधत्ते —
तृतीयां गायति ॥ ११ ॥
गायेदित्यर्थः ॥ ११ ॥
गानविशेषमाह —
तां बलवदिवोरसेव गायति ॥ १२ ॥
ताम् ऋचं बलवदिव प्रयत्नवदिव उरसा स्थानेनैव
गायेदित्यर्थः १२ ॥
विशेषान्तरमाह —
तस्या द्वे उत्तमार्धेऽक्षरे द्योतयति ॥ १३ ॥
तस्या ऋचः उत्तमार्धे द्वे अक्षरे द्योत॑यति । एतद् ब्राह्मणमनूद्य
द्राह्मायणो मतभेदेन व्याचकार । तस्या द्वे उत्तमार्धे अक्षरे द्योतयतीति
4. Bh. प्रत्यक्षा for प्रजा.
5. RJS. स्पष्टा० for स्पष्टोऽ०.
17. MTK प्रबल० for बल० ; MBhK. उरसः for उरसा; J उरः-
स्थानेनेव for उरसा स्थानेनैव.....
18. Bh J. उद्गायेद् for गायेद् .
21. SI om. तस्या ऋचः...द्योतयति Bh उत्तमार्धेति सार्धे चे द्वे, M
उत्तरार्धेति सार्द्धे द्वे द्वे for उत्तमार्धे द्वे ; MTSIK. तद् for एतद् ; M अनुगानाद्,
SI. अनु K Bh अनुगं for अनूद्य.

६४ षड्विंशब्राह्मणम्

ब्राह्मणं भवति ये ऊर्ध्वं हिंकारात्ते निर्ब्रूयादिति गौतमः षाधा इति
धानंजय्यः (२१.३.२१.२३ ; ला ७.१२.६९) इति । शं राजन्
(सा. ६५३ᶜ) इत्यर्धे हिंकारादूर्ध्वं यदक्षरद्वयं तन्निरुक्तं गेयमिति गौतमस्य
मतम् । हिंकारात् पूर्वं षाधा इत्यक्षरद्वयं निरुक्तं गेयमिति
धानंजय्यमतमिति ॥ १३ ॥
तत्प्रशंसति—
चक्षुरेव तद्युनक्ति तस्माद्युक्तं चक्षुः ॥ १४ ॥
तत् तेन अक्षरद्वयद्योतनेन चक्षुरेव प्राणत्वेन युनक्ति । तस्मात्
तत एव चक्षुः युक्तं संबद्धमेव भवति ॥ १४ ॥
अत्रापि गाने नियममाह—
त्रिष्टुप् छन्दसैन्द्रीदेवतयान्तरिक्षमेतया ध्यायन्
गायेत् । १५ ॥
पूर्ववद्व्याख्येयम् ॥ १५ ॥
अथ दविद्युतत्या रुचा (सा. ६५४) इत्यस्यां गानं विधत्ते—
चतुर्थीं गायति ॥ १६ ॥
अत्र गाने विशेषमाह—
तस्याश्चत्वारि चत्वार्यक्षराणि निक्रीडयन्निव गायत्या
द्वादशेभ्योऽक्षरेभ्यः ॥ १७ ॥


  1. Bh MTJ om. शं राजन्.
  2. M ० रूपं for द्वयं; J Bh. ०क्षरं निरुक्तं for ०क्षरद्वयं तन्निरुक्तं.
  3. TI. धानंजय्यस्य for धानंजय्य०.
  4. RSI. युक्तम् for ततः; M. युक्तसंबन्धः for युक्तं संबद्धम ... ;
    RSI. संबन्धम् for संबद्धम्.
  5. KT. गान० for गाने; J. om. गाने.
  6. Bh MT निक्रीडन् for निक्रीडयन्.

द्वितीयोऽध्यायः (१) ६५

द्वादशाक्षरपर्यन्तं तस्या ऋचः चत्वारि चत्वार्यक्षराणि निक्रीडयन्निव
नितरां क्रीडयन्निव विरम्य गायेदित्यर्थः ॥ १७ ॥
ततः स्तौति—
द्वादशाक्षरपदा जगती । पशवो वै जगती । पशुष्वेव
प्रतितिष्ठति ॥ १८ ॥
जगती द्वादशाक्षरपदा । स्पष्टमन्यत् ॥ १८ ॥
तत्र एव विशेषान्तरमाह—
तस्याश्चत्वार्युत्तमार्धेऽक्षराणि द्योतयति ॥ १९ ॥
तदेतदनूद्य मतभेदेन व्याचष्टे सूत्रकारः—तस्याश्चत्वार्युत्तमार्धेऽ-
क्षराणि द्योतयतीति ब्राह्मणं भवति । द्वे पुरस्ताद्धिंकारात् तथोपरिष्टादिति
गौतम इति । सोमः शुक्रा इति धानंजय्यः (द्रा. २१.३.२४, २६; ला.
७.१२.१०-१२) इति । स्पष्टोऽर्थः ॥ १९ ॥
तत्प्रशंसति—
श्रोत्रमेव तद्युनक्ति । तस्माद्युक्तं श्रोत्रम् । श्रोत्रे द्वे
प्रतिश्रवणे द्वे । तस्मात् पुरुषः सर्वा दिशः शृणोति । अपि
पराङ् यन् प्रत्यङ् शृणोति ॥ २० ॥
तत् तेनाक्षरचतुष्टयद्योतनेन श्रोत्रमेव प्राणत्वेन युनक्ति । तस्मात्
तत एव श्रोत्रं युक्तं चतुष्ट्वसंख्यया । कथम् ? द्वे श्रोत्रे उपाधिभेदेन तथा


  1. J. om. चत्वारि चत्वार्यक्षराणि; Bh MT. निक्रीडन् for निक्रीडयन्.
  2. MTI निरन्तरं for नितरां; Bh om. नितरां क्रीडयन्निव; S. om. नितरां...गायेदित्यर्थः ।
    RI after गायेदित्यर्थः add:—तदाह सूत्रकारः—तस्याश्चत्वारि चत्वार्य-क्षराणि निक्रीडयन्निव गायत्या द्वादशभ्योऽपरेभ्य इति ब्राह्मणं भवति परिष्टो भान्ताया (I. भ्रां आ उन्तायां) कृपा (I. ०पा अ) इति.
  3. M. पदाक्षरा for अक्षरपदा.
  4. M तदत्र for तत्र.
  5. R J om. इति after गौतमः.
  6. RTJ. स्पष्टा० for स्पष्टो०.
  7. Bh adds तद् after तेन.
  8. RSI युक्तम् for ततः; Bh I श्रोत्रत्व for श्रोत्रं; RSI चतुर्षु चतुः-संख्यादिकं for चतुष्ट्वसंख्यया । कथम्?.
    ५० ऽ

[Header] ६६ षड्विंशब्राह्मणम्

प्रतिश्रवणे प्रतिध्वनी इत्येवम् । यत एवं तस्मात् पुरुषः सर्वा दिशः शृणोति ।
सर्वासु दिक्षु वर्तमानान् शब्दान् शृणोतीत्यर्थः । तस्य विवरणम् — पराङपि
यन् गच्छन् प्रत्यङ्ङपि सर्वतः शृणोति ॥ २० ॥
गाने नियममाह—
जगती छन्दसा । सौरी देवतया । दिवमेतया ध्यायन्
गायेत् ॥ २१ ॥
पूर्ववद्व्याख्येयम् ॥ २१ ॥
अथ हिन्वानो हेतुभिर्हितः (सा. ६५५) इत्यस्यां गानं विधत्ते—
पञ्चमीं गायति ॥ २२ ॥
तत्र विशेषमाह—
तां निनर्द्दन्निव गायति ॥ २३ ॥
तां चतुर्धा व्यावृत्य गायेदिति वचनाच्चतुःखण्डां पञ्चमीं कुर्यात् ।
हिंकारादूर्ध्वमेकः । त्रयः पूर्वे खण्डाः । तत्र पूर्वेषु त्रिष्वपि खण्डेषु अन्त्य-
मक्षरं निनर्देदित्यर्थः ॥ २३ ॥
तत्प्रशंसति—
आह बहुतमात्पुरुषादन्नमत्ति । अन्नादो भवति । य
एवं वेद ॥ २४ ॥

  1. RJ तस्यैव for तस्य; M पराञ्चि प्रत्यञ्चि विषूगपि, J परागपि यन्
    गच्छन् प्रत्यङ्शब्दानपि for पराङपि...सर्वतः.
  2. Bh J om. पूर्ववद्व्याख्येयम् .
  3. J om. तत्र विशेषमाह...वचनात् (L. 12).
  4. Bh M. चतुर्षु for चतुः; J नानाचतुरखनर्दा for चतुःखण्डा ;
    Bh JT पञ्चमी for पञ्चमीं; Bh J. कार्या for कुर्यात् · T om. कुर्यात्.
  5. M. एकं for एकः, M. om. पूर्वे खण्डा ;
    M. om. तत्र and अपि; M. अपरखण्डेषु, J अत्रनर्देषु for खण्डेषु; R. om. खण्डेषु
  6. Bh. किं च य एवं वेद सोऽप्यन्नादो भवति य एवं वेदेत्याह for तत्प्रशंसति.

द्वितीयोऽध्यायः (१) ६७
आह य एवं निनर्दन् गायति स बहुतमात् पुरुषात् बहुसंततिपर्यन्त-
मन्नमत्तीत्यर्थः । किं च, य एवं वेद सोऽपि अन्नादो भवति ॥ २४ ॥
तत्रैव विशेषान्तरमाह—
निरुक्तं चानिरुक्तं गायति ॥ २५ ॥
तामृचमंशभेदेन निरुक्तामनिरुक्तां च गायेत् । अयमर्थः । अस्य
चत्वारो गीतिखण्डाः । तान् क्रमेण निरुक्तमनिरुक्तमित्येवं व्यत्यासं गायेदिति ।
तथा च द्राह्यायणः—तस्याः द्वितीयं पादं निर्ब्रूयात् । तृतीये चाक्षरे
पञ्चमषष्ठे (ला. श्रौ. सू. ७. १३. ३.) इति । अस्यार्थः--अस्याः द्वितीयं
पादं निरुक्तं गायेत् । तृतीये पादे प्रथमं चतुरक्षरमनिरुक्तं पुनः पञ्चमषष्ठे
निरुक्ते गायेत् । हिंकारादूर्ध्वं पुनरप्यनिरुक्तमित्येवं व्यत्यासं गायेदिति ॥ २५ ॥
तत्प्रशंसति—
निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवन्ति ।
भुङ्क्ते वाचमुपैनां जीवति । य एवं वेद ॥ २६ ॥
अस्या ऋचो निरुक्तेनैव वाचो वाक्फलं भुञ्जते । किं च, अस्या
अनिरुक्तं तत्कार्यम् उपजीवन्ति । यश्चैवं वेद सोऽपि वाचं भुङ्क्ते ।
एनामुपजीवति च ॥ २६ ॥

  1. M. एवं निनर्दे for एवं निनर्दन्; RSI. add बहु before पुरुषात् .
  2. RK निरुक्तं...रुक्तं for निरुक्तां...रुक्तां.
  3. J om. अंशभेदेन ; RI. अथ, Bh J तस्य for अस्य.
  4. Bh गाति०, T गार्थी०, SI उद्गीथे for गीति०; J गीतेरवनर्दाः ।
    तान्निनर्दयन् for गीतिखण्डाः । तान् ; R om. इति; Bh J om. एवं.
  5. TSI पदं for पादं.
  6. Bh. om. निरुक्ते; Bh om. इत्येवं व्यत्यासं गायेद् ; MTI om. गायेद् .
  7. Bh. om. जीवति.
  8. RI om. वाक्फलं; J अस्याम् ऋचि निरुक्तत्वेनैव अत्रत्योक्तं
    निरुक्तनैरुक्तनैर्वाक्यालग्रवनं, Bh. अस्यान्वयो निरुक्त्या(!)—क्त्यनैव for अस्या...
    वाक्फलं ; S. वाचो भुञ्जते वाक्फलं भुञ्जते for वाचो...भुञ्जते ; R Bh J KT
    अस्यानिरुक्तं for अस्या अनिरुक्तं.
    15; J. तत्कार्येषु for तत्कार्यम् .
  9. Bh MT add यः before एनाम् .

अत्र नियममाह—
अनुष्टुप् छन्दसा । प्राजापत्या देवतया । सर्वमेतया
ध्यायन् गायेत् । सर्वं हीदं प्राजापत्यम् ॥ २७ ॥
एषा छन्दसा अनुष्टुप् । खण्डचतुष्टुं पादचतुष्टुमिति चतुष्टुमाम्नात् ।
देवतया प्राजापत्या । सर्वम् एव ध्यायन् एतया गायेत् । हि यस्मात् इदं सर्वं
जगत् प्राजापत्यं प्रजापतिसंबन्धीति ॥ २७ ॥
अथ ऋधक् सोम स्वस्तये (सा. ६५६) इत्यस्यां गानं विधत्ते—
षष्ठीं गायति ॥ २८ ॥
अत्र विशेषं दर्शयति—
तस्या द्वे द्वे अक्षरे उदासं गायत्या षड्भ्योऽ-
क्षरेभ्यः ॥ २९ ॥
तस्या ऋचो द्वे द्वे अक्षरे आ षड्भ्योऽक्षरेभ्यः षडक्षरपर्यन्तम् उदासं
गायेत् । तदेव मतभेदेन दर्शितवान् सूत्रकारः—संजाग्मानोदाइवाका३ा
इति धानंजय्यः इति । कावा इति शाण्डिल्यः इति (२१. ४. ७; ला. ७.
१२.५.६) ॥ २९ ॥
तदक्षरसंख्यां प्रशंसति—
षडृतव ऋतुष्वेव प्रतितिष्ठति ॥ ३० ॥
षट्सु एव वसन्तादिषु ऋतुषु सर्वं प्रतितिष्ठति । ऋतूरूपेण विभिन्नस्य
कालस्य सर्वोत्पत्तिनिमित्तकारणत्वात् ॥ ३० ॥
4. TRSI. एषां छन्दसाम् for एषा छन्दसा; Bh J छन्दः for खण्ड;
RSI ॰चतुष्टयं M. ॰चतुष्कं for ॰चतुष्टुं; J adds भूतभविष्यद्वर्तमानतया after
॰खण्डचतुष्टुं ; RSI चतुष्टय॰, M चतुष्क॰ for चतुष्टु॰; K च त्रिषुष्टुप्
[...] प्राजापत्या for चतुष्टु. . .प्राजापत्या.
5. T एवं, JI एतया for एव; RJ om. एतया.
13. TJ ॰दायि॰ for ॰दाइ॰; MK. कवा for कावा.
14. TJSI. कवा for कावा.
16. Bh J गायति for प्रशंसति and J adds तत् प्रशंसति thereafter.
18. RSI विभिन्न for विभिन्नस्य; M. विभिन्नाकारस्य for विभिन्न-
कालस्य.

द्वितीयाऽध्यायः (१) ५९
अत्रापि नियममाह—
पङ्क्तिश्छन्दसा । सौमी देवतया । दिश एतया
ध्यायन् गायेत् ॥ ३१ ॥
पूर्ववद्व्याख्येयम् ॥ ३१ ॥
एवं सर्वासृक्षु गानं विधाय क्वचित्तदनूद्य फलदर्शनेन स्तौति— ५
इहेव च वा एष इहेव च मनसा गच्छति । यो
गायत्रे प्रातःसवने त्रिष्टुभं गायति जगतीं गायत्यनुष्टुभं
गायति पङ्क्तिं गायति । आस्ते ॥ ३२ ॥
यो गायत्रे गायत्रीछन्दोयुक्ते प्रातःसवने त्रिष्टुभं तृतीयामृचं गायति
जगतीं चतुर्थीं गायति अनुष्टुभं पञ्चमीं गायति षष्ठीं पङ्क्तिं गायति । एष १०
सोऽयं इहैव इहैव । चकारात् परत्रापि । द्विरुक्तिरादरार्था । मनसा गच्छति
संकल्पेनैव चाभीष्टानि प्राप्नोतीत्यर्थः । अन्ते (आस्ते ?) प्रतितिष्ठति
चेत्यर्थः ॥ ३२ ॥
गायत्रे द्वे इति दर्शयति—
गायत्रे द्वे गायति ॥ ३३ ॥ १५
तत्फलं दर्शयति—
प्राणमेव तदभ्येति । प्राणो हि गायत्रम् । पन्थानमेव
तदभ्येति । पन्था हि गायत्रम् ॥ ३४ ॥ १८
6. MS इहैव for इहेव.
8. J takes आस्ते to the next Sutra.
11. RSI. साम, K. सोमम् for सोऽयम्; KSI. आदरात् for आदरार्था.
12. Bh J. om. अन्ते प्रतितिष्ठति चेत्यर्थः ।
14. RI गायत्र्यो निदर्शयति J Bh. गायत्रे (Bh गायत्र्ये) गानं
दर्शयति, T. गायत्र्योर्गानं दर्शयति for गायत्रे द्वे ...
15. J. adds आस्ते before गायत्रे; BhMSI. गायत्रं for गायत्रे.
7

।
Wait, let's look at "रथन्तरवद्प्रकारैरभिष्टोभेद्": yes, no space.

तत्प्रशंसति—
इयं वै रथन्तरमस्यामेव प्रतितिष्ठति ॥ ३६ ॥
इयमेव ऋक् रथन्तरम् । तद्धर्मकत्वात् । किं च, अस्यामेव ऋचि
सामनि च प्रतितिष्ठतीति । यद्वा, अस्यां गीयमानायाम् एव यजमानः
प्रतितिष्ठति यज्ञफलं लभत इति ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
द्वितीयाध्याये प्रथमः खण्डः

Footnotes separator line:

  1. M. तत्त्वेन च यो for तत् तेन च द्वयोर् ; M. om. हि यस्मात्...
    गायत्रम् ; J. om. प्राणो...हि यस्मात् .
  2. R. गायत्रम् for गायत्रीति; R adds गायत्रं after पन्थानं.
  3. Bh J add अपि after ०माने.
  4. RSI गायेत् for गायति.
    [L2

द्वितीयः खण्डः
अथैतास्वृक्षु विधास्यमाने धूर्गाने बहिष्पवमाने तासामानुलोम्यं विधत्ते—
ता वा एता देवलोकाय युज्यन्ते यत्पराच्यः ॥ १ ॥
ता एवैता ऋचो देवलोकाय युज्यन्ते समर्था भवन्ति । यत् येन
पराच्यः आनुलोम्येन गीयन्ते इत्यर्थः ॥ १ ॥
अथ आज्यस्तोत्रेषु तासां प्रातिलोम्यं विधत्ते—
प्रतीच्यो मनुष्यलोकाय ॥ २ ॥
येन प्रतीच्यः प्रत्यङ्मुखाः प्रातिलोम्ययुक्ता भवन्ति तेन मनुष्य-
लोकाय युज्यन्ते । देवलोकापेक्षया मनुष्यलोकस्य प्रत्यग्भूतत्वात् ॥ २ ॥
प्रशंसापूर्वकं धूर्गानं विधत्ते—
एष वाव जात एषोऽवलुप्तजरायुरेष आर्त्विजीनो यस्य
धुरो गीयन्ते यश्चैवं विद्वान् धुरो गायति । जातमेवैनमन्नाद्याय
परिवृणक्ति । उभावन्नमत्त उद्गाता च यजमानश्च ॥ ३ ॥
यस्य बहिष्पवमानस्य संबन्धिनो धुरो येन गीयन्ते । गायत्रगीतेरेव
केवलविकाराः धुरः तद्योगादृचोऽपि धुर इत्युच्यन्ते । एष वाव अयमेव
जातः जन्मफलवान् एषोऽवलुप्तजरायुः । जरायुर्गर्भवेष्टनं तद्रहितः । अज्ञान-
रहित इत्यर्थः । अत एष एव आर्त्विजीन ऋत्विकर्मार्हः । किं च । एवं
विद्वान् जानन् धुरो गायति तं जातम् एवमन्नाद्याय परिवृणक्त्येव ।
तद्धानमन्नभक्षणाय समर्थं करोतीत्यर्थः । किं च उद्गाता यजमानश्चेत्यु-
भावप्यन्नमत्तः ॥ ३ ॥
2. SRI. ०मान, M. ०मानं for माने; M. ०ष्पवमानेन सामानु० for
०ष्पवमाने तासामानु०; RSI. ०लोमं for ०लोम्यं.
4. Bh I. om. ता एवैता...युज्यन्ते ; SIRM ययेना:, Bh T यद्येनं
पराच्यम for यत् येन पराच्यः.
5. R Bh SI. गीयते for गीयन्ते.

षड्विंशब्राह्मणम्
तत्र प्रथमाया गाने विशेषमाह—
या प्रथमा तामन्नाद्यं ध्यायन् गायेत् ॥ ४ ॥
तत्र या प्रथमा ऋक्तामन्नाद्यं भूयादिति ध्यायन् गायेत् ॥ ४ ॥
तत्प्रशंसति--
रेतस एव तत्सिक्तायान्नाद्यं प्रतिदधाति ॥ ५ ॥
तत् तेन ध्यानपूर्वकेण गानेन रेतसस्सिक्ताय सेकायैव प्रजोत्पत्त्यर्थमे-
वेत्यर्थः । अन्नाद्यं प्रतिदधाति धारयतीत्यर्थः ॥ ५ ॥
तत्र हिंकारं प्रतिषेधति—
न हिंकुर्यात् ॥ ६ ॥
हिंकारनिन्दया तद्वर्जनं प्रशंसति—
यद्धिंकुर्याद्वज्रेण हिंकारेण रेतस्सिक्तं विच्छिन्दद्यात् ॥ ७ ॥
व्याख्यातमेतत् ॥ ७ ॥
तस्याः छन्दःप्राणौ दर्शयति--
रेतस्या छन्दो युज्यते । मनो धीयते ॥ ८ ॥
छन्दो रेतस्या प्रथमा गायत्री युज्यते । मनश्च प्रजापतिना प्राणत्वेन
धीयते ॥ ८ ॥
अस्य द्वितीयायामृचि गाने विशेषमाह—
या द्वितीया तां गायत्रीमागां गायंस्तस्या द्वे अक्षरे
सशयनी व्यतिषजति । मध्यमस्य च पदस्योत्तममुत्तमस्य च

  1. J. रेतसे for रेतसः; R J add रेतः before सेकाय; MBh ॰पत्तिम् ,
    J ॰पत्तये for ॰पत्त्यर्थम् .
  2. Bh तस्यां for तस्याः; J छन्दोरेतस्यां for छन्दःप्राणौ.
  3. Bh रेतस्यां for रेतस्या.
  4. MT. रेतस्याः, K. रेतस्यां for रेतस्या.
  5. RSI. निधीयते for धीयते.
  6. KRSI अद्य. J अथ for अस्य.

द्वितीयोऽध्यायः (२) ७३
प्रथमम् । व्यतिषक्तौ प्राणापानौ प्रजा दधतो गायत्री छन्दो
युज्यते । प्राणापानौ धीयेते ॥ ९ ॥
तस्य बहिष्पवमानस्य या द्वितीया तामागां गेयत्वेन प्राप्तां गायत्रीं
गायन् । उद्गाता तस्या ऋचो द्वे अक्षरे सशयनी । सह शयात इति
सशयनी । व्यतिषजति । कथं ? मध्यमस्य च पदस्य उत्तमम् अक्षरम्
उत्तमस्य च पदस्य प्रथमम्--अथर्वाणो अशिश्रादेयुर्वन्देवायदे (सा.
562ᵇᶜ) इति । अन्यत् पूर्ववत् ॥ ९ ॥
तृतीयायां विशेषानाह--
या तृतीया तां त्रिष्टुभमागां गायंस्तस्या द्वे
उत्तमार्धेऽक्षरे द्योतयति । चक्षुरेव तद्युनक्ति । तस्माद्विरूपं
चक्षुः कृष्णमन्यच्छुक्लमन्यत त्रिष्टुप् छन्दो युज्यते । चक्षुषी
धीयेते ॥ १० ॥
या तृतीया तां त्रिष्टुभं गायन् । तस्या अन्तिमार्धर्चे हिङ्कारात्
पूर्वम् ऊर्ध्वं वा द्वे अक्षरे द्योतयति । निरुक्तं गायेदित्यर्थः । स्पष्टमन्यत् ॥१०॥
चतुर्थ्यां विशेषान् दर्शयति--
या चतुर्थीं तां जगतीमागां गायंस्तस्याश्चत्वा-
र्युत्तमार्धेऽक्षराणि द्योतयति । श्रोत्रमेव तद्युनक्ति ।
तस्माद्युक्तं श्रोत्रम् । श्रोत्रे द्वे प्रतिश्रवणे द्वे । तस्मादपि
पराङ् यन् प्रत्यङ् शृणोति । जगती छन्दो युज्यते । श्रोत्रे
धीयेते ॥ ११ ॥
3. Bh MTKI om. बहिष्पवमानस्य; RKMI प्राप्तौ for प्राप्तां.
6. RTKSI पादस्य for पदस्य; RJ Bh आशिश्रयुर्देवं देवाय देवयुः
for अशिश्रादेयुः...दा; S. Corrupt.
8. J om. तृतीयां...आह; Bh. विशेषानाह.
14. Bh J om. पूर्वे; TK. om. ऊर्ध्वं.

७४ षड्विंशब्राह्मणम्

तां जगतीभागां गायन् तस्या उत्तरार्धे चत्वारि अक्षराणि ।
हिंकारात् पूर्वं द्वे उपरिष्टाद् द्वे अक्षरे इति चत्वारि । सोमाः शुक्रा इति वा
चत्वार्यक्षराणि । द्योतयति । अन्यद्व्याख्यातम् । पूर्वखण्डेऽभिहितस्यार्थस्यात्राभि-
धानेन न पुनरुक्तिदोषः । विशेषान्तरविधानायानूद्यमानत्वात् ॥ ११ ॥
पञ्चम्यां विशेषानाह —
या पञ्चमी तामनुष्टुब्भागां गायंश्चतुर्धा व्यावृत्य
गायेत् । चतुर्धा वा इदं पुरुषो वीर्याय विकृतो जायते ।
वीर्यायैवैनां तद्व्यावृत्य गायति । उच्चावचामिव गायेत् ।
उच्चावचैव हि वाक् । संक्ष्णुत्येव गायेत् । संक्ष्णुत्येव हि वाचं
पुरुषो वदति । अनुष्टुप् छन्दो युज्यते । वाग् धीयते ॥१२॥
या पञ्चमी तामनुष्टुब्भागां गेयत्वेन प्राप्तां गायन् । चतुर्धा व्यावृत्य
चतुष्खण्डां कृत्वा गायेत् । यत एव लोके इदं प्रसिद्धं [यत्] पुरुषः
चतुर्धा पादमध्यहस्तशिरोरूपैश्चतुर्भिर्भागैः विकृतः सन् वीर्याय जायते
समर्थो भवतीति । तत एव एनाम् अनुष्टुभमृचं चतुर्धा व्यावृत्य वीर्याय
बलार्थमेव गायति । किं च, उच्चावचामिव एतामृचमंशभेदेन निरुक्तामनिरुक्ता-
मिव गायेत् । हि यस्मात् वाक् उच्चावचैव व्यवहाराय भवति । अपि च,
संक्ष्णुत्येव क्ष्णुते जने निशितामिव गायेत् । हि यस्मात् पुरुषो लोके
संक्ष्णुत्येव विस्पष्टमेव यथा भवति तथा वाचं वदति । किं च, अत्र अनुष्टुप्
छन्दो युज्यते । वाक् प्राणत्वेन धीयते । प्रजापतिनेति शेषः ॥ १२ ॥


पादटिप्पण्यः (Footnotes):

  1. J trans. उत्तरार्धे after अक्षराणि.
  2. M Bh JRSI व्यावृत्त्य for व्यावृत्य.
  3. Bh J om. अनुष्टुभम...प्राप्तां.
  4. J चतुरचनर्दा for चतुष्खण्डां ; RTSI add अयं SK यं after इदं.
  5. RSI ताम for एताम् ; RI मतभेदन, KS अभेदेन for अंशभेदेन.
  6. ऽक्तानिरुक्तम् for निरुक्ताम०...
  7. निशितम् for निशिताम.

[Header] द्वितीयोऽध्यायः (२) ७५

अथ षष्ठ्यां विशेषान् दर्शयति—
या षष्ठी तां पङ्क्तिमागां गायंस्तस्या द्वे द्वे अक्षरे
उदासं गायत्याषड्भ्योऽक्षरेभ्यः । षडृतवः ऋतुष्वेव
प्रतितिष्ठति । पङ्क्तिश्छन्दो युज्यते । समानोदानौ
धीयेते ॥ १३ ॥
एषा ऋक् छन्दसा पङ्क्तिः ज्ञेयेत्यर्थः । समानोदानौ प्राणत्वेन
धीयेते । शिष्टं व्याख्यातचरमिति ॥ १३ ॥
अथ बहिष्पवमाने धुरो निधनानि कथ्यन्ते । तत्र रेतस्याया निधनं
दर्शयति—
सदिति प्रथमाया धुरो निधनम् । रेतसो ह्यधि
सज्जायते ॥ १४ ॥
प्रथमाया धुरो सदिति निधनं कुर्यात् । हि यस्मात् रेतसोऽधि ।
अधिशब्दः सप्तम्यर्थद्योतनार्थः । रेतसि सद्रूपेण जगत् जायते ॥ १४ ॥
द्वितीयाया निधनं दर्शयति—
समिति द्वितीयायाः । रेतसो ह्यधि संभवः ॥ १५ ॥
समिति निधनं द्वितीयायाः कुर्यात् । हि यस्मात् रेतसो अधि विश्वस्य
संभवः इत्यर्थः ॥ १५ ॥
तृतीयायाः निधनं दर्शयति—
स्वरिति तृतीयायाः । प्र स्वर्गं लोकं जानाति ॥ १६ ॥
स्वरिति तृतीयाया निधनं कुर्यात् । तेन स्वर्गं लोकं
प्रजानाति ॥ १६ ॥


  1. RTKJ षष्ठ्या for षष्ठयां
  2. Bh TJ add अत्र पङ्क्तिश्छन्दो युज्यते after धीयेते.
  3. Bh I छन्दसां for छन्दसा; J adds सा after पङ्क्तिः.
  4. RKSL om. धुरो.

[header] ७६ षड्विंशब्राह्मणम्

चतुर्थ्या निधनमाह—
इडेति चतुर्थ्याः । पशवो वा इडा । पशुष्वेव
प्रतितिष्ठति ॥ १७ ॥
इडेति चतुर्थ्या निधनं कुर्यात् । पशवः खलु इडा भोग्यत्वात् । तेन
पशुष्वेव प्रतितिष्ठति । पशुमान् भवतीत्यर्थः ॥ १७ ॥
पञ्चम्या निधनं विधत्ते—
वागिति पञ्चम्याः । सर्वा अस्मिन् पुण्या वाचो
वदन्ति ॥ १८ ॥
पञ्चम्या ऋचो वागिति निधनं कुर्यात् । तेनास्मिन् निधनस्य
कर्तरि सर्वाः प्रजाः पुण्याः स्तुतिरूपा वाचो वदन्ति ॥ १८ ॥
यथोक्तस्य वेदितारं प्रशंसति—
य एवं वेद ॥ १९ ॥
यः पुमान् एवं निधनानि वेद सोऽपि यथोक्तफलं लभत इति
शेषः ॥ १९ ॥
अथ तास्वेव धर्मान्तराणि कथ्यन्ते । तत्र प्रथमायां तावद् विशेषमाह—
या प्रथमा तामायच्छन्निव गायेत् । आयत इव
ह्ययमवाङ् प्राणः ॥ २० ॥
या प्रथमा तामायच्छन् प्लुतोच्चारणेन विस्तारयन्निव गायेत् । हि
यस्मात् अयं प्रसिद्धोऽवाङ् अधोवर्ती प्राण आयत इव भवति ॥ २० ॥
द्वितीयायां धर्मान्तरं विधत्ते—
या द्वितीया तां घोषिणीमिव गायेत् । घोषीव
ह्ययमपानः ॥ २१ ॥
घोषिणीं घोषवतीमिव गायेत् । स्पष्टमन्यत् ॥ २१ ॥


  1. Bh स्थानि०, J. स्वामि० for स्तुति०; R om. ०रूपा.

द्वितीयोऽध्यायः (२) ७७
तृतीयायां धर्मान्तरं विधत्ते—
या तृतीया तामुद्यच्छन्निव गायेत् । उद्यत इव
ह्ययं प्राणः ॥ २२ ॥
उद्यच्छन् प्रयत्नेनोर्ध्वं गमयन्निव । व्याख्यातप्रायमन्यत् ॥ २२ ॥
चतुर्थ्यां धर्मान्तरमाह—
या चतुर्थीं तां निक्रीडयन्निव गायेत् । निक्रीडित
इव ह्ययं व्यानः ॥ २३ ॥
व्याख्यातचरमेतत् ॥ २३ ॥
पञ्चम्यां धर्मान्तरमाह—
या पञ्चमी तां निरुक्तामनिरुक्तामिव गायेत् ।
निरुक्तोऽनिरुक्त इव ह्ययं समानः ॥ २४ ॥
अंशभेदेन क्वचित् निरुक्तां क्वचिदनिरुक्ताम् इव गायेत् । हि
यस्मात् अयं समानः प्राणो निरुक्तोऽनिरुक्त इव क्वचित् स्पष्टः क्वचिदस्पष्ट
इव शरीरे वर्तते ॥ २४ ॥
षष्ठ्यां धर्मान्तरमाह—
या षष्ठी तामुदासमिव गायेत् । उदस्त इव
ह्ययमुदानो यच्छृङ्गम् ॥ २५ ॥
ताम् ऋचं षडक्षरपर्यन्तम् उदासं गायेत् । अयम् उदानाख्यः प्राणः
उदस्तः ऊर्ध्वमाकृष्ट इव भवति । यद् यस्मात् शृङ्गम् उन्नतम् ॥ २५ ॥
3. Bh add अवाङ् after अयं
10. Bh J निरुक्तं...अनिरुक्तं for निरुक्तामनिरुक्तां.
16. Bh. om. या षष्ठी...धर्मान्तरमाह (p. 78. l. 1).
18. J. om. ताम् ऋचं...धर्मान्तरमाह (p. 78. l. 1).

बहिष्पवमानोत्तमायामृचि धर्मान्तरमाह—
रथन्तरवर्णामुत्तमां गायेत् । इयं वै रथन्तरमस्यामेव
प्रतितिष्ठति ॥ २६ ॥
उत्तमाम् ऋचं रथन्तरवर्णां रथन्तरस्येव वर्णचतुष्टयोपेतां गायेदित्यर्थः ।
एतत् सर्वं व्याख्यातचरमिति । नात्र पुनरुक्ति शङ्कनीया । पूर्वखण्डविवरणरूप-
त्वादस्य खण्डस्येति ॥ २७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥
4. MJK रथन्तरस्यैव for रथन्तरस्येव J. वर्तमान० for वर्ण०.
5. M. व्याख्यानान्तरम् for व्याख्यातचरम्.

तृतीयः खण्डः
आख्यायिकया धुरः प्रशंसितुमुपक्रमते—
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त । ते देवाः
प्रजापतिमुपाधावन् ॥ १ ॥
पुरा देवाश्चासुराश्च एषु पृथिव्यादिषु लोकेषु विषयेषु अस्पर्धन्त ।
तत्र ते असुरेभ्यः स्पर्धमानाः इन्द्रादयो देवाः प्रजापतिमुपाधावन्
उपागमन् ॥ १ ॥
ततः किमित्यत्राह—
तेभ्य एतान् धुरः प्राणान् प्रायच्छत् । मनः
प्रथममथ प्राणमथ चक्षुरथ श्रोत्रमथ वाचम् ॥ २ ॥
प्रजापतिः तेभ्य एतान् वक्ष्यमाणान् धुरः धूरात्मकान् प्राणान्
प्रायच्छत् । एतदेव विशिनष्टि—प्रथमं मनः । अथ अनन्तरं प्राणं मुख्यम् ।
ततश्चक्षुरथ श्रोत्रमथ वाचमिति ॥ २ ॥
ततोऽपि किमित्यत्राह—
ताभ्यः पञ्चभ्यो धूर्भ्यः पुरुषं च पशूंश्च
निरमिमीत ॥ ३ ॥
तेभ्यो मनआदिरूपेभ्यो धूर्भ्यः पुरुषं च पशूंश्च निरमिमीत
उत्पादितवान् ॥ ३ ॥

  1. SIR. अग्रे, M. एते for ते.
  2. RSI. add प्राणान् after धुरः.
  3. Bh MTK om. एतदेव; J. तद् for एतदेव.

८० षड्विंशब्राह्मणम्

अस्तेष्वम् । किं तत् इत्यत्राह--
तेन पुरुषेणासुरानधूर्वन् । यदधूर्वंस्तद्धुरां धूस्त्वम् ।
धूर्वति पाप्मानं भ्रातृव्यं य एवं वेद ॥ ४ ॥
तेन धूर्भ्यो निर्मितेन पुरुषेण देवा असुरान् अधूर्वन् अवधिषुः ।
यद् यस्माद् अधूर्वंस्तत् ततो धुरां धूस्त्वम् अभूत् । य एवम् उक्तरीत्या
धुरां स्वरूपं वेद सोऽपि भ्रातृव्यं शत्रुरूपं पाप्मानं धूर्वति हिनस्तीति ॥ ४ ॥
पुनरपि प्रकारान्तरेण धुरः प्रशंसति--
यो वै धुरां धूस्त्वं वेद धुरा धुरा भ्रातृव्याद्धसीयान्
भवति । एतद्वै धुरां धूस्त्वं यन्नानावीर्या नानारूपा नाना-
छन्दस्या नानादेवत्याः समानं हिंकारमभिसंपद्यन्ते । एतद्वै
धुरां धूस्त्वम् । धुरा धुरा भ्रातृव्याद्धंसीयान् भवति । य एवं
वेद । ५ ॥
यः खलु धुरां यथोक्तं धूस्त्वं वेद स भ्रातृव्याद् शत्रोः सकाशात्
आहृतया धुरा धुरा अनेकधनभारैः वसीयान् अतिशयेन वसुमान् भवति ।
किं च, एतद्वै एतदेव धुरां धूस्त्वं यन्नानारूपा नानावीर्या नानाछन्दस्याः
गायत्र्यादिभेदेन, नानादेवत्याः प्राजापत्यादिदेवताभेदेन धुरः समानं हिंकारम्
अभिसंपद्यन्त इति । यत् एतद्वै धुरां धूस्त्वम् इति उक्तस्यैवानुवादः । किं च,
य एवं वेद सोऽपि धुरा धुरा भ्रातृव्याद् वसीयान् भवतीति ॥ ५ ॥
धूर्षु महाव्रतदृष्टिफलं दर्शयति--
यो वै धूर्षु महाव्रतं वेद सर्वा अस्मिन् पुण्या
वाचो वदन्ति ॥ ६ ॥


  1. M. उत्तरत्रापि for उक्तरीत्या.
  2. RJI धूर्वति पाप्मानं भ्रातृव्यं for धुरा धुरा भ्रातृव्याद्धसीयान् भवति.
  3. J. इति । एता एवानुवदन् धूर्वतीत्यादि भ्रातृव्याद् धुरा for
    इत्यु...त्यैवा०....भ्रातृव्यात्.

[Header] द्वितीयोऽध्यायः (३) ८१

यो वै य एवोद्गाता धूर्षु यथोक्तासु महाव्रतं वेद महाव्रतस्तोत्रदृष्टिं
कुर्यात् अस्मिन् ज्ञातारि सर्वाः प्रजाः पुण्याः स्तुतिरूपा वाचो वदन्ति ।
प्रथितकीर्तिर्भवेदित्यर्थः ॥ ६ ॥
तत्रैव विशेषमाह--
शिरो गायत्र्युरस्त्रिष्टुप् मध्यं जगती पादावनुष्टुप्
सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवं वेद ॥ ७ ॥
तत्र गायत्री शिर इति, त्रिष्टुबुर इति, जगती मध्यमिति, अनुष्टुप्
पादानित्येवं यो वेद अस्मिन् पुण्या वाचो वदन्तीति ॥ ७ ॥
एवं विदुषो गायत्र्यादिषु सप्रशंसं व्रतं दर्शयति--
यो वा एवं धुरो विद्वानथासां व्रतं चरत्यागमि-
ष्यतोऽस्य पूर्वेद्युः पुण्या कीर्तिरागच्छति ॥ ८ ॥
अथशब्दो वाक्यालंकारार्थः । य एवं यथोक्तप्रकारेण धुरो विद्वान्
जानन् आसां गायत्र्यादीनां धुरां व्रतं तद्विषयं नियमं चरति । यत्र यत्रा-
गमिष्यतोऽस्य पूर्वेद्युः पुरस्तादेव पुण्या कीर्तिरागच्छतीति ॥ ८ ॥
किं तद्व्रतम् ? तत्राह--
सुरभिरेव गन्धो गायत्र्या व्रतम् । दर्शनीयं त्रिष्टुभः ।
श्रवणीयं जगत्याः । यदेव वाचा पुण्यं वदति तदनु-
ष्टुभः । तदु सर्वासां व्रतम् ॥ ९ ॥
सुरभिरेव गन्धो घ्रातव्य इति गायत्र्या व्रतं तद्विषयो नियमः । अनुकूल-
मेव द्रष्टव्यमिति त्रिष्टुभो व्रतम् । चक्षुःप्राणत्वात् त्रिष्टुभः । श्रवणीयंमेव
श्रोतव्यमिति जगत्याः । श्रोत्रप्राणत्वात् तस्याः । यदेव पुण्यं तद् एव वाचा
वदतीति अनुष्टुभो व्रतम् । वाक्प्राणत्वात् अनुष्टुभः । तदु तदेव सर्वासां
चतसृणां व्रतमिति ॥ ९ ॥


  1. MT अस्य तस्मिन् for अस्मिन्.
  2. MS add हि after जगत्याः.
  3. MSR om. एव.
    प० 6