षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 73, कुल 226 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः (२) ७३
प्रथमम् । व्यतिषक्तौ प्राणापानौ प्रजा दधतो गायत्री छन्दो
युज्यते । प्राणापानौ धीयेते ॥ ९ ॥
तस्य बहिष्पवमानस्य या द्वितीया तामागां गेयत्वेन प्राप्तां गायत्रीं
गायन् । उद्गाता तस्या ऋचो द्वे अक्षरे सशयनी । सह शयात इति
सशयनी । व्यतिषजति । कथं ? मध्यमस्य च पदस्य उत्तमम् अक्षरम्
उत्तमस्य च पदस्य प्रथमम्--अथर्वाणो अशिश्रादेयुर्वन्देवायदे (सा.
562ᵇᶜ) इति । अन्यत् पूर्ववत् ॥ ९ ॥
तृतीयायां विशेषानाह--
या तृतीया तां त्रिष्टुभमागां गायंस्तस्या द्वे
उत्तमार्धेऽक्षरे द्योतयति । चक्षुरेव तद्युनक्ति । तस्माद्विरूपं
चक्षुः कृष्णमन्यच्छुक्लमन्यत त्रिष्टुप् छन्दो युज्यते । चक्षुषी
धीयेते ॥ १० ॥
या तृतीया तां त्रिष्टुभं गायन् । तस्या अन्तिमार्धर्चे हिङ्कारात्
पूर्वम् ऊर्ध्वं वा द्वे अक्षरे द्योतयति । निरुक्तं गायेदित्यर्थः । स्पष्टमन्यत् ॥१०॥
चतुर्थ्यां विशेषान् दर्शयति--
या चतुर्थीं तां जगतीमागां गायंस्तस्याश्चत्वा-
र्युत्तमार्धेऽक्षराणि द्योतयति । श्रोत्रमेव तद्युनक्ति ।
तस्माद्युक्तं श्रोत्रम् । श्रोत्रे द्वे प्रतिश्रवणे द्वे । तस्मादपि
पराङ् यन् प्रत्यङ् शृणोति । जगती छन्दो युज्यते । श्रोत्रे
धीयेते ॥ ११ ॥
3. Bh MTKI om. बहिष्पवमानस्य; RKMI प्राप्तौ for प्राप्तां.
6. RTKSI पादस्य for पदस्य; RJ Bh आशिश्रयुर्देवं देवाय देवयुः
for अशिश्रादेयुः...दा; S. Corrupt.
8. J om. तृतीयां...आह; Bh. विशेषानाह.
14. Bh J om. पूर्वे; TK. om. ऊर्ध्वं.