षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 76, कुल 226 में से
संदर्भ में पढ़ें[header] ७६ षड्विंशब्राह्मणम्
चतुर्थ्या निधनमाह—
इडेति चतुर्थ्याः । पशवो वा इडा । पशुष्वेव
प्रतितिष्ठति ॥ १७ ॥
इडेति चतुर्थ्या निधनं कुर्यात् । पशवः खलु इडा भोग्यत्वात् । तेन
पशुष्वेव प्रतितिष्ठति । पशुमान् भवतीत्यर्थः ॥ १७ ॥
पञ्चम्या निधनं विधत्ते—
वागिति पञ्चम्याः । सर्वा अस्मिन् पुण्या वाचो
वदन्ति ॥ १८ ॥
पञ्चम्या ऋचो वागिति निधनं कुर्यात् । तेनास्मिन् निधनस्य
कर्तरि सर्वाः प्रजाः पुण्याः स्तुतिरूपा वाचो वदन्ति ॥ १८ ॥
यथोक्तस्य वेदितारं प्रशंसति—
य एवं वेद ॥ १९ ॥
यः पुमान् एवं निधनानि वेद सोऽपि यथोक्तफलं लभत इति
शेषः ॥ १९ ॥
अथ तास्वेव धर्मान्तराणि कथ्यन्ते । तत्र प्रथमायां तावद् विशेषमाह—
या प्रथमा तामायच्छन्निव गायेत् । आयत इव
ह्ययमवाङ् प्राणः ॥ २० ॥
या प्रथमा तामायच्छन् प्लुतोच्चारणेन विस्तारयन्निव गायेत् । हि
यस्मात् अयं प्रसिद्धोऽवाङ् अधोवर्ती प्राण आयत इव भवति ॥ २० ॥
द्वितीयायां धर्मान्तरं विधत्ते—
या द्वितीया तां घोषिणीमिव गायेत् । घोषीव
ह्ययमपानः ॥ २१ ॥
घोषिणीं घोषवतीमिव गायेत् । स्पष्टमन्यत् ॥ २१ ॥
- Bh स्थानि०, J. स्वामि० for स्तुति०; R om. ०रूपा.