षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 80, कुल 226 में से
संदर्भ में पढ़ें८० षड्विंशब्राह्मणम्
अस्तेष्वम् । किं तत् इत्यत्राह--
तेन पुरुषेणासुरानधूर्वन् । यदधूर्वंस्तद्धुरां धूस्त्वम् ।
धूर्वति पाप्मानं भ्रातृव्यं य एवं वेद ॥ ४ ॥
तेन धूर्भ्यो निर्मितेन पुरुषेण देवा असुरान् अधूर्वन् अवधिषुः ।
यद् यस्माद् अधूर्वंस्तत् ततो धुरां धूस्त्वम् अभूत् । य एवम् उक्तरीत्या
धुरां स्वरूपं वेद सोऽपि भ्रातृव्यं शत्रुरूपं पाप्मानं धूर्वति हिनस्तीति ॥ ४ ॥
पुनरपि प्रकारान्तरेण धुरः प्रशंसति--
यो वै धुरां धूस्त्वं वेद धुरा धुरा भ्रातृव्याद्धसीयान्
भवति । एतद्वै धुरां धूस्त्वं यन्नानावीर्या नानारूपा नाना-
छन्दस्या नानादेवत्याः समानं हिंकारमभिसंपद्यन्ते । एतद्वै
धुरां धूस्त्वम् । धुरा धुरा भ्रातृव्याद्धंसीयान् भवति । य एवं
वेद । ५ ॥
यः खलु धुरां यथोक्तं धूस्त्वं वेद स भ्रातृव्याद् शत्रोः सकाशात्
आहृतया धुरा धुरा अनेकधनभारैः वसीयान् अतिशयेन वसुमान् भवति ।
किं च, एतद्वै एतदेव धुरां धूस्त्वं यन्नानारूपा नानावीर्या नानाछन्दस्याः
गायत्र्यादिभेदेन, नानादेवत्याः प्राजापत्यादिदेवताभेदेन धुरः समानं हिंकारम्
अभिसंपद्यन्त इति । यत् एतद्वै धुरां धूस्त्वम् इति उक्तस्यैवानुवादः । किं च,
य एवं वेद सोऽपि धुरा धुरा भ्रातृव्याद् वसीयान् भवतीति ॥ ५ ॥
धूर्षु महाव्रतदृष्टिफलं दर्शयति--
यो वै धूर्षु महाव्रतं वेद सर्वा अस्मिन् पुण्या
वाचो वदन्ति ॥ ६ ॥
- M. उत्तरत्रापि for उक्तरीत्या.
- RJI धूर्वति पाप्मानं भ्रातृव्यं for धुरा धुरा भ्रातृव्याद्धसीयान् भवति.
- J. इति । एता एवानुवदन् धूर्वतीत्यादि भ्रातृव्याद् धुरा for
इत्यु...त्यैवा०....भ्रातृव्यात्.