षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 77, कुल 226 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः (२) ७७
तृतीयायां धर्मान्तरं विधत्ते—
या तृतीया तामुद्यच्छन्निव गायेत् । उद्यत इव
ह्ययं प्राणः ॥ २२ ॥
उद्यच्छन् प्रयत्नेनोर्ध्वं गमयन्निव । व्याख्यातप्रायमन्यत् ॥ २२ ॥
चतुर्थ्यां धर्मान्तरमाह—
या चतुर्थीं तां निक्रीडयन्निव गायेत् । निक्रीडित
इव ह्ययं व्यानः ॥ २३ ॥
व्याख्यातचरमेतत् ॥ २३ ॥
पञ्चम्यां धर्मान्तरमाह—
या पञ्चमी तां निरुक्तामनिरुक्तामिव गायेत् ।
निरुक्तोऽनिरुक्त इव ह्ययं समानः ॥ २४ ॥
अंशभेदेन क्वचित् निरुक्तां क्वचिदनिरुक्ताम् इव गायेत् । हि
यस्मात् अयं समानः प्राणो निरुक्तोऽनिरुक्त इव क्वचित् स्पष्टः क्वचिदस्पष्ट
इव शरीरे वर्तते ॥ २४ ॥
षष्ठ्यां धर्मान्तरमाह—
या षष्ठी तामुदासमिव गायेत् । उदस्त इव
ह्ययमुदानो यच्छृङ्गम् ॥ २५ ॥
ताम् ऋचं षडक्षरपर्यन्तम् उदासं गायेत् । अयम् उदानाख्यः प्राणः
उदस्तः ऊर्ध्वमाकृष्ट इव भवति । यद् यस्मात् शृङ्गम् उन्नतम् ॥ २५ ॥
3. Bh add अवाङ् after अयं
10. Bh J निरुक्तं...अनिरुक्तं for निरुक्तामनिरुक्तां.
16. Bh. om. या षष्ठी...धर्मान्तरमाह (p. 78. l. 1).
18. J. om. ताम् ऋचं...धर्मान्तरमाह (p. 78. l. 1).