सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 74, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 74

७४ षड्विंशब्राह्मणम्

तां जगतीभागां गायन् तस्या उत्तरार्धे चत्वारि अक्षराणि ।
हिंकारात् पूर्वं द्वे उपरिष्टाद् द्वे अक्षरे इति चत्वारि । सोमाः शुक्रा इति वा
चत्वार्यक्षराणि । द्योतयति । अन्यद्व्याख्यातम् । पूर्वखण्डेऽभिहितस्यार्थस्यात्राभि-
धानेन न पुनरुक्तिदोषः । विशेषान्तरविधानायानूद्यमानत्वात् ॥ ११ ॥
पञ्चम्यां विशेषानाह —
या पञ्चमी तामनुष्टुब्भागां गायंश्चतुर्धा व्यावृत्य
गायेत् । चतुर्धा वा इदं पुरुषो वीर्याय विकृतो जायते ।
वीर्यायैवैनां तद्व्यावृत्य गायति । उच्चावचामिव गायेत् ।
उच्चावचैव हि वाक् । संक्ष्णुत्येव गायेत् । संक्ष्णुत्येव हि वाचं
पुरुषो वदति । अनुष्टुप् छन्दो युज्यते । वाग् धीयते ॥१२॥
या पञ्चमी तामनुष्टुब्भागां गेयत्वेन प्राप्तां गायन् । चतुर्धा व्यावृत्य
चतुष्खण्डां कृत्वा गायेत् । यत एव लोके इदं प्रसिद्धं [यत्] पुरुषः
चतुर्धा पादमध्यहस्तशिरोरूपैश्चतुर्भिर्भागैः विकृतः सन् वीर्याय जायते
समर्थो भवतीति । तत एव एनाम् अनुष्टुभमृचं चतुर्धा व्यावृत्य वीर्याय
बलार्थमेव गायति । किं च, उच्चावचामिव एतामृचमंशभेदेन निरुक्तामनिरुक्ता-
मिव गायेत् । हि यस्मात् वाक् उच्चावचैव व्यवहाराय भवति । अपि च,
संक्ष्णुत्येव क्ष्णुते जने निशितामिव गायेत् । हि यस्मात् पुरुषो लोके
संक्ष्णुत्येव विस्पष्टमेव यथा भवति तथा वाचं वदति । किं च, अत्र अनुष्टुप्
छन्दो युज्यते । वाक् प्राणत्वेन धीयते । प्रजापतिनेति शेषः ॥ १२ ॥


पादटिप्पण्यः (Footnotes):

  1. J trans. उत्तरार्धे after अक्षराणि.
  2. M Bh JRSI व्यावृत्त्य for व्यावृत्य.
  3. Bh J om. अनुष्टुभम...प्राप्तां.
  4. J चतुरचनर्दा for चतुष्खण्डां ; RTSI add अयं SK यं after इदं.
  5. RSI ताम for एताम् ; RI मतभेदन, KS अभेदेन for अंशभेदेन.
  6. ऽक्तानिरुक्तम् for निरुक्ताम०...
  7. निशितम् for निशिताम.