षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 75, कुल 226 में से
संदर्भ में पढ़ें[Header] द्वितीयोऽध्यायः (२) ७५
अथ षष्ठ्यां विशेषान् दर्शयति—
या षष्ठी तां पङ्क्तिमागां गायंस्तस्या द्वे द्वे अक्षरे
उदासं गायत्याषड्भ्योऽक्षरेभ्यः । षडृतवः ऋतुष्वेव
प्रतितिष्ठति । पङ्क्तिश्छन्दो युज्यते । समानोदानौ
धीयेते ॥ १३ ॥
एषा ऋक् छन्दसा पङ्क्तिः ज्ञेयेत्यर्थः । समानोदानौ प्राणत्वेन
धीयेते । शिष्टं व्याख्यातचरमिति ॥ १३ ॥
अथ बहिष्पवमाने धुरो निधनानि कथ्यन्ते । तत्र रेतस्याया निधनं
दर्शयति—
सदिति प्रथमाया धुरो निधनम् । रेतसो ह्यधि
सज्जायते ॥ १४ ॥
प्रथमाया धुरो सदिति निधनं कुर्यात् । हि यस्मात् रेतसोऽधि ।
अधिशब्दः सप्तम्यर्थद्योतनार्थः । रेतसि सद्रूपेण जगत् जायते ॥ १४ ॥
द्वितीयाया निधनं दर्शयति—
समिति द्वितीयायाः । रेतसो ह्यधि संभवः ॥ १५ ॥
समिति निधनं द्वितीयायाः कुर्यात् । हि यस्मात् रेतसो अधि विश्वस्य
संभवः इत्यर्थः ॥ १५ ॥
तृतीयायाः निधनं दर्शयति—
स्वरिति तृतीयायाः । प्र स्वर्गं लोकं जानाति ॥ १६ ॥
स्वरिति तृतीयाया निधनं कुर्यात् । तेन स्वर्गं लोकं
प्रजानाति ॥ १६ ॥
- RTKJ षष्ठ्या for षष्ठयां
- Bh TJ add अत्र पङ्क्तिश्छन्दो युज्यते after धीयेते.
- Bh I छन्दसां for छन्दसा; J adds सा after पङ्क्तिः.
- RKSL om. धुरो.