समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
३० समराङ्गणसूत्रधारे
न क्षुद्रा 'वन्दिनो यस्यां दुर्गप्रत्यन्तसंश्रयाः ।
भूः साश्रेणीमनुष्येति विनीतैराश्रिता जनैः ॥ २० ॥
मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः ।
भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥ २१ ॥
जीवन्ति क्षेत्रिणो यस्यां न(दी ? द)नद्यादिवारिभिः ।
तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ॥ २२ ॥
निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः ।
कृष्टानुपहतक्षेत्रा धान्या सा धान्यशालिनी ॥ २३ ॥
पर्यन्तेष्वद्रयो यस्यां या च हस्तिवनाश्रिता ।
सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥ २४ ॥
दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः ।
विषमाद्रिसरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥ २५ ॥
षोडशेत्युदिता भूम्यः प्रविभागाद् यथातथम् ।
अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥ २६ ॥
धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलतावृतैः ।
उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरैः ॥ २७ ॥
तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः ।
नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ॥ २८ ॥
कोकिलालापसुभगैर्मधुमत्तालिशालिभिः ।
विचित्रफलपुष्पाढ्यैः काननै रुपशोभिताः ॥ २९ ॥
दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः ।
सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥ ३० ॥
समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः ।
क्षेत्रैरक्षतसीमान्तैः सस्यनिष्पादिभिर्वृताः ॥ ३१ ॥
निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः ।
विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ॥ ३२ ॥
१ क. द. वृन्दिनो । २ द. ग. ˚नान्विता ।
भूमिपरीक्षा नामाष्टमोऽध्यायः । ३१
स्थले तृणसमुद्राणामन्तरेषु वसुन्धराः ।
प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥ ३३ ॥
दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः ।
संरम्भत्रासनिर्मुक्तं मनश्च रमयन्ति याः ॥ ३४ ॥
तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत् ।
यथास्थानं जनपदान् खेटग्रामपुरादि च ॥ ३५ ॥
युता महीध्रमूला(स्व ? म्वु)प्राकारैस्तु पृथक्पृथक् ।
चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥ ३६ ॥
दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः ।
२समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥ ३७॥
कण्टकिद्रुमनीरन्ध्रनद्धे ३साम्भसि कानने ।
गूढप्रवेशमार्गे भूर्भूलदुर्गेति कीर्तिता ॥ ३८ ॥
द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः ।
रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥ ३९ ॥
स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः ।
बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥ ४० ॥
४दूर्वास(स्त्वौ ? स्यौ)षधीमुञ्जकुरुन्दकुशवल्कलैः ।
परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥ ४१ ॥
वास्तुयज्ञामरस्थानाद्यारामोद्यानसम्भृताः ।
तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥ ४२ ॥
या वाहनानां सुखदा मिथुनानां रतिप्रदाः ।
पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥ ४३ ॥
कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः ।
सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥ ४४ ॥
१ द. मूलास्व; क. मूलाम् । २ शा. समपृष्ठेन्दु( ?)युक्तेऽद्रौ; क. समपृष्ठेऽम्बुयुक्तादौ; द. समपृष्ठे
तु युक्तोदौ । ३ द. नद्धे साम्भसि; क. ॰तीराम्बुनद्धे॰ । ४ क. दुर्वाशखौषधी॰; द. पूर्वास्तस्तौषधी॰ ।
३२ समराङ्गणसूत्रधारे ।
कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः ।
स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥ ४५ ॥
गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक् ।
समानगन्धा मदिरामाध्वीकेभमदासवैः ॥ ४६ ॥
शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा ।
प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥ ४७ ॥
सिता रक्ता च पीता च कृष्णा१ चैव क्रमान्मही ।
विप्रादीनां हि वर्णानां सर्वेषामथवा हिता ॥ ४८ ॥
स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् ।
वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥ ४९ ॥
घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे ।
प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥ ५० ॥
मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ ।
२द्विपाश्वाब्धिसमस्वाना चेति स्युर्भूमयः शुभाः ॥ ५१ ॥
इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे ।
पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥ ५२ ॥
भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः ।
मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥ ५३ ॥
रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा ।
वामावर्तजलास्राविण्यसारा विषमोन्नता ॥ ५४ ॥
कटुकण्टकिनिःसारशुष्कनिष्फलपादपा ।
क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥ ५५ ॥
सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् ।
यस्यां विनाशमायान्ति सह तूर्यादिनिखनैः ॥ ५६ ॥
सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत् ।
बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥ ५७ ॥
१. द. कृष्टे चेति । २. क. द्विपांश्वाब्धिसम°; द. द्विपादौप्यसमस्थाना (?) ।
भूमिपरीक्षा नामाष्टमोऽध्यायः ३३
वसासृङ्मज्जविण्मूत्रमलको(थ ? श)पतत्रिणाम् ।
समगन्धां त्यजेदुवीं तैलस्य च शवस्य च ॥ ५८ ॥
सदैव धूम्रवर्णा या मिश्रवर्णाथवा मही ।
विवर्णा रूक्षवर्णा वा सा न स्यादिष्टदायिनी ॥ ५९ ॥
तिक्ताम्ललवणा चापि भूमिर्या १खादनो भवेत् ।
तां लोकविद्वेषकरीं त्यजेत् पुरनिवेशने ॥ ६० ॥
या रूक्षखरसंस्पर्शा सदैवोष्णा हिमाथवा ।
अनिष्टसुखसंस्पर्शा या स्यात् तामपि सन्त्यजेत् ॥ ६१ ॥
क्रोष्टूष्ट्रखरस्वाना या च निर्झरनिस्वना ।
भिन्नभाण्डसमक्रूरध्वनितापि च नेष्यते ॥ ६२ ॥
इति गन्धादिभिर्भूमिः कथितेयं शुभाशुभा ।
हलेन कृष्यमाणायां भूमौ काष्ठे समुद्धृते ॥ ६३ ॥
विद्याद् भयं वह्निभवमिष्टकायां धनागमम् ।
पाषाणेषु तु कल्याणं कुलप्रध्वंसमस्थिषु ॥ ६४ ॥
सरीसृपेषु सर्वेषु स्तेनेभ्यो भयमादिशेत् ।
अनूषरा बहुतृणा शस्ता स्निग्धोत्तरप्लवा ॥ ६५ ॥
प्रागीशानप्लवा सर्वप्लवा वा दर्पणोदरा ।
शुभेऽह्न्युपोषितः स्नातः शुचिः शुक्लस्रगम्बरः ॥ ६६ ॥
स्वस्ति विप्रान् वाचयित्वा वास्तुदेवान् समर्च्य च ।
करप्रमाणं कुर्वीत खातं तद्भूमिमध्यगम् ॥ ६७ ॥
ततस्तन्मृदमाकृष्य तत् तयैवानुपूरयेत् ।
खाताधिकमृदुक्ता भूः श्रेष्ठा मध्या च तत्समा ॥ ६८ ॥
प्रहीणखातमृत् क्षोणी हीना शस्ता न सा नृणाम् ।
खन्यमाने यदा खाते तन्मृदोऽन्तर्विलोक्यते ॥ ६९ ॥
मणिशङ्खप्रवालादि तदातिश्रेयसी क्षितिः ।
सापि प्रशस्यते भूमिर्यस्यां स्युः खातपांसवः ॥ ७० ॥
१ क. ख. ग. द. स्वादनो ।
वा. ५
३४ समराङ्गणसूत्रधारे
तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः ।
भृत्वाद्भिः खातमापूर्णे तस्मिन् पदशतं व्रजेत् ॥ ७१ ॥
तावच्चेदौगमेऽम्भः स्यात् तदा भूः सार्वकामिकी ।
मध्यमात्रप्रहीणे स्यात् ततो हीनतरेऽधमा ॥ ७२ ॥
खाते सितादिमाल्यानि यस्यां निन्युषितानि च ।
यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥ ७३ ॥
खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा ।
दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा ॥ ७४ ॥
इत्येवं कीर्त्तिताः कार्त्स्न्याल्लक्ष्मभिः पुरभूमयः ।
खर्वटग्रामखेटानामेता एव स्मृता हिताः ॥ ७५ ॥
वर्णिनां वर्णधाम्नां च शिबिराणां च सर्वदा ।
प्रासादयज्ञवाटानामेता एवेष्टदा भुवः ॥ ७६ ॥
इत्येवमादिभिरिमाः शुभलक्ष्मयुक्ता
भूम्यः शुभा निगदिता नगरादिहेतोः ।
आभ्यः परेण बहुधा परिकल्प्यमानं
ब्रूमस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥ ७७ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
भूमिपरीक्षा नामाष्टमोऽध्यायः ॥
अथ हस्तलक्षणं नाम नवमोऽध्यायः ।
हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् ।
मानोन्मानविभागादिनिर्णयैकनिबन्धनम् ॥ १ ॥
परिध्युदयविस्तारदैर्ध्याणां स्युरमी यतः ।
ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥ २ ॥
इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् ।
कथ्यते २त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥ ३ ॥
१ क. दागतेऽम्भ(:)स्यात् । २ ख. ग. विविधं ।
हस्तलक्षणं नाम नवमोऽध्यायः । ३५
रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः ।
भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥ ४ ॥
अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः ।
ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥ ५ ॥
सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता ।
करस्यार्धं चतुःपर्व शेषं स्याद् भक्तमङ्गुलैः ॥ ६ ॥
तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूषिताः ।
शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥ ७ ॥
अत्रार्धे मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् ।
१मध्यं त्रिधाष्टमं कार्यं चतुर्था द्वादशं ततः ॥ ८ ॥
हस्तः स्वाङ्गुलमानेन विधेयाङ्गुल(मि ? इ)ष्यते ।
तत् सार्धं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥ ९ ॥
कथितः करभेदोऽयमङ्गुलानां विभेदतः ।
तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥ १० ॥
खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् ।
सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥ ११ ॥
ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं२ तथा ।
अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते ॥ १२ ॥
त्रिविधस्याप्यथैतस्य पर्वरेखासु देवताः ।
†३मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥ १३ ॥
*ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् ।
वायुर्धनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥ १४ ॥
१ ख. ग. द. मध्यात् । २ द. विस्फटितं । ३ द. मूलां ।
† ‘ मध्यपर्वत एकस्मिन् पार्श्वगणनया प्रान्तसंयुक्तानि चत्वारि पर्वाणि भवन्ति । मध्यादेव
परस्मिन् पार्श्वे समध्यमपर्वत्वात् पञ्च भवन्ति ’ ।
- ‘ मध्ये ब्रह्मा । ततो वामे पर्वणि वह्निः दक्षिणे पर्वणि यमः, पुनर्वामे विश्वकर्मा दक्षिणे वरुणः,
पुनर्वामे वायुः दक्षिणे धनदः, पुनर्वामे रुद्रो दक्षिणे विष्णुः । ततस्तु क्रमेण गणनायां रुद्रो वायुर्विश्वकर्मा
वह्निर्विधाता कालस्तोयेशः कुबेरो विष्णुरिति पर्वदेवता भवन्ति ’ इति टिप्पणमिह दत्तमस्ति ।
३६ समराङ्गणसूत्रधारे
वास्तुद्रव्यविभागेषु यानेषु च विशेषतः ।
प्रारभेत यतो मानं कल्पयेद् देवतास्ततः ॥ १५॥
विद्धैश्च द्रव्यमध्यैश्च देवताभिश्च १पीडिते ।
प्रत्येकं त्रिदशस्थाने यथोक्तं फलमादिशेत् ॥ १६॥
शिरोर्त्तिरनलप्लोषो मरणं स्थपतेर्वधः ।
२अतिसारो मरुद्व्याधिरर्थभ्रंशो भयं नृपात् ॥ १७॥
कुलपीडा च महती कर्तृकारक३योरिति ।
यथाक्रमममी दोषा ब्रह्मादीनां निपीडनात् ॥ १८॥
ब्रह्मानलकयोर्मध्ये यदा हस्तं तु ४धारयेत् ।
कर्मस्वधिगतस्तेषां पुत्रलाभो भविष्यति ॥ १९॥
कर्मणः सुष्ठुनिष्पत्ति(स्तिष्ठतेभोग ? स्थपतेर्भोग्य)मक्षयम् ।
ब्रह्मा यमस्तयोर्मध्ये यदा हस्तं तु धारयेत् ॥ २०॥
कर्ता सशिल्पिकश्चैव(अ ? न)चिरेण५ विनश्यति ।
विश्वानलकयोर्मध्ये हस्तसूत्रं यदा धृतम्६ ॥ २१॥
७सु(ष्ठु)कर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता ।
यमजलदयोर्मध्ये मध्यमं च विनिर्दिशेत् ॥ २२॥
पवनो विश्वकर्मा चोभयोर्मध्ये च धारणम् ।
यदा तु तत्र कर्मान्तं ८शुभं तत्सर्वकामदम् ॥ २३॥
९नीरधनदयोर्मध्ये मध्यमं च विनिर्दिशेत् ।
एषां मध्ये यदा वत्सहस्तं तत्र यदा धृतम्१०(?) ॥ २४॥
अनावृष्टिभयं लोके देशभङ्गो न संशयः ।
रुद्रपवनयोर्मध्ये रुचिहस्तं तु धारयेत् ॥ २५॥
तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिर्न संशयः ।
विष्णुधनदयोर्मध्ये यदा पाणिकरा११र्यैतः ॥ २६॥
१ द. ख. ग. पीडितैः । २ द. प्रमीसारो । ३ द. क. ख. ॰योरपि । ४ क. कारयेत् । ५ द.
कर्तारो शिल्पिनश्चैव अचिरेण विनश्यति । ६ द. वृतम् । ७ द. क. सुमतिर्मणिमध्यान्तं । ८ द. शुभं तं
सर्वं°; क. शुभान्तं सर्वं° । ९ द. नीरदधन° । १० द. एषां मध्ये न हस्तं तत्र यदा वृतम् । ११ द. ख.
ग. काराप्रतः ।
हस्तलक्षणं नाम नवमोऽध्यायः । ३७
विविधास्तत्र भोगाश्च १प्रजायन्ते नरस्य हि ।
ज्येष्ठादीनामथैतेषां संज्ञाभेदो विधीयते ॥ २७ ॥
यच्च येन भवेद् द्रव्यं मेयं तदपि कीर्त्यते ।
यवाष्टकाङ्गुलैः क्लृप्तः प्रकर्षेणायतः किल ॥ २८ ॥
ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः ।
यः पुनः कल्पितः सप्तयवक्लृप्तैरिहाङ्गुलैः ॥ २९ ॥
तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः ।
मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते ॥ ३० ॥
तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः२ ।
विभागायामविस्ताराः खेटग्रामपुरादिषु ॥ ३१ ॥
प्रासादवेश्मपरिखाद्वाररथ्यासभादिषु ।
मार्गाश्च निर्गमाँ(?ये ?श्चै)षां सीमक्षेत्रान्तराणि च ॥ ३२ ॥
वनोपवनभागाश्च देशान्तरविभक्तयः ।
योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः ॥ ३३ ॥
प्राशयेन प्रमातव्याः खातक्रकचराशयः ।
तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः४ ॥ ३४ ॥
तथा दोलाम्बुशस्त्रादि पातमौनवनिर्णयम् ।
शैलखातँनिकेतानि सुरुङ्गामानमान्तरम् ॥ ३५ ॥
साधारणेन वास्थ्यध्वमानं च परिकल्पयेत् ।
आयुधानि धनुर्दण्डान् यानं शयनमासनम् ॥ ३६ ॥
प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम् ।
अरघट्टेक्षुयन्त्राणि युगयूपहलानि च ॥ ३७ ॥
शिल्प्युपस्करनौच्छत्रध्वजातोध्यानि यानि च ।
वृसीधर्मोपकरणपटवानादिकं च यत् ॥ ३८ ॥
१ द. ख. ग. सदा चैतस्य संभवेत् । २ द. षट्पञ्चाङ्गुलः । ३ द. ०श्चार्गमायेषां । ४ द. स्थितैः ।
५ द. पातयामानवनिर्णयम् ; क. ०तयामाननि० । ६ द. ख. ग. ०खातनेत्रोतानि । ७ द. सान्तरम् ।
८ द. ख. ग. परिकीर्तयेत् ।
३८ समराङ्गणसूत्रधारे
१नलवदण्डांस्तथा मात्राशयहस्तेन मापयेत् ।
भेदत्रयान्वितमपि प्रोक्तं हस्तस्य लक्षणम् ॥ ३९ ॥
संज्ञाभेदोऽथ सामान्यमानानां प्रतिपाद्यते ।
स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥ ४० ॥
पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याच्चतुरङ्गुला ।
तलं स्यात् पञ्चभिः षड्भिः करपादाङ्गुलैर्भवेत् ॥ ४१ ॥
सप्तभि( र्द्द ? र्दि )ष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते ।
प्रादेशो नवभिस्तैः स्याच्छयतालो दशाङ्गुलः ॥ ४२ ॥
गोकर्ण एकादशभिर्वितस्तिर्द्वादशाङ्गुला ।
चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः ॥ ४३ ॥
रत्निः स्यादेकविंशत्या स्यादरत्निः करोन्मितः ।
द्वाचत्वारिंशता किष्कुरङ्गुलैः परिकीर्त्तितः ॥ ४४ ॥
चतुरुत्तरयाशीत्या व्यामः स्यात् पुरुषस्तथा ।
षण्णवत्याङ्गुलैश्चापं भवेन्नाडीयुगं तथा ॥ ४५ ॥
शतं षडुत्तरं दण्डो नलवस्त्रिंशद्धनुर्मितः ।
क्रोशो धनुःसहस्रं तु गव्यूतं तद्द्वयं विदुः ॥ ४६ ॥
चतुर्गव्यूतं२मिच्छन्ति योजनं मानवेदिनः ।
एकं दश शतमस्मात् सहस्रमनु चायुतम् ॥ ४७॥
नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि ।
बृन्दखर्वनिखर्वाणि शङ्कुपद्माम्बुराशयः ॥ ४८ ॥
ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः ।
परार्धं चेति विज्ञेयं दशवृद्धयोत्तरोत्तरम् ॥ ४९ ॥
सङ्ख्यास्थानानि कथितान्येवमेतानि विंशतिः ।
इदानीं कालसङ्ख्यायाः प्रमाणमभिधीयते ॥ ५० ॥
दृङ्निमेषो निमेषः स्यात् तैः पञ्चदशभिः स्मृता ।
काष्ठा ताभिः कला ताभिर्मुहूर्त्तस्तैरहर्निशम् ॥ ५१ ॥
१ क. भल्लदं ; द. नव्वदं । २ ‘व्यूर्ति त’ । ३ ‘ति’ क. पाठः ।
पुरनिवेशो दशमोऽध्यायः । ३९
विंशतैतत् त्रिकं विद्यात् क्रमादित्यत्तरोत्तरम् ।
अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ॥ ५२ ॥
पक्षद्वयेन मासः स्याद् भवेन्मासद्वयाद्दृतुः ।
ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥ ५३ ॥
दशधायमिति प्रोक्तः कालः कालविदां वरैः ।
इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्ख्या ।
अन्तःपुरं जनपदामरधाममार्गैराचक्ष्महे नगरसंप्रविभागमत्र ॥ ५४ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
हस्तलक्षणं नाम नवमोऽध्यायः ॥
अथ पुरनिवेशो दशमोऽध्यायः ।
पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते ।
प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ॥ १ ॥
ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते ।
मध्यं द्वाभ्यां सहस्राभ्यामेकेन व्यासतोऽधमम् ॥ २ ॥
साष्टमांशं सपादं वा सार्धं वा व्यासमायतम् ।
कुर्यादेकैकमायामं चतुरास्त्रीकृतं शुभम् ॥ ३ ॥
चतुःषष्टिपदाख्येन पुरं सर्वं प्रकल्पयेत् ।
द्विरष्टकोष्ठं तत् कुर्यात् षट्पथं नवचत्वरम् ॥ ४ ॥
चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः ।
चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥ ५ ॥
वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते ।
राजमार्गः शुभः कार्यो मध्यमं वंशमाश्रितः ॥ ६ ॥
कार्यो ज्यायसि (च) ज्यायांश्चतुर्विंशतिकः करैः ।
विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥ ७ ॥
१ द. ग. मासास्थं । २ क. ॰विंशतिभिः ।
४० समराङ्गणसूत्रधारे
बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च ।
असम्बाधसमश्चैष कार्योऽयं काश्मशर्करः ॥ ८ ॥
महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः ।
तद् द्वादश दशाष्टौ स्यात् करान् ज्येष्ठादिकं त्रिषु ॥ ९ ॥
पदमध्यगतं कार्यं यानमार्गचतुष्टयम् ।
ज्येष्ठादिषु पुरेष्वेषु तत्पञ्च च चतुःकरम् ॥ १० ॥
उपरथ्या महामार्गस्यार्धं वा द्विशयाधिकम् ।
शेषा रथ्यास्तदर्धेन विधातव्याः प्रमाणतः ॥ ११ ॥
यानमार्गचतुष्कस्य कार्यों पार्श्वद्वयाश्रितौ ।
पदाष्टकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥ १२ ॥
पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ ।
मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥ १३ ॥
पुरस्यान्तर्गतौ कार्यों घण्टामार्गौ तथापरौ ।
राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥ १४ ॥
प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः ।
याम्योत्तरायतास्तद्वदन्ये स्युस्तत्प्रमाणतः ॥ १५ ॥
घण्टामार्गप्रमाणेण घण्टामार्गस्य बाह्यतः ।
समन्ततो वप्रभुवं स्थापयेत् तद्विधानवित् ॥ १६ ॥
महारथ्याप्रमाणेण तद्भूमेर्बाह्यतस्ततः ।
५व्यासखातान्तरैः सार्धं विधेयं परिखात्रयम् ॥ १७ ॥
खातोत्पादोज्झितं कार्यं सत्र्यंशेनार्धतोऽपि वा ।
व्यासतः स्यादशेषेण मूलतस्तद्वदेव तत् ॥ १८ ॥
कुर्याद् वप्रं स्वभूभागे परिखोत्खातया मृदा ।
सोत्सङ्गं गजपृष्ठं वा गोत्रीयपदताडितम् ॥ १९ ॥
१ द. असम्बाधः । २ क. चतुःप्रान्तं । ३ ख. ग. द. स्यार्धस्वादिसया० । ४ द. ख.
विधानवन् । ५ द. ख. ग. व्यासः ।
पुरनिवेशो दशमोऽध्यायः । ४१
खातोद्वृत्तमृदा वप्रनिर्माणधिकया ततः ।
भूप्रदेशान् पुरा निम्नानापूर्य समतां नयेत् ॥ २० ॥
एवं संशोध्य परिखात्रितयं परितोऽश्मभिः ।
विधेयमिष्टकाभिर्वा सम्यग्बद्धतलं स्थिरम्¹ ॥ २१ ॥
सिरावारिभिरापूर्णं पूर्णं वागागिनाम्भसा ।
विचित्राब्जमनोहारि ²ससंग्राहाम्बुनिर्गमम् ॥ २२ ॥
सर्वपार्श्वेष्वथैतस्य गन्धान्धमधुपाङ्गनान् ।
सुमनोविटपारामान् कुर्याद् ³वासान् समुत्सकान् ॥ २३ ॥
बाह्यभागं पुनस्तस्य विदध्यात् सर्वतोदिशम् ।
द्रुममूलैर्लताजालैः कण्टकैरपि संवृतम् ॥ २४ ॥
वप्रोर्ध्वभागगं मध्यं स्थूलोपलशिलाचितम् ।
कुर्यात् प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ॥ २५ ॥
⁴ज्यायान् करैर्द्वादशभिर्दशभिर्मध्यमः स्थितः ।
कनीयानष्टभिर्हस्तैर्विस्तारः⁵ स्यात् त्रिधेत्यसौ ॥ २६ ॥
उच्छ्रायः सप्तदशभिः करैर्ज्यायान् प्रशस्यते ।
मध्यमः पञ्चदशभिस्त्रयोदशभिरन्तिमः ॥ २७ ॥
ऊर्ध्वं न सप्तदशकान्न त्रयोदशकादधः ।
प्राकारोच्छ्रयमिच्छन्ति नापि युग्मकरोन्मितम् ॥ २८ ॥
⁶हस्ते हस्तेऽङ्गुलद्वन्द्वमायतः सम्यगुच्छ्रयात् ।
यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥ २९ ॥
चतु(रस्त्रो ? र्हस्तो)⁷च्छ्रितिँस्तस्य शिरः स्याद् दशविस्तृतम् ।
हस्तोच्चं कपिशीर्षं स्याद् द्विहस्ता ⁸काण्डवारिणी ॥ ३० ॥
कार्याः कर्णाश्रितैर्द्वारकर्णान्तस्थैश्च संयुताः ।
प्राकारेऽट्टालकास्तस्मिन् दिक्षु दिक्षु चतुर्दिशम् ॥ ३१ ॥
१ द. ख. ग. ॰तलस्थितम् । २ द. ससंग्राहां तु निर्गमम् ( ? ) । सग्राहं साम्बुनिर्गमम् इति
शास्त्रिभिः संस्कृतः पाठः । ३ क. द्वादशकच्छकान् । ४ क. ज्येष्ठः । ५ क. द. विस्तारान् । ६ द.
हस्ताङ्गुलद्वन्द्वमायतः । ७ द. ॰स्थितितस्तस्य । ८ द. द्विहस्तात् कण्ठचारिणी ।
वा. ६
४२ समराङ्गणसूत्रधारे
द्विभौमांश्चरिकोर्ध्वं च प्राकारोच्छ्रायविस्तृतान् ।
तदर्धं निर्गमान् कुर्यात् ससालाट्टालकानथ ॥ ३२ ॥
शतं शतं स्याद्धस्तानां मिथश्चाट्टालकान्तरम् ।
इत्थं पुरमगम्यं स्यात् पत्त्यश्वरथदन्तिनाम् ॥ ३३ ॥
चरिकां संचरद्वारां सुखारोहां सवेदिकाम् ।
ससोपानां सनिर्यूहां कुर्यात् सकपिशीर्षकाम् ॥ ३४ ॥
राजमार्गमहारथ्यासंश्रितानि चतुर्दिशम् ।
त्रीणि त्रीणि विधेयानि पुरे द्वाराणि तद्विदा ॥ ३५ ॥
राजमार्गमहाद्वारचतुष्कं विस्तरान्नव ।
अष्टौ सप्त करा नोर्ध्वं द्विगुणं ल्लिंकरोज्झितम्(?) ॥ ३६ ॥
महारथ्याश्रयं द्वारं तत् षट्पञ्चचतुष्करम् ।
उच्छ्रयात् सार्धसार्धैकहस्तोनं विस्तरेण तत् ॥ ३७ ॥
कुर्यात् प्रतोलीः सर्वेषु महाद्वारेष्वथो दृढाः ।
दृढार्गलाश्चेन्द्रकीलाः कपाटपरिघान्विताः ॥ ३८ ॥
राजमार्गसमा २ शाला स्यात् प्रतोलीविनिर्गमा ३ ।
तदर्धं कोष्ठकान्तः स्याद् व्यासोऽध्यर्धं तयोः स्मृतः ॥ ३९ ॥
चतुरश्रामिति न्यस्य प्रतोलीं वदनायताम् ।
व्यासत्र्यंशविन्यस्तमार्गां मूषाद्वयान्विताम् ॥ ४० ॥
अन्तर्भित्तौ चतुर्द्वारं महाद्वारेण सम्मितम् ।
विकल्पकोष्ठकान्तेषु दारुभिस्तद् विभूषयेत् ॥ ४१ ॥
द्वारे चोभयतःशाले द्वे द्वे द्वारे च मूषयोः ।
ते कार्ये सम्मुखे व्यासाद् द्विकरे द्विगुणोच्छ्रिते ॥ ४२ ॥
(ष ? त) द्वारूंमूषयोः पट्टमध्यं पञ्चकरोच्छ्रितम् ।
तद्वत् कार्या द्वितीया भूर्द्वारशेषोदयोच्छ्रिता ॥ ४३ ॥
१ द. ख. ग. ॰करोष्ठितम् । २ द. ख. ग. ॰समः । ३ क. विनिर्गमः, द. ख. विनिर्मात् ।
४ द. ख. व्यासो वृद्ध । ५ द. ख. ग. ॰न्ते यद् दा°। ६ द. षद्दारुं, °तुं मू° [शा.] ।
७ द. ख. बद्धा ।
[Header] पुरनिवेशो दशमोऽध्यायः । ४३
बहिर्द्वारविनिर्मुक्तां पूर्ववत् तां प्रकल्पयेत् ।
पुरःसंरोधनसहैर्गवाक्षैरग्रतो युताम् ॥ ४४ ॥
तलं ततो महाद्वारस्योर्ध्वं बद्ध्वा तृतीयकम् ।
१रोधनद्वारयुग्हर्म्यसंयुक्तं सपरिक्रमम् ॥ ४५ ॥
सन्न्यस्तस्तम्भवेचन्यदूर्ध्वं तस्योपकल्पयेत् ।
व्यालजालशतघ्नीयन्त्रशस्त्रयन्त्रादिभिर्युतम् ॥ ४६ ॥
वृद्धिशोभाभिगुप्त्यर्थं पुरस्य प्रविकल्पयेत् ।
बृहद्द्वाराणि परितस्त्रितलाभिः प्रतोलीभिः ॥ ४७ ॥
प्रतोल्या दक्षिणाद् भागादुच्छ्रितो वामतो गतः ।
यावद् द्वितीयं तत्पार्श्वमेकः कार्यो बहिः स्थितः ॥ ४८ ॥
द्वितीयो वामभागात् तु निर्गत्यास्यैव वेष्टकः ।
कार्यः स्याद्वा तदुत्थानात् प्राकारस्तस्य बाह्यतः ॥ ४९ ॥
एतयोरन्तरालं च राजमार्गेण सम्मितम् ।
कर्तव्यं स्यादिहैवं तु वक्त्रद्वारकमुत्तमम् ॥ ५० ॥
दृष्ट्वा दृष्टोपभोगार्हान् सरिद्भिरिजलाशयान् ।
पक्षद्वाराणि कुर्वीत स्वेच्छया तत्र तत्र च ॥ ५१ ॥
जलभ्रमान् पुरे कुर्याच्छिलादारुतिरोहितान् ।
द्विकरन् करमात्नान् वा २साम्भसोऽस्मिन् प्रदक्षिणान् ॥ ५२ ॥
छिन्नकर्णं विकर्णं च वज्रं सूचीमुखं तथा ।
वर्तुलं व्यजनाकारं ३चापाकृतिधरं च यत् ॥ ५३ ॥
शकटद्विसमं यच्च विस्ताराद् द्विगुणायतम् ।
विदिक्स्थं सर्पचक्रं च तत् पुरं निन्दितं भवेत् ॥ ५४ ॥
छिन्नकर्णे वसँल्लोकः पुरे तस्करतो भयम् ।
व्याधिभ्यो वापरेभ्यो वा प्राप्नोतीति विनिर्दिशेत् ॥ ५५ ॥
[Footnote 1] १ द. रोधनद्वारेषु हर्म्यं सं' । २ 'विस्तराद् द्विगुणायतः ।' (?) क. पाठः । ३ द. चापाकारं
[Footnote 2] पुरं भवेत् ।
विद्विष्टस्वामिता सर्वलोकगर्हानपत्यता ।
जायते स्वल्पमायुष्यं विकर्णपुरवासिनाम् ॥ ५६ ॥
स्त्रीजयं विषरोगांश्च भेदांश्च विविधांस्तथा ।
जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ॥ ५७ ॥
व्रजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः ।
निवसन्तः सदा सूचीमुखाकारधरे पुरे ॥ ५८ ॥
स्वामिना सह हीयन्ते सर्वतः संश्रयोज्झिताः ।
स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥ ५९ ॥
असत्यवादिनः स्वल्पायुषः पवनपीडिताः ।
जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृतौ ॥ ६० ॥
दुश्चरित्राङ्गनायुक्तस्तथा बहुनपुंसकः ।
चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥ ६१ ॥
रोगशोकानलस्तेनभयं तत्र प्रजायते ।
शकटद्विसमाकारं पुरं यद् विनिवेश्यते ॥ ६२ ॥
आरम्भासिद्धिदं विप्रभयदं ज्ञातिभेदकृत् ।
पौराणां स्वामिनश्च स्याद् गजवाजिक्षयावहम् ॥ ६३ ॥
परैराक्रम्य भुज्येत तत् पुरं बलशालिभिः ।
द्विगुणायतसंस्थानं यत् कचिद् विनिवेश्यते ॥ ६४ ॥
जनक्षयोऽग्निदाहश्च स्त्रीकृतानि भयानि च ।
पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ॥ ६५ ॥
१शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः ।
२रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ॥ ६६ ॥
पुराणामप्रशस्तानि संस्थानानीदृशानि यत् ।
एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ॥ ६७ ॥
संस्थानमेकमप्येषां प्रमादात् क्रियते यदि ।
तदा राष्ट्रं निपीड्येत क्षुद्विषद्रीतिमृत्युभिः ॥ ६८ ॥
१ ‘सस्वामिनः पि’ । २ ‘रुक्पीडाभिश्च’ ख. ग. पाठः ।
पुरनिवेशो दशमोऽध्यायः । ४५
शास्त्रज्ञः स्थपतिस्तस्मात् प्रयत्नपरया धिया ।
यथावत् कथितं १चारु नगरं विनिवेशयेत् ॥ ६९ ॥
वेदीनिवेशयात्रायां२ देवागारामिचारयोः ।
नदीकर्मणि मैत्रे च शान्तिं कुर्याच्छ्रमेषु च ॥ ७० ॥
यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः ।
कुर्यात् तथाभ्युदयिकं यच्चान्यदपि किञ्चन ॥ ७१ ॥
पुरे भीतिकरं शश्वदनायुष्यमपौष्टिकम् ।
कृतमप्रयतैः कर्म नृपतिघ्नं च जायते ॥ ७२ ॥
विहितं यदशास्त्रज्ञैर्यच्च निर्लक्षणैः कृतम् ।
कृतमप्रयतैर्यच्च३ तदशस्तं फलोज्झितम् ॥ ७३ ॥
शास्त्रज्ञः स्थपतिर्ज्योतिर्विदा तद्वत् पुरोधसा ।
अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥ ७४ ॥
पुरोहितोऽग्निं जुहुयाद् दद्यान्मौहूर्त्तिकः स्थिरम्४ ।
स्थपतिश्च बलिं दद्याद् योजयेदिति शान्तिकम् ॥ ७५ ॥
तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः ।
पूज्यन्ते सततं पौरैश्चत्वरस्थायिनस्तथा ॥ ७६ ॥
चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम् ।
धनुर्वेदश्च सप्ताङ्गो ज्योतिषं कमलालयात् ॥ ७७ ॥
सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः ।
ब्रह्मा विष्णुश्च रुद्रश्च त्यजन्त्येते न तत् पुरम् ॥ ७८ ॥
नगरस्य विभागोऽयं यथावत् समुदीरितः ।
खेटं तदर्थविष्कम्भमाहुर्ग्रामं तदर्धतः ॥ ७९ ॥
योजनेन पुरात् खेटं खेटाद् ग्रामं प्रचक्षते ।
गव्यूतिपरिमाणेन ग्रामाद् ग्रामं प्रचक्षते ॥ ८० ॥
१ 'चारु न' क. पाठः । २ 'यां वेदागा' ग. पाठः । ३ 'यतैः कर्म त' क. पाठः ।
४ 'तम्' ख. ग. पाठः ।
४६ समराङ्गणसूत्रधारे
द्विक्रोशाद् विषये सीमा तदर्धेन पुरस्य सा ।
खेटके पुरसीमार्थं ग्रामे खेटार्धतः स्मृता ॥ ८१ ॥
त्रिंशद्धनूंषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः ।
विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥ ८२ ॥
१नव ग्रामसहस्त्राणि २नवति(श्र? श्व) प्रचक्षते ।
चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥ ८३ ॥
३दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा ।
ग्रामाश्चतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥ ८४ ॥
सहस्त्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् ।
४ह्यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥ ८५ ॥
अध्यर्धसङ्ख्ययैतेषां ज्येष्ठमध्यकनीयसाम् ।
विधाय नवधैकैकं विभजेद् विधिवत् सुधीः ॥ ८६ ॥
राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् ।
निवेशयेत् पुराण्येषु सप्त सप्त यथागैमम् ॥ ८७ ॥
विभागश्च प्रमाणं च लक्षणं चादिमस्य यत् ।
जातिवर्णाधिवासश्च यथावत् तदिहोच्यते ॥ ८८ ॥
सुवर्णकारान्नाग्नेय्यां तथा वह्न्युपजीविनः ।
निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥ ८९ ॥
वैश्यानामक्षधूर्तानां चक्रिकाणां च दक्षिणे ।
नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥ ९० ॥
निवेशयेत् सौकरिकान् ६मे(धी? षी)कारान् मृगच्छिदः ।
कैवर्तान् नैर्ऋताशायां दमनाधिकृतांस्तथा ॥ ९१ ॥
रथेपु कौशलं येषां येषां स्यादायुधेषु च ।
वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥ ९२ ॥
१ क. द. तत्र ग्राम°। २ द. भवन्ति च। ३ क. द. दश द्वे च। ४ द. ख. ग. न्यूनाच्च।
५ क. यथाक्रमम्। ६ सर्वत्र मेयी° पाठः।
पुरनिवेशो दशमोऽध्यायः । ४७
कर्मस्वधिकृता ये च ये चापि परिकर्मिणः ।
शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥ ९३ ॥
यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम् ।
प्रपाश्च पुण्यशालाश्च कुर्याद् दिशि धनेशितुः ॥ ९४ ॥
घृतविक्रयिणो ये च फलविक्रयिणश्च ये ।
निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥ ९५ ॥
पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले ।
निवेशयेत् तथाग्नेय्यां बलं नानाविधं सुधीः ॥ ९६ ॥
श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान् ।
याम्येकहारान्( ? )कुर्वीत तथा ककुभि निर्ऋतेः ॥ ९७ ॥
कोशपालमहामात्रादेशिकान् कारुकानपि ।
१निर्यामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥ ९८ ॥
वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान् ।
पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥ ९९ ॥
विप्राः सौम्य२ दिशो भागे क्षत्रियाः शक्रदिग्गताः ।
वैश्यशूद्रास्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥ १०० ॥
निधेया वणिजो वैद्या मुख्याश्चापि चतुर्दिशम् ।
चतुर्दिशं विशेषेण स्थापयीत बलानि च ॥ १०१ ॥
नगरस्य बहिः प्राच्यां लिङ्गस्थान् विनिवेशयेत् ।
श्मशानानि तथा तत्स्थान् याम्यायां स्थपतिः सुधीः ॥ १०२ ॥
सर्वतोदिशमुद्दिष्टो विभागो नगरे यथा ।
तथा ग्रामेषु खेटेषु सेनायाश्च निवेशने ॥ १०३ ॥
नगराभिमुखौ कार्यौ संपूर्णाङ्गम३होदयौ ।
द्वारे द्वारे सौम्यमुखौ लक्ष्मीवैश्रवणौ शुभौ ॥ १०४ ॥
१ द. प्रतेः श्रेष्ठः पाठः निर्यामकांश्च, अन्यत्र नियामकांश्चेत्यपपाठः । २ क. सौम्यदिशो,
शा. सौम्या दिशो । ३ क. द. ˚सहोदरौ ।
४८ समराङ्गणसूत्रधारे ।
राष्ट्रं खेटमथ ग्रामं पश्यन्तेन्तत्पुरं महत्( ? ) ।
तत्रारोग्यार्थसंसिद्धी प्रजाविजयमादिशेत् ॥ १०५ ॥
क्लेशबन्धवधैर्लोकाः स्युर्मिथः ²स्तूलहिंसकाः ।
ग्रामं खेटं पुरं राष्ट्रं यदेतौ नैव पश्यतः ॥ १०६ ॥
स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम् ।
बाह्यान्तरासु भूमीषु ब्रूमहे तानतःपरम् ॥ १०७ ॥
चतुर्दिशं समारभ्य प्राकारपरिखान्ततः ।
बहिः शते शते सार्धे धनुषां द्विशतेऽपि च ॥ १०८ ॥
धनुःशतमितैः शुद्धैरनिन्द्यैर्धरणीतलैः ।
स्वस्वप्रासाद्युक्तानि स्वखानुगगृहैः सह ॥ १०९ ॥
निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम् ।
नगराभिमुखं चित्रवनभाञ्जि शुभानि च ॥ ११० ॥
याम्योत्तरायतं वंशं विकल्पपुरमव्यगम् ।
बहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥ १११ ॥
प्राच्यां प्रत्यङ्मुखान् कुर्यात् प्राङ्मुखांश्चाम्बुभृद्दिशि ।
याम्योदक्पार्श्वयोस्तस्य ³प्रादक्षिण्येन वंशगान् ॥ ११२ ॥
दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान् ।
चैत्यशान्तिसभायक्षमातृप्रँथमयान्विताः( ? ) ॥ ११३ ॥
इत्यमी कथिताः सम्यग् ये यथादिङ्मुखाः सुराः ।
दिक्षु दिक्षु बहिर्ये स्युस्तानिदानीं प्रचक्ष्महे ॥ ११४ ॥
विष्णोर्दिनाधिनाथस्य सहस्रनयनस्य च ।
धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ॥ ११५ ॥
सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च ।
पूर्वदक्षिणदिग्भागे विदधीत निकेतनम् ॥ ११६ ॥
१ क. द. पश्यन्त्ये ते पुरं, ‘पश्यतस्तौ पुरे च यत्’ इति शास्त्रिभिः निर्दिष्टः पाठः ।
२ द. तत्रहिंसकाः । ३ द. प्राग्दं । ४ क. ॰प्रमथया॰, ॰प्रमथपा॰ इति शास्त्रिभिः निर्दिष्टः पाठः,
द. ॰प्रथमया॰ ।
पुरनिवेशो दशमोऽध्यायः । ४९
गणेशमातृभूतानां याम्ये प्रेतपतेर्गृहम् ।
भद्रकाल्याः पितॄणां स्याद् वेश्म चैत्यं च नैऋते ॥ ११७ ॥
सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः ।
निलयं पश्चिमाशायां विदध्याद् वरुणस्य च ॥ ११८ ॥
फणिनां भवनं कार्यमपरोत्तरदिग्गतम् ।
शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥ ११९ ॥
विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च ।
पृथक्पृथग् विधातव्याः प्रासादाः सौम्यदिग्गताः ॥ १२० ॥
जगद्गुरोर्महेशस्य श्रियो वह्नेश्च मन्दिरम् ।
पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ॥ १२१ ॥
नदीनामम्बुधीनां च समन्तान्नगरस्य च ।
कान्तारेष्वद्रिषु स्थानं सर्वत्रेष्टमुमापतेः ॥ १२२ ॥
निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः ।
सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥ १२३ ॥
नगरस्य विदूरेऽपि ककुप्सु निखिलास्वपि ।
बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ॥ १२४ ॥
क्रियते यदि १भूभागे वंशेन स पराङ्मुखः ।
विधिमेनं तदा तस्मिंस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥ १२५ ॥
तद्रूपवर्णभूषास्त्रवाहनैरन्वितं सुरम् ।
तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥ १२६ ॥
वैकङ्कतशमीबिल्वैः क्षीरकण्टकिभिर्द्रुमैः ।
उदपानाग्न्यगारेषु स्यान्न दोषोऽन्तरस्थितैः ॥ १२७ ॥
अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेख्यवर्तिषु ।
कर्तव्याः सर्वतोवक्त्रास्तस्माच्चित्रगताः सुराः ॥ १२८ ॥
विधानं यद् यथा प्रोक्तं सुरधाम्नां पुराद् बहिः ।
तत् तथाभ्यन्तरेऽपि स्यात् कार्यं स्वस्वदिगाश्रयम् ॥ १२९ ॥
१ द. भूभागवशेन ।
वा. ७