सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 104, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 104

पुरनिवेशो दशमोऽध्यायः । ३९
विंशतैतत् त्रिकं विद्यात् क्रमादित्यत्तरोत्तरम् ।
अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ॥ ५२ ॥
पक्षद्वयेन मासः स्याद् भवेन्मासद्वयाद्दृतुः ।
ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥ ५३ ॥
दशधायमिति प्रोक्तः कालः कालविदां वरैः ।
इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्ख्या ।
अन्तःपुरं जनपदामरधाममार्गैराचक्ष्महे नगरसंप्रविभागमत्र ॥ ५४ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
हस्तलक्षणं नाम नवमोऽध्यायः ॥
अथ पुरनिवेशो दशमोऽध्यायः ।
पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते ।
प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ॥ १ ॥
ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते ।
मध्यं द्वाभ्यां सहस्राभ्यामेकेन व्यासतोऽधमम् ॥ २ ॥
साष्टमांशं सपादं वा सार्धं वा व्यासमायतम् ।
कुर्यादेकैकमायामं चतुरास्त्रीकृतं शुभम् ॥ ३ ॥
चतुःषष्टिपदाख्येन पुरं सर्वं प्रकल्पयेत् ।
द्विरष्टकोष्ठं तत् कुर्यात् षट्पथं नवचत्वरम् ॥ ४ ॥
चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः ।
चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥ ५ ॥
वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते ।
राजमार्गः शुभः कार्यो मध्यमं वंशमाश्रितः ॥ ६ ॥
कार्यो ज्यायसि (च) ज्यायांश्चतुर्विंशतिकः करैः ।
विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥ ७ ॥
१ द. ग. मासास्थं । २ क. ॰विंशतिभिः ।