समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 95, कुल 726 में से
संदर्भ में पढ़ें३० समराङ्गणसूत्रधारे
न क्षुद्रा 'वन्दिनो यस्यां दुर्गप्रत्यन्तसंश्रयाः ।
भूः साश्रेणीमनुष्येति विनीतैराश्रिता जनैः ॥ २० ॥
मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः ।
भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥ २१ ॥
जीवन्ति क्षेत्रिणो यस्यां न(दी ? द)नद्यादिवारिभिः ।
तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ॥ २२ ॥
निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः ।
कृष्टानुपहतक्षेत्रा धान्या सा धान्यशालिनी ॥ २३ ॥
पर्यन्तेष्वद्रयो यस्यां या च हस्तिवनाश्रिता ।
सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥ २४ ॥
दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः ।
विषमाद्रिसरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥ २५ ॥
षोडशेत्युदिता भूम्यः प्रविभागाद् यथातथम् ।
अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥ २६ ॥
धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलतावृतैः ।
उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरैः ॥ २७ ॥
तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः ।
नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ॥ २८ ॥
कोकिलालापसुभगैर्मधुमत्तालिशालिभिः ।
विचित्रफलपुष्पाढ्यैः काननै रुपशोभिताः ॥ २९ ॥
दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः ।
सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥ ३० ॥
समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः ।
क्षेत्रैरक्षतसीमान्तैः सस्यनिष्पादिभिर्वृताः ॥ ३१ ॥
निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः ।
विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ॥ ३२ ॥
१ क. द. वृन्दिनो । २ द. ग. ˚नान्विता ।