समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 114, कुल 726 में से
संदर्भ में पढ़ेंपुरनिवेशो दशमोऽध्यायः । ४९
गणेशमातृभूतानां याम्ये प्रेतपतेर्गृहम् ।
भद्रकाल्याः पितॄणां स्याद् वेश्म चैत्यं च नैऋते ॥ ११७ ॥
सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः ।
निलयं पश्चिमाशायां विदध्याद् वरुणस्य च ॥ ११८ ॥
फणिनां भवनं कार्यमपरोत्तरदिग्गतम् ।
शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥ ११९ ॥
विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च ।
पृथक्पृथग् विधातव्याः प्रासादाः सौम्यदिग्गताः ॥ १२० ॥
जगद्गुरोर्महेशस्य श्रियो वह्नेश्च मन्दिरम् ।
पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ॥ १२१ ॥
नदीनामम्बुधीनां च समन्तान्नगरस्य च ।
कान्तारेष्वद्रिषु स्थानं सर्वत्रेष्टमुमापतेः ॥ १२२ ॥
निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः ।
सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥ १२३ ॥
नगरस्य विदूरेऽपि ककुप्सु निखिलास्वपि ।
बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ॥ १२४ ॥
क्रियते यदि १भूभागे वंशेन स पराङ्मुखः ।
विधिमेनं तदा तस्मिंस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥ १२५ ॥
तद्रूपवर्णभूषास्त्रवाहनैरन्वितं सुरम् ।
तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥ १२६ ॥
वैकङ्कतशमीबिल्वैः क्षीरकण्टकिभिर्द्रुमैः ।
उदपानाग्न्यगारेषु स्यान्न दोषोऽन्तरस्थितैः ॥ १२७ ॥
अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेख्यवर्तिषु ।
कर्तव्याः सर्वतोवक्त्रास्तस्माच्चित्रगताः सुराः ॥ १२८ ॥
विधानं यद् यथा प्रोक्तं सुरधाम्नां पुराद् बहिः ।
तत् तथाभ्यन्तरेऽपि स्यात् कार्यं स्वस्वदिगाश्रयम् ॥ १२९ ॥
१ द. भूभागवशेन ।
वा. ७