सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 98, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 98

भूमिपरीक्षा नामाष्टमोऽध्यायः ३३
वसासृङ्मज्जविण्मूत्रमलको(थ ? श)पतत्रिणाम् ।
समगन्धां त्यजेदुवीं तैलस्य च शवस्य च ॥ ५८ ॥
सदैव धूम्रवर्णा या मिश्रवर्णाथवा मही ।
विवर्णा रूक्षवर्णा वा सा न स्यादिष्टदायिनी ॥ ५९ ॥
तिक्ताम्ललवणा चापि भूमिर्या १खादनो भवेत् ।
तां लोकविद्वेषकरीं त्यजेत् पुरनिवेशने ॥ ६० ॥
या रूक्षखरसंस्पर्शा सदैवोष्णा हिमाथवा ।
अनिष्टसुखसंस्पर्शा या स्यात् तामपि सन्त्यजेत् ॥ ६१ ॥
क्रोष्टूष्ट्रखरस्वाना या च निर्झरनिस्वना ।
भिन्नभाण्डसमक्रूरध्वनितापि च नेष्यते ॥ ६२ ॥
इति गन्धादिभिर्भूमिः कथितेयं शुभाशुभा ।
हलेन कृष्यमाणायां भूमौ काष्ठे समुद्धृते ॥ ६३ ॥
विद्याद् भयं वह्निभवमिष्टकायां धनागमम् ।
पाषाणेषु तु कल्याणं कुलप्रध्वंसमस्थिषु ॥ ६४ ॥
सरीसृपेषु सर्वेषु स्तेनेभ्यो भयमादिशेत् ।
अनूषरा बहुतृणा शस्ता स्निग्धोत्तरप्लवा ॥ ६५ ॥
प्रागीशानप्लवा सर्वप्लवा वा दर्पणोदरा ।
शुभेऽह्न्युपोषितः स्नातः शुचिः शुक्लस्रगम्बरः ॥ ६६ ॥
स्वस्ति विप्रान् वाचयित्वा वास्तुदेवान् समर्च्य च ।
करप्रमाणं कुर्वीत खातं तद्भूमिमध्यगम् ॥ ६७ ॥
ततस्तन्मृदमाकृष्य तत् तयैवानुपूरयेत् ।
खाताधिकमृदुक्ता भूः श्रेष्ठा मध्या च तत्समा ॥ ६८ ॥
प्रहीणखातमृत् क्षोणी हीना शस्ता न सा नृणाम् ।
खन्यमाने यदा खाते तन्मृदोऽन्तर्विलोक्यते ॥ ६९ ॥
मणिशङ्खप्रवालादि तदातिश्रेयसी क्षितिः ।
सापि प्रशस्यते भूमिर्यस्यां स्युः खातपांसवः ॥ ७० ॥
१ क. ख. ग. द. स्वादनो ।
वा. ५