सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 111, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 111

४६ समराङ्गणसूत्रधारे
द्विक्रोशाद् विषये सीमा तदर्धेन पुरस्य सा ।
खेटके पुरसीमार्थं ग्रामे खेटार्धतः स्मृता ॥ ८१ ॥
त्रिंशद्धनूंषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः ।
विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥ ८२ ॥
१नव ग्रामसहस्त्राणि २नवति(श्र? श्व) प्रचक्षते ।
चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥ ८३ ॥
३दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा ।
ग्रामाश्चतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥ ८४ ॥
सहस्त्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् ।
४ह्यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥ ८५ ॥
अध्यर्धसङ्ख्ययैतेषां ज्येष्ठमध्यकनीयसाम् ।
विधाय नवधैकैकं विभजेद् विधिवत् सुधीः ॥ ८६ ॥
राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् ।
निवेशयेत् पुराण्येषु सप्त सप्त यथागैमम् ॥ ८७ ॥
विभागश्च प्रमाणं च लक्षणं चादिमस्य यत् ।
जातिवर्णाधिवासश्च यथावत् तदिहोच्यते ॥ ८८ ॥
सुवर्णकारान्नाग्नेय्यां तथा वह्न्युपजीविनः ।
निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥ ८९ ॥
वैश्यानामक्षधूर्तानां चक्रिकाणां च दक्षिणे ।
नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥ ९० ॥
निवेशयेत् सौकरिकान् ६मे(धी? षी)कारान् मृगच्छिदः ।
कैवर्तान् नैर्ऋताशायां दमनाधिकृतांस्तथा ॥ ९१ ॥
रथेपु कौशलं येषां येषां स्यादायुधेषु च ।
वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥ ९२ ॥
१ क. द. तत्र ग्राम°। २ द. भवन्ति च। ३ क. द. दश द्वे च। ४ द. ख. ग. न्यूनाच्च।
५ क. यथाक्रमम्। ६ सर्वत्र मेयी° पाठः।