समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 102, कुल 726 में से
संदर्भ में पढ़ेंहस्तलक्षणं नाम नवमोऽध्यायः । ३७
विविधास्तत्र भोगाश्च १प्रजायन्ते नरस्य हि ।
ज्येष्ठादीनामथैतेषां संज्ञाभेदो विधीयते ॥ २७ ॥
यच्च येन भवेद् द्रव्यं मेयं तदपि कीर्त्यते ।
यवाष्टकाङ्गुलैः क्लृप्तः प्रकर्षेणायतः किल ॥ २८ ॥
ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः ।
यः पुनः कल्पितः सप्तयवक्लृप्तैरिहाङ्गुलैः ॥ २९ ॥
तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः ।
मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते ॥ ३० ॥
तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः२ ।
विभागायामविस्ताराः खेटग्रामपुरादिषु ॥ ३१ ॥
प्रासादवेश्मपरिखाद्वाररथ्यासभादिषु ।
मार्गाश्च निर्गमाँ(?ये ?श्चै)षां सीमक्षेत्रान्तराणि च ॥ ३२ ॥
वनोपवनभागाश्च देशान्तरविभक्तयः ।
योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः ॥ ३३ ॥
प्राशयेन प्रमातव्याः खातक्रकचराशयः ।
तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः४ ॥ ३४ ॥
तथा दोलाम्बुशस्त्रादि पातमौनवनिर्णयम् ।
शैलखातँनिकेतानि सुरुङ्गामानमान्तरम् ॥ ३५ ॥
साधारणेन वास्थ्यध्वमानं च परिकल्पयेत् ।
आयुधानि धनुर्दण्डान् यानं शयनमासनम् ॥ ३६ ॥
प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम् ।
अरघट्टेक्षुयन्त्राणि युगयूपहलानि च ॥ ३७ ॥
शिल्प्युपस्करनौच्छत्रध्वजातोध्यानि यानि च ।
वृसीधर्मोपकरणपटवानादिकं च यत् ॥ ३८ ॥
१ द. ख. ग. सदा चैतस्य संभवेत् । २ द. षट्पञ्चाङ्गुलः । ३ द. ०श्चार्गमायेषां । ४ द. स्थितैः ।
५ द. पातयामानवनिर्णयम् ; क. ०तयामाननि० । ६ द. ख. ग. ०खातनेत्रोतानि । ७ द. सान्तरम् ।
८ द. ख. ग. परिकीर्तयेत् ।