समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 100, कुल 726 में से
संदर्भ में पढ़ेंहस्तलक्षणं नाम नवमोऽध्यायः । ३५
रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः ।
भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥ ४ ॥
अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः ।
ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥ ५ ॥
सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता ।
करस्यार्धं चतुःपर्व शेषं स्याद् भक्तमङ्गुलैः ॥ ६ ॥
तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूषिताः ।
शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥ ७ ॥
अत्रार्धे मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् ।
१मध्यं त्रिधाष्टमं कार्यं चतुर्था द्वादशं ततः ॥ ८ ॥
हस्तः स्वाङ्गुलमानेन विधेयाङ्गुल(मि ? इ)ष्यते ।
तत् सार्धं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥ ९ ॥
कथितः करभेदोऽयमङ्गुलानां विभेदतः ।
तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥ १० ॥
खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् ।
सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥ ११ ॥
ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं२ तथा ।
अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते ॥ १२ ॥
त्रिविधस्याप्यथैतस्य पर्वरेखासु देवताः ।
†३मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥ १३ ॥
*ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् ।
वायुर्धनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥ १४ ॥
१ ख. ग. द. मध्यात् । २ द. विस्फटितं । ३ द. मूलां ।
† ‘ मध्यपर्वत एकस्मिन् पार्श्वगणनया प्रान्तसंयुक्तानि चत्वारि पर्वाणि भवन्ति । मध्यादेव
परस्मिन् पार्श्वे समध्यमपर्वत्वात् पञ्च भवन्ति ’ ।
- ‘ मध्ये ब्रह्मा । ततो वामे पर्वणि वह्निः दक्षिणे पर्वणि यमः, पुनर्वामे विश्वकर्मा दक्षिणे वरुणः,
पुनर्वामे वायुः दक्षिणे धनदः, पुनर्वामे रुद्रो दक्षिणे विष्णुः । ततस्तु क्रमेण गणनायां रुद्रो वायुर्विश्वकर्मा
वह्निर्विधाता कालस्तोयेशः कुबेरो विष्णुरिति पर्वदेवता भवन्ति ’ इति टिप्पणमिह दत्तमस्ति ।