समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 99, कुल 726 में से
संदर्भ में पढ़ें३४ समराङ्गणसूत्रधारे
तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः ।
भृत्वाद्भिः खातमापूर्णे तस्मिन् पदशतं व्रजेत् ॥ ७१ ॥
तावच्चेदौगमेऽम्भः स्यात् तदा भूः सार्वकामिकी ।
मध्यमात्रप्रहीणे स्यात् ततो हीनतरेऽधमा ॥ ७२ ॥
खाते सितादिमाल्यानि यस्यां निन्युषितानि च ।
यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥ ७३ ॥
खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा ।
दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा ॥ ७४ ॥
इत्येवं कीर्त्तिताः कार्त्स्न्याल्लक्ष्मभिः पुरभूमयः ।
खर्वटग्रामखेटानामेता एव स्मृता हिताः ॥ ७५ ॥
वर्णिनां वर्णधाम्नां च शिबिराणां च सर्वदा ।
प्रासादयज्ञवाटानामेता एवेष्टदा भुवः ॥ ७६ ॥
इत्येवमादिभिरिमाः शुभलक्ष्मयुक्ता
भूम्यः शुभा निगदिता नगरादिहेतोः ।
आभ्यः परेण बहुधा परिकल्प्यमानं
ब्रूमस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥ ७७ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
भूमिपरीक्षा नामाष्टमोऽध्यायः ॥
अथ हस्तलक्षणं नाम नवमोऽध्यायः ।
हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् ।
मानोन्मानविभागादिनिर्णयैकनिबन्धनम् ॥ १ ॥
परिध्युदयविस्तारदैर्ध्याणां स्युरमी यतः ।
ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥ २ ॥
इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् ।
कथ्यते २त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥ ३ ॥
१ क. दागतेऽम्भ(:)स्यात् । २ ख. ग. विविधं ।