सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 96, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 96

भूमिपरीक्षा नामाष्टमोऽध्यायः । ३१
स्थले तृणसमुद्राणामन्तरेषु वसुन्धराः ।
प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥ ३३ ॥
दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः ।
संरम्भत्रासनिर्मुक्तं मनश्च रमयन्ति याः ॥ ३४ ॥
तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत् ।
यथास्थानं जनपदान् खेटग्रामपुरादि च ॥ ३५ ॥
युता महीध्रमूला(स्व ? म्वु)प्राकारैस्तु पृथक्पृथक् ।
चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥ ३६ ॥
दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः ।
२समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥ ३७॥
कण्टकिद्रुमनीरन्ध्रनद्धे ३साम्भसि कानने ।
गूढप्रवेशमार्गे भूर्भूलदुर्गेति कीर्तिता ॥ ३८ ॥
द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः ।
रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥ ३९ ॥
स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः ।
बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥ ४० ॥
४दूर्वास(स्त्वौ ? स्यौ)षधीमुञ्जकुरुन्दकुशवल्कलैः ।
परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥ ४१ ॥
वास्तुयज्ञामरस्थानाद्यारामोद्यानसम्भृताः ।
तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥ ४२ ॥
या वाहनानां सुखदा मिथुनानां रतिप्रदाः ।
पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥ ४३ ॥
कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः ।
सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥ ४४ ॥
१ द. मूलास्व; क. मूलाम् । २ शा. समपृष्ठेन्दु( ?)युक्तेऽद्रौ; क. समपृष्ठेऽम्बुयुक्तादौ; द. समपृष्ठे
तु युक्तोदौ । ३ द. नद्धे साम्भसि; क. ॰तीराम्बुनद्धे॰ । ४ क. दुर्वाशखौषधी॰; द. पूर्वास्तस्तौषधी॰ ।