सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 109, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 109

विद्विष्टस्वामिता सर्वलोकगर्हानपत्यता ।
जायते स्वल्पमायुष्यं विकर्णपुरवासिनाम् ॥ ५६ ॥
स्त्रीजयं विषरोगांश्च भेदांश्च विविधांस्तथा ।
जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ॥ ५७ ॥
व्रजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः ।
निवसन्तः सदा सूचीमुखाकारधरे पुरे ॥ ५८ ॥
स्वामिना सह हीयन्ते सर्वतः संश्रयोज्झिताः ।
स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥ ५९ ॥
असत्यवादिनः स्वल्पायुषः पवनपीडिताः ।
जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृतौ ॥ ६० ॥
दुश्चरित्राङ्गनायुक्तस्तथा बहुनपुंसकः ।
चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥ ६१ ॥
रोगशोकानलस्तेनभयं तत्र प्रजायते ।
शकटद्विसमाकारं पुरं यद् विनिवेश्यते ॥ ६२ ॥
आरम्भासिद्धिदं विप्रभयदं ज्ञातिभेदकृत् ।
पौराणां स्वामिनश्च स्याद् गजवाजिक्षयावहम् ॥ ६३ ॥
परैराक्रम्य भुज्येत तत् पुरं बलशालिभिः ।
द्विगुणायतसंस्थानं यत् कचिद् विनिवेश्यते ॥ ६४ ॥
जनक्षयोऽग्निदाहश्च स्त्रीकृतानि भयानि च ।
पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ॥ ६५ ॥
१शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः ।
२रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ॥ ६६ ॥
पुराणामप्रशस्तानि संस्थानानीदृशानि यत् ।
एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ॥ ६७ ॥
संस्थानमेकमप्येषां प्रमादात् क्रियते यदि ।
तदा राष्ट्रं निपीड्येत क्षुद्विषद्रीतिमृत्युभिः ॥ ६८ ॥


१ ‘सस्वामिनः पि’ । २ ‘रुक्पीडाभिश्च’ ख. ग. पाठः ।