सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 113, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 113

४८ समराङ्गणसूत्रधारे ।
राष्ट्रं खेटमथ ग्रामं पश्यन्तेन्तत्पुरं महत्( ? ) ।
तत्रारोग्यार्थसंसिद्धी प्रजाविजयमादिशेत् ॥ १०५ ॥
क्लेशबन्धवधैर्लोकाः स्युर्मिथः ²स्तूलहिंसकाः ।
ग्रामं खेटं पुरं राष्ट्रं यदेतौ नैव पश्यतः ॥ १०६ ॥
स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम् ।
बाह्यान्तरासु भूमीषु ब्रूमहे तानतःपरम् ॥ १०७ ॥
चतुर्दिशं समारभ्य प्राकारपरिखान्ततः ।
बहिः शते शते सार्धे धनुषां द्विशतेऽपि च ॥ १०८ ॥
धनुःशतमितैः शुद्धैरनिन्द्यैर्धरणीतलैः ।
स्वस्वप्रासाद्युक्तानि स्वखानुगगृहैः सह ॥ १०९ ॥
निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम् ।
नगराभिमुखं चित्रवनभाञ्जि शुभानि च ॥ ११० ॥
याम्योत्तरायतं वंशं विकल्पपुरमव्यगम् ।
बहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥ १११ ॥
प्राच्यां प्रत्यङ्मुखान् कुर्यात् प्राङ्मुखांश्चाम्बुभृद्दिशि ।
याम्योदक्पार्श्वयोस्तस्य ³प्रादक्षिण्येन वंशगान् ॥ ११२ ॥
दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान् ।
चैत्यशान्तिसभायक्षमातृप्रँथमयान्विताः( ? ) ॥ ११३ ॥
इत्यमी कथिताः सम्यग् ये यथादिङ्मुखाः सुराः ।
दिक्षु दिक्षु बहिर्ये स्युस्तानिदानीं प्रचक्ष्महे ॥ ११४ ॥
विष्णोर्दिनाधिनाथस्य सहस्रनयनस्य च ।
धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ॥ ११५ ॥
सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च ।
पूर्वदक्षिणदिग्भागे विदधीत निकेतनम् ॥ ११६ ॥
१ क. द. पश्यन्त्ये ते पुरं, ‘पश्यतस्तौ पुरे च यत्’ इति शास्त्रिभिः निर्दिष्टः पाठः ।
२ द. तत्रहिंसकाः । ३ द. प्राग्दं । ४ क. ॰प्रमथया॰, ॰प्रमथपा॰ इति शास्त्रिभिः निर्दिष्टः पाठः,
द. ॰प्रथमया॰ ।