समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
२६४ समराङ्गणसूत्रधारे
शान्तिकर्म प्रकुर्वीत ततः शान्तिकरं भवेत् ।
एवमादौ कृते पश्चात् पुनः संस्कारयेद् बुधः ॥ १४ ॥
पूर्वावयवनिर्माणाद् विशिष्टं रचयेत् पुनः ।
१दृढसन्धिनिगूढं च दृढद्रव्यसमन्वितम् ॥ १५ ॥
विविधं रूपकर्मार्ढ्यं सुसंस्थानं मनोरमम् ।
अकुब्जमनतं चैव पूर्वोत्कृष्टतरं तथा ॥ १६ ॥
नियुक्ते तु पुनः शान्तिं ब्राह्मणान् वाचयेत् ततः ।
पुराणे वा नवे वाथ कृते वार्धकृतेऽथवा ॥ १७ ॥
प्रासादे वा गृहे वापि कपोतः प्रविशेद् यदि ।
तत्र दोषाः प्रपद्यन्ते शान्तिकर्म तथैव च ॥ १८ ॥
३कालमूर्तिः कपोतश्च पापमूलकरण्डकम् ।
विहङ्गापशदो हीनः कृष्णचारी विहिङ्गमः ॥ १९ ॥
चतुर्विधः समाख्यातो मुनिभिः स तपोधनैः ।
श्वेतो विचित्रकण्ठश्च विचित्रोऽन्योऽथ कृष्णकः ॥ २० ॥
कपोतो भवने यस्य श्वेतवर्णो विशेत् क्वचित् ।
कीर्त्तिविद्याधनं पुण्यं शीघ्रं च नयते क्षयम् ॥ २१ ॥
नित्यं रोगाः प्रवर्धन्ते शिशुपीडा च जायते ।
चित्रकण्ठो ७ हरेज्जायां पुत्रान् सर्वान् विचित्रकः ॥ २२ ॥
सर्वाः सिद्धीश्च कृष्णाङ्गः ४प्रदुष्यै च कुलं हरेत् ।
रोगाः सर्वेऽपि वर्धन्ते विपदो व्यसनानि च ॥ २३ ॥
बन्धनानि च जायन्ते प्रविष्टे तु कपोतके ।
तस्माद् यत्नपरो भूत्वा प्रायश्चित्तं समाचरेत् ॥ २४ ॥
स्नातस्त्रिकालशुद्धात्मा सोपवासो जितेन्द्रियः ।
देवपूजार्चनरतो नित्यं दानपरः शुचिः ॥ २५ ॥
१ ख. ग. द. दृढं । २ ग. द. न । ३ क. कलिसूत्रं क । ४ द. ०धं । ५ द. ष्ठे ।
६ क. यु । ७ ग. द. ण्ठ्यं ।
तोरणभङ्गादिशान्तिर्नाम षट्चत्वारिंशोऽध्यायः । २६९
यवान्नप्रायभोजी च नित्यं होमपरायणः ।
गुरुविप्ररतश्चैव श्वेतमाल्याम्बरस्तथा¹ ॥ २६ ॥
गृही सगृहिणीकस्तु व्रतमेतत् समाचरेत् ।
श्वेतके पञ्चरात्रं च चित्रकण्ठे दशैव तत् ॥ २७ ॥
चित्रे पञ्चदशाहानि कृष्णे दिवसविंशतिः ।
व्रतस्थेन² तु कर्तव्यमग्निकार्यं मनोरमम् ॥ २८ ॥
यथालाभं समादाय तस्य देहं सपिच्छकम् ।
निकृन्तेत् खण्डखण्डानि विभागाष्टशतानि तैम्³ ॥ २९ ॥
घृतैःप्लुतानि पुण्यानि मधुलाजान्वितानि च ।
पञ्चवारुणसंज्ञेन वह्निकार्ये कृतेऽक्षतैः⁴ ॥ ३० ॥
तैतश्च⁵ मांसं जुहुयाद्ध्वंमात्रेण मन्त्रवित् ।
हुते क्रव्ये⁶ ततः क्षीरं दधिमध्वाज्यमेव च ॥ ३१ ॥
संपूजयेद् ग्रहान् सर्वान् ब्राह्मणान् वाचयेत् ततः ।
स्ववित्तपादं श्वेते तु विप्रेभ्यः प्रतिपादयेत् ॥ ३२ ॥
वित्तार्थं चित्रकण्ठे तु पादोनं सर्वचित्रके ।
कृष्णे⁸ सर्वधनत्यागः कर्तव्यो ब्राह्मणांत्⁹ पुनः ॥ ३३ ॥
एवं शान्तिर्भवेद् गेहे¹⁰ सर्वदोषक्षयार्वहा¹² ।
महतीं श्रियमाप्नोति धनलाभश्च जायते ॥ ३४ ॥
पुत्रैः पौत्रैर्वृद्धिमाप्नोत्यैनन्तामायुर्दीर्घं¹³ प्राप्नुयात् संयतात्मा¹⁴ ।
एतत् कृत्वा मुच्यते सर्वपापैर्मेघैर्यद्वच्छारदः शीतरश्मिः¹⁵ ॥ ३५ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
तोरणभङ्गकपोतप्रवेशशा¹⁶न्तिका नाम षट्चत्वारिंशोऽध्यायः ॥
१ ग. द. था । २ द. व्रतस्वेना तु । ३ क. तत्; ग. द. ते । ४ ख. ग. द. ताक्षतानि पुष्पाणि म° । ५ द. बद्धश्व । ६ द. न्य । ७ द. हुतः कुधे ततः । ८ द. °ष्णो । ९ क. णान् पु ।
१० क. शि । ११ द. देहे । १२ क. पहा । १३ द. प्नोत्यनन्तं चा । १४ क. ग. यु । १५ द. दिम । १६ द. °शान्तिकाध्यायो नाम षट् चत्वारिंशः ॥ छ ॥
२६६ समराङ्गणसूत्रधारे
अथ वेदिलक्षणं नाम सप्तचत्वारिंशोऽध्यायः ।
वेद्यश्चतस्रो विज्ञेया या पुरा ब्रह्मणोदिताः ।
वयं तां:¹ संप्रवक्ष्यामो नाम²संस्थानमानतः ॥ १ ॥
प्रथमा चतुरश्रा स्यात् सभद्रा च द्वितीयका³ ।
तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता⁴ ॥ २ ॥
यज्ञकाले तथोद्वाहे देवतास्थापनेषु च ।
नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥ ३ ॥
नृपाभिषेचने चैव शक्रध्वजनिवेशने ।
नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥ ४ ॥
चतुरश्रा तु या वेदि नवहस्ता समन्ततः ।
अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता⁵ ॥ ५ ॥
श्रीधरी सप्त विज्ञेया हस्तान्⁶ मानेन वेदिका ।
षड्हस्ता चैव शास्त्रज्ञैर्नलिनीह विधीयते ॥ ६ ॥
चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः ।
भद्रैस्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ॥ ७ ॥
श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता ।
नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥ ८ ॥
कर्तव्याः⁷ स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः ।
कुर्यान्मन्त्रवतीमिस्ता इष्टकाभिस्तु चाये(यि) ताः⁸ ॥ ९ ॥
चतुरश्रा ⁹यज्ञकाले विवाहे श्रीधरी स्मृता ।
देवतास्थापने वेदीं ¹⁰सर्वभद्रां निवेशयेत् ॥ १० ॥
नीराजने साग्निकार्ये तथा राजाभिषेचने ।
वेदी पद्मावती या¹¹ च तथा शक्रध्वजोच्छ्रये ॥ ११ ॥
१ क. तासां प्र । २ द. माम् । ३ द. काः । ४ द. ताः । ५ द. ताः । ६ क. स्तोन्मा ।
७ क. द. व्या । ८ क. का । ९ द. वायकाः । १० ख. ग. कः । ११ द. यां । १२ द. वेदी सर्वभद्रं ।
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २५७
चतुर्मुखा तु कर्तव्या सोपानैश्च चतुर्दिशम् ।
प्रतीहारसमायुक्ता चार्थचन्द्रोपशोभिता¹ ॥ १२ ॥
चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता ।
काञ्चनै राजनैस्ताम्रैर्मृन्मयैः कलशैस्तथा ॥ १३ ॥
कोणे कोणे तु विन्यस्तैर्बल्गुवानरभूषितैः ।
स्तम्भप्रमाणं वेदीनां कार्यं छायवशेन चै² ॥ १४ ॥
एकेन द्वित्रिभिर्वापि च्छायैः सामलसॉरकैः ।
स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥ १५ ॥
परमान्नेन वाभ्यज्य तान्³ विन्यस्येद् यथातथम् ।
देवै⁴ताः⁵ पूजयित्वा तु ब्राह्मणान् स्वस्ति वाचयेत् ॥ १६ ॥
चतुर्विधमितीरितं यदिह वेदिकलक्षणं
समग्रमपि वर्तते मनसि यस्य तच्छिल्पिनः ।
स याति भुवि पूज्यतामवनिभोक्तुराप्नोति च
श्रियं स्थपतिसंसदि स्फुरति चास्य शुभ्रं यशः ॥ १७ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः ।
अथ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ।
अतः परं गृहादीनामप्रशस्तसमुच्छ्रितम् ।
क्रियते कथितं यस्मादेकत्र सुसमं भवेत् ॥ १ ॥
रक्षोम्बुनाथकीनाशमरुद्दहनदिक्प्लवां⁶ ।
मध्यप्लवा च भूर्व्याधिदारिद्र्यमरकावहा ॥ २ ॥
वह्निप्लवा वह्निभये मृतये दक्षिणँ⁷प्लवा ।
रुजे रक्षःप्लवा प्रत्यक्प्लवा धान्यधनच्छिदे ॥ ३ ॥
१ द. ताः । २ द. ण । ३ द. न् । ४ ख. ग. ड. र । ५ द. देवतानु (न् ) पूजयित्वात्
(च ) ब्राह्मणा स्वस्ति वाचयेत् । ६ द. निप्लवा । ७ द. णं ।
वा. ३३
२९८ समराङ्गणसूत्रधारे
कलहाय प्रवासाय रोगाय च मरुत्प्लवा ।
मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥ ४ ॥
तुषास्थिकेशकीटत्वं(क्)शङ्खभस्मोषरान्विताम् ।
कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥ ५ ॥
चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् ।
पशुनाशनमाषाढे शून्यं भाद्रपदे कृतम् ॥ ६ ॥
आश्विने कलहाय स्यात् कार्त्तिके भृत्यनाशनम् ।
माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥ ७ ॥
पावकस्य पदे पृष्ठवंशस्यापिं च पश्चिमे ।
पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥ ८ ॥
पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद् भवेत् ।
उदङ्गूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥ ९ ॥
यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् ।
प्राग्वास्तुनि (र्तु) कुर्वीत प्रासादं मन्दिरं पुरे ॥ १० ॥
वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् ।
यत् स्यान्मुखविनिष्क्रान्तं वलितं तत् प्रकीर्तितम् ॥ ११ ॥
चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते ।
विसूत्रं कर्णहीनं स्यात् फलमेषां प्रचक्ष्महे ॥ १२ ॥
वलिते चलति स्थानं चलिते विग्रहो भवेत् ।
भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥ १३ ॥
मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् ।
छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥ १४ ॥
मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम् ।
विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी ।
भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥ १५ ॥
१ द. वे। २ द. भासा। ३ द. केसीकीटत्वप्लषभस्मोषरान्वितं; ख. ग. 'सी' । ४ ख. ग.
त्वप्लषभ । ५ द. भ । ६ क. अश्विन्ये क; द. अं । ७ द. तः । ८ द. तः । ९ द. विरुद्धं । १०
द. विचित्र । ११ क. शुभम्; द. शुतं । १२ क. ग. र्तु । १३ क. गान् ।
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २१९
सपादं सत्रिभागं वा सार्धं द्विगुणमेव चं¹ ।
यत् स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥ १६ ॥
यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा ।
मूषयां² रहितं वेश्म तदनिष्टफलप्रदम् ॥ १७ ॥
पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता³ ।
गृहे न शस्यते शाला देवागारे तु शस्यते ॥ १८ ॥
अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते ।
परॅस्परविरोधाय⁴ तद् वेश्म गृहिणोस्तयोः ॥ १९ ॥
सशल्यं पादहीनं च समसन्धि शिरोगुरुँ⁵ ।
वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥ २० ॥
वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते ।
तँदङ्गं⁶ वास्तुनस्तस्य च्छिन्नां⁷ तेनेति निर्दिशेत् ॥ २१ ॥
छिन्नाङ्गं विकलं तत् स्याद् भीतिदं सर्वदोषकृत् ।
तद्भर्तुर्भज्यतेऽङ्गं तद् वेधस्तस्याफलोऽन्यथा ॥ २२ ॥
स्वगृहद्वयमध्येन निर्गाहो यदि वर्त्मनः ।
द्वारवेधोदितान् दोषांस्तदा प्राप्नोति निश्चितम् ॥ २३ ॥
मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः ।
मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥ २४ ॥
उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः ।
प्रत्यक्षाग्र इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥ २५ ॥
गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः ।
उत्सङ्ग⁸ इति स प्रोक्तः पूर्णबाहुः ९प्रदक्षिणः† ॥ २६ ॥
वामतो हीनबाहुः स्यात् प्रत्य॑क्षो¹⁰ वा (क्षो य) स्तु पृष्ठतः ।
चतुर्थो¹²ऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥ २७ ॥
१ द. वा । २ द. मूखो । ३ द. नि । ४ द. परविरोधायातद्गवे तद्° । ५ ख. ग. द. रुः ।
६ क. य । ७ द. उच्छांग । ८ ख. सं । ९ द. ˚बाहुमुद˚ । १० ख. ‘मु’ । ११ द. प्रत्युक्तवात्तु˚;
ख. त्युक्तो वा । १२ द. ˚ष्टो ।
† ‘पूर्णबाहुस्तु’ दक्षिणे इति तु पाठो युक्तः ।
२६० समराङ्गणसूत्रधारे
उत्सङ्गाख्ये प्रवेशे स्यात् प्रजाहानिः कुटुम्बिनः ।
धनधान्यक्षयो वास्य मरणं वा ध्रुवं भवेत् ॥ २८ ॥
पूर्णबाहौ पुत्रपौत्रा धनधान्यसुखानि च ।
भवन्ति वसतो³ नित्यं गृहिणस्तत्र वास्तुनि ॥ २९ ॥
अल्पमित्रो गृही हीनबाहौवत्यल्पबान्धवः ।
स्याद् वाल्पवित्तो जीयेत स्त्रीभिः पीड्येतै वामयैः ॥ ३० ॥
प्रत्यक्षाय प्रवेशँस्तु विहिनो यत्र वेश्मनि° ।
तस्मिन् निवसतं पुंसां निश्चितः स्याद् धनक्षयः ॥ ३१ ॥
मूषास्वस्थानयुक्तासु शालाभेद इति स्मृतः ।
प्राप्नोति तत्र निवसन् मृत्युं दुःखं सरोगताम् ॥ ३२ ॥
उदग्दक्षिणशालासु पूर्वापरगतासु च ।
अन्यथा वा स्थितं द्वारं वधबन्धनकारकम् ॥ ३३ ॥
मूषागतान् भ्रमान् कुर्यान्न शालां प्रतिभेदयेत् ।
भ्रमभग्नासु शालासु विपद्यन्ते कुटुम्बिनः ॥ ३४ ॥
शालाभेदो भवेद् यत्र पृष्ठतः पार्श्वतोऽपि वा ।
धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् ॥ ३५ ॥
यत्र प्रत्यङ्मुखे शाले गृहं तत् स्याद् विकोकिलम् ।
आयुश्चतुष्पदं धान्यं वसतां तत्र नश्यति ॥ ३६ ॥
सीमाशालाप्रभिन्नस्य प्रासादस्य गृहस्य च ।
अंस्थिरा जायते ऋद्धिः स्थितिश्च न भवेच्चिरम् ॥ ३७ ॥
सर्वदोषकरि ज्ञेया गर्भे चन्द्रावलोकिता ।
मूषां विना विनाशाय कामोच्छित्त्यै गवाक्षकः ॥ ३८ ॥
यदा गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते ।
दायद्यं जायते भर्तुस्तदानीमदुस्सहम् ॥ ३९ ॥
१ द. ज । २ द. ºहा । ३ भवतो निं° । ४ द. ह । ५ द. पीड्यते वासयैः ।
६ द. ºसा° । ७ द. नः । ८ ग. थ । ९ द. प्रासादे रूपगृ° । १० द. स्थिरान् । ११ ख. ग.
कनां; द. कना ।
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६१
गर्भादुभयतो गण्डौ कक्षे स्तैः¹ कर्णभित्तिगे ।
दक्षिणोत्तरयोः कुक्षी पृष्ठतः पृष्ठमादिशेत् ॥ ४० ॥
स्थापितद्वारसंरोधे गृहिणो जायतेऽ²श्मरी³ ।
द्वारे तु विहिते तँ⁴स्मिन्ननर्थस्तस्य जायते ॥ ४१ ॥
पूर्वद्वारनिरोधं तुँ⁵ नवमार्गं कदाचन॑⁶ (?) ।
श्रोत्रै²रोधॆ³ऽश्मरीदोषः कृत्तश्रोत्रेह्यनं⁸म्यता (?) ॥ ४२ ॥
कृत्तानि यत्र ⁹चीयन्ते गवाक्षालोकनानि चै¹⁰ ।
तत्र प्रसूतिर्न भवेन्निष्पन्नापि विनश्यति ॥ ४३ ॥
चीयमाना यदा भित्तिर्दक्षिणा स्याद् बहिर्मुखी¹² ।
तदा व्याधिभयं विद्यान्नृपदण्डभयं तथा ॥ ४४ ॥
यदा तु पश्चिमं कुड्यं प्रयाति बहिरग्रतः ।
धनहानिं विजानीयाच्चौरेभ्यश्च भयं तदा ॥ ४५ ॥
उत्तरं तु यदा कुड्यं चीयमानं बहिर्व्रजेत् ।
गृहभर्तुश्च कर्तुश्च व्य॑¹³सनं स्यात् तदा महत् ॥ ४६ ॥
यदाग्रं चीयमानायाः पूर्वभित्तेर्बहिर्व्रजेत् ।
तदा गृहपतेस्तीव्रं¹⁴ राजद्ण्डं¹⁵भयं भवेत् ॥ ४७ ॥
प्राग्दक्षिणो यदा क॑¹⁶र्णश्चीयमानो बहिर्व्रजेत् ।
तत्राग्निभीतिरतुला संशयश्च प्रभोर्भवेत् ॥ ४८ ॥
बहिर्मुखो यँ¹⁷दा गच्छेत् कर्णौ दक्षिणपश्चिमः ।
कलहोपद्रवस्तत्र स्याद् भार्यायाश्च संशयः ॥ ४९ ॥
यँ¹⁸त्रोत्तरापरः कर्णश्चीयमानो व्रजेद् बहिः ।
पुत्रवाहनभृत्यानां भवेत् तस्मिन्नुपद्रवः ॥ ५० ॥
१ द. स्तिकर्त्त । २ क. क्षौ । ३ द. तेस्मरी । ४ ग. न्य; द. त्य । ५ द. दं तु तं । ६
द. नः । ७ द. स्तोत्ररोधस्मरी दोष कृतश्रोत्रे ह्यलंषता । ८ ख. नंषता । ९ ख. ता; द. कृतानि यत्र
वी(दी)र्यन्ते गवाक्षं । १० क. यी, ख. वी । ११ द. तु । १२ क. खा । १३ द. व्या ।
१४ द. त्र. । १५ द. ण्डं । १६ द. कर्णं श्चीं० । १७ द. यत्र । १८ द. यत्रोदग्व्यश्रमः क० ।
२६२ समराङ्गणसूत्रधारे
यदा प्रागुत्तरः कर्णो बहिर्गच्छति वेश्मनः ।
तदा¹ गवां वृषाणां च गुरूणां च क्षयो भवेत् ॥ ५१ ॥
चतस्रो भित्तयो यस्य बहिर्निर्यान्ति वेश्मनः ।
चीयमानांस्तदत्रोक्तं मन्दिरं मल्लिकाकृति³ ॥ ५२ ॥
तादृग्⁴ गृहे न तत्रायो व्ययो भवति यादृशः ।
कर्शितोऽस्यैव दोषेण तस्य भर्त्ता पलायते ॥ ५३ ॥
संक्षिप्यते तु यद् वेश्म चीयमानं समन्ततः ।
संक्षिप्तमिति तज्ज्ञेयं तत्र राजभयं भवेत् ॥ ५४ ॥
यत् स्यादन्तेषु संक्षिप्तं विस्तृतं चापि मध्यतः ।
मृदङ्गाकृतिसंस्थानं तत्र व्याधिभयं भवेत् ॥ ५५ ॥
आद्यन्तविस्तृतं⁵ यत् स्यात् संक्षिप्तं चापि मध्यतः ।
मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥ ५६ ॥
विषमैलन्नतः कर्णैर्धनक्षयकरं गृहम् ।
भित्तिष्वपि कर्णेषु प्रागुक्तं फलमादिशेत् ॥ ५७ ॥
मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन ।
मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥ ५८ ॥
द्वारं द्वारेण वा विद्धमशुभायोपपद्यते ।
अनिष्टद्रव्यसंयुक्तं धनधान्यविनाशनम् ॥ ५९ ॥
नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति ।
अयोग्यं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥ ६० ॥
नवं पुराणसंयुक्तं द्रव्यं तु कलिकारकम् ।
न मिश्रंजातिद्रव्योत्थं द्वारं वा वेश्म वा शुभम् ॥ ६१ ॥
गृहस्थानेषु यद् द्रव्यमधिवास्य प्रतिष्ठितम् ।
तच्चालनेन चलनं गृहभर्तुः प्रजायते ॥ ६२ ॥
१ द य । २ द. न । ३ द. ॰तिः । ४ द. ॰र्गृवे न तत्रायो जाया भवति तादृशः । ५
ख. ता । ६ द. विस्तरं । ७ द. त । ८ द. य । ९ क. द्ध; ख. ग. ध्रं । १० द. न ।
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६३
अन्यवास्तुच्युतं द्रव्यमन्यवास्तौ न योजयेत् ।
प्रासादे न भवेत् पूजा गृहे च न वसेद् गृही ॥ ६३ ॥
द्रव्येण देवदग्धेन भवनं यद् विधीयते ।
न तत्र वसति स्वामी वसन्नपि विनश्यति ॥ ६४ ॥
सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता ।
द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥ ६५ ॥
प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता ।
त्रिपञ्चसप्तमी भर्तुर्गृहदारा न शोभना ॥ ६६ ॥
निम्नोनतं करालं च सम्मुखं पृष्ठदेशगम् ।
वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥ ६७ ॥
निम्ने स्यात् स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते ।
सम्मुखे सुतपीडा स्यात् पृष्ठगे चपलाः स्त्रियः ६८ ॥
वामे वित्तक्षयो द्वारि(रे)भवत्यग्रतरे प्रभोः ।
द्वारं तस्मान्न कर्तव्यमीहग्रूपं विचक्षणैः ॥ ६९ ॥
नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः ।
द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥ ७० ॥
इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम् ।
निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥ ७१ ॥
यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च ।
भीषणानी च यानि स्युर्न कुर्यात् तानि वेश्मसु ॥ ७२ ॥
स्वयमुद्घाटितं द्वारमुच्चाटनकरं भवेत् ।
धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥ ७३ ॥
स्वयं यत् पिहितं द्वारं तद् भवेद् बहुदुःखदम् ।
सशब्दं भयकृत् पादशैथिलं गर्भपातनम् ॥ ७४ ॥
१ क. ख. स्तुनि यो; द. वास्तु नियो˚ । २ द. ती । ३ द. ˚वो । ४ द. ˚यां । ५ द. न्सु˚ ।
६ द. पृष्ठं त्वे च˚ । ७ द. ˚परि रक्षणैः ॥ ८ द. ˚व्यं । ९ द. काः । १० द. च । ११ द. द्वा˚ ।
१२ द. वृद्ध˚ । १३ द. पिहति । १४ द. पात˚ । १५ द. स्य ।
२६४ समराङ्गणसूत्रधारे
द्रव्यं नाधोमुखं कार्य प्रत्यग्याम्याननं न च ।
पश्चिमागे परिक्लेशो दक्षिणाग्रे तु³ शून्यता ॥ ७५ ॥
स्तम्भद्वारं च भित्तिं च विपरीतं¹ न कारयेत् ।
अमीषां वैपरीत्येन दोषाः स्युर्बहवो नृणाम् ॥ ७६ ॥
मूलसूत्रानुसारेण कर्तव्या भूमिकोपरि ।
उपर्युपरि यद् वेश्मसमं² संतापकारकम् ॥ ७७ ॥
अधोभूमौ क्षणा ये स्युस्तत्समांश्चोर्ध्वभूमिषु ।
परित्यजन्नपहितां⁴(?) न कुर्वीत यथोत्तरम् ॥ ७८ ॥
शाला निम्ना भवेद् यस्मिन्नालिन्दस्त्व⁵धिको भवेत् ।
निधनं जायते तत्र सदा शोकभयानि च ॥ ७९ ॥
मूलद्वारानुसारेण द्वाराण्युपरिभूमिषु ।
कुर्याद् भयप्रदानि⁶ स्युर्विहितान्यन्यथा पुनः ॥ ८० ॥
क्षुद्रय⁹प्रदमाध्मानं⁷(तं) कुब्जं कुलविनाशनम् ।
अत्यर्थं पीडितं पीडां करोत्यन्तेनतं क्षयम् ॥ ८१ ॥
प्रवासो बाह्यविनते दिग्भ्रान्ते दस्युतो भयम् ।
मूलद्वारं क्षयं कुर्याद् विद्धं द्वारान्तरेण यत् ॥ ८२ ॥
प्रवासो भृत्यंजो¹⁰ द्वेषो विद्धे चत्वररथ्यया ।
नाँशं¹¹ द्रव्यं ध्वजाविद्धं वृक्षेण शिशुदूषकम् ॥ ८३ ॥
पङ्कविद्धे भवेच्छोकः सलिलस्राविणि व्ययः ।
कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥ ८४ ॥
स्तम्भेन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः ।
मानादभ्यधिके द्वारे राजतो जायते भयम् ॥ ८५ ॥
व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत् ।
व्याधयः श्वभ्र¹²विद्धेन धनस्य च परिक्षयः ॥ ८६ ॥
१ क. तां । २ ख. ग. समस्तं ता; द. °समस्तं ताप° (°समस्संताप°) । ३ ग. द. तू ।
४ ख. ग. द. ताः । ५ द. °न्दस्तु (अ)थ को° । ६ क. न । ७ द. न । ८ द. निवासं । ९
क. ग. न्तं । १० ख. ग. द. मृत्यजा दोषा वि° । ११ ख, ग, श; द. स । १२ द. शु ।
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६५
देवध्वजेन बन्धः स्यात् सभयैश्वर्यसंक्षयः ।
सन्निपातभयं वाप्या तुल्या दृष्ट्वमाकृते(?) ॥ ८७ ॥
हृद्रुक् कुलालचक्रेण दारिद्र्यं वारिणा भवेत् ।
व्याधिरुक् कचकूटेन आपाकेन(?) सुतक्षयः ॥ ८८ ॥
निश्चँ(स्व)तोदूखलेन स्याच्छिलैै्या चाश्मरी भवेत् ।
तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥ ८९ ॥
दारिद्र्यं छायया विद्धे भवेद् द्वारे कुटुम्बिनः ।
स्थलस्पन्दनवल्मीकैर्विद्देशगमनं भवेत् ॥ ९० ॥
कृशं विकृतमत्युच्चं करालं शिथिलं पृथु ।
वक्रं विशालमुत्तानं शू(स्थू)लाग्रं ह्रस्वकुक्षिकम् ॥ ९१ ॥
स्वपादचलितं ह्रस्वं हीनकर्णं मुखानतम् ।
पार्श्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥ ९२ ॥
तत् करोति क्षयं घोरं विनाशं स्वामिसम्पदः ।
वसतां कलहं नित्यमतस्तत् परिवर्जयेत् ॥ ९३ ॥
अन्तर्द्वाराद् बहिर्द्वारं नोच्चं कुर्यान्न सङ्कटम् ।
उच्चं विसङ्कटं वापि तच्छिवाय न जायते ॥ ९४ ॥
पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात् कथञ्चन ।
कर्तुस्तदा विनाशः स्यात् कुलस्य च परिक्षयः ॥ ९५ ॥
तुला उपतुला वा स्युर्द्वारि तिर्यग् यदा कृताः ।
दारिद्र्यव्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥ ९६ ॥
अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे ।
वित्तायुषोस्तदाल्पत्वमनारोग्यं च जायते ॥ ९७ ॥
उदुम्बरे(वि)निहिता(नि?)ललाटी नाम सा तुला ।
दूषणं मरणं वापि कन्यानां विदधाति सा ॥ ९८ ॥
१ ख. द. द्र; ग. द्रष्ट्व; द्र । २ द. द्रं । ३ क. कतरच । ४ क. श्वि । ५ द. ॰ला ।
६ द. स्पं° । ७ द. वक्त्रं सिलामुत्तानं च शूलाग्रं लम्बकुं° । ८ ख. लम्बकु । ९ द. न्ध्ये° ।
१० द. हृं° । ११ द. जा । १२ द. छा । १३ ख. भल्ला ।
† कन्दकूटकमिति उपरि वक्ष्यते ।
वा. ३४
२६६ समराङ्गणसूत्रधारे
उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि ।
तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥ ९९ ॥
तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी ।
वसतो¹ व्यसनं कुर्यात् कुटुम्बस्यासुखं च सा ॥ १०० ॥
यदि भारतुलैकापि मध्ये विद्धा कथञ्चन ।
तदा वराङ्गं भज्येत धनं च परिहीयते ॥ १०१ ॥
भित्तिभेदो न कर्तव्यस्तुलाग्रैरखिलैरपि ।
कुर्याद् ब्रह्मपदन्यस्तो भारपट्टः कुलक्षयम् ॥ १०२ ॥
अयुक्तगोर्युक्तयोर्वा² सन्धिश्चेद् भारपट्टगे³ ।
सन्धौ स्यात्⁴ तत् सुतो ज्येष्ठः कर्तुश्चापि विनश्यति ॥ १०३ ॥
अनुवंशं न भुञ्जीत न शयीत कदाचन ।
भुञ्जानस्यार्थनाशः स्याच्छयानस्य महारुर्जः ॥ १०४ ॥
नाशोऽनुवंशं रोगाः स्युस्तिर्यक्स्थे रक्षसो भयम् ।
शयनागारविन्यस्ते मरणं नागदन्तके⁷ ॥ १०५ ॥
कर्णवात्( ? )पक्षिराङ्घण्टाध्वजच्छत्रकुमारकान् ।
सिंहकर्णकपोतालिं गृहेषु परिवर्जयेत् ॥ १०६ ॥
इन्द्रकीलं शुकं तुम्बीमर्धवंशं च वेश्मनि ।
न कुर्यात् तत्र विहिताः सर्वदोषावहा यतः ॥ १०७ ॥
अतिश्लिष्टचिरोत्पन्नं कृशद्रव्यमपाहितम् ।
अप्रतिष्ठितसंस्थानं गृहं नमति पञ्चधा ॥ १०८ ॥
अतिस्थूलेन ह्रस्वेन शरीरेण यथा नरः ।
विरूपो दुर्बलश्चैव तथा द्रव्येण मन्दिरम् ॥ १०९ ॥
जीर्णं घुणकृ(क्ष)तं मिश्रं हीनं वक्रं विधिच्युतम् ।
चण्डं तुण्डं वक्रक्रोगं सन्धिविद्धालपमूलके ॥ ११० ॥
१ द. थ । २ द. ॰र्वासंधिश्चेततारप॰ । ३ क. गः । ४ द. स्यां । ५ द. कर्नायान्वा ।
६ द. ॰भुजः । ७ द. दन्तिके । ८ स. र्ता । ९ ख. ग. मूर्व; द. मूर्द्ध॰ । १० द. ॰नेत्रं ।
११ ख. ग. पाह; द. ॰हृत । १२ द. स्कारं । १३ क. गु ।
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६७
वज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत् ।
भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥ १११ ॥
पातितान् वर्जयेद् वृक्षान् द्विपाश्वांग्रिजलानिलैः ।
प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ॥ ११२ ॥
मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान् ।
चतुष्पथत्रिकमहानदीसङ्गममार्गजान् ॥ ११३ ॥
देवनायतनजातानूर्ध्वशुष्कान् क्षतच्छदान् ।
वल्लीपिनद्धान् सुषिरकोटरग्रन्थिसङ्कुलान् ॥ ११४ ॥
याम्यापराशापतितांस्त्यजेत् कण्टकिनोऽपि च ।
कपित्थोडुम्बरौश्वत्थशिरीषवटचम्पकान् ॥ ११५ ॥
कोविदारधवारिष्टश्लेष्मातकविभीतकान् ।
किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ॥ ११६ ॥
मर्माणि यत्र पीड्यन्ते द्वारैर्भित्तिभिरेव वा ।
दारिद्र्यं कुलहानिं वा गृहिणस्तत्र निर्दिशेत् ॥ ११७ ॥
स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम् ।
सङ्ग्रहैर्बन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥ ११८ ॥
मर्मस्थानस्थितैः कार्यैर्भर्तुः कायो निपीड्यते ।
मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥ ११९ ॥
गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः ।
कापिच्छुकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ॥ १२० ॥
षड्दारुकान्यनुसरागवाक्षालोकनानि च ।
मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥ १२१ ॥
स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः ।
वातायनैर्नागदन्तैर्द्वारमध्ये निपीडिते ॥ १२२ ॥
१ द. श्च । २ द. जुष्टान् चै° । ३ द. ज्ञा । ४ ख. गः च्छदावृतान्; द. °न्
भङ्गच्छेदावृतान् । ५ द. °रो । ६ द. नि । ७ द. धाः । ८ द. समं° । ९ द. लैः ।
१० द. त्थ । ११ द. धर्मस्थानानि° ।
२६८ समराङ्गणसूत्रधारे
व्याधयः संप्रवर्धन्ते धनैनाशः कुलक्षयः ।
राजदण्डभयं चै स्यादपत्यानां च पीडनम् ॥ १२३ ॥
षड्दारुकाणां मध्येषुं द्वारमध्येषु वा पुनः ।
कर्णद्रव्यादिभिर्विद्धेष्वेवतदेवाद्दिशेत् फलम् ॥ १२४ ॥
संविद्धा नागदन्तैर्या स्तम्भैर्वातायनैस्तथा ।
शय्या शस्त्राद् भयं भर्तुः कुर्यात् तस्करतोऽपि वा ॥ १२५ ॥
गृहमध्ये कृतं द्वारं द्रव्यकोशविनाशनम् ।
आवहेत् कलहं भर्तुर्भार्या वास्य प्रदूषयेत् ॥ १२६ ॥
द्रव्येणैकोत्तरेणापि महामर्मणि पीडिते ।
सर्वस्वनाशो गृहिणो मरणं वा ध्रुवं भवेत् ॥ १२७ ॥
द्वारस्तम्भतुलालिन्द श्रं(च)यदोषैः संमीरितैः ।
विसूत्रे नागदन्तेऽपि तच्छून्यं जायते गृहम् ॥ १२८ ॥
विभागपदैहीनेषु रूपस्थानेषु वास्तुषु ।
यक्षमातृक्रियाद्येषु रोगान्मृत्युर्न संशयः १२९ ॥
कटुकण्टकिदुर्गन्धिगुह्यकाद्याश्रयान् द्रुमान् ।
न धारयेत् समीपस्थान् पुरप्रासादवेश्मनाम् ॥ १३० ॥
बदरी कदली चैव दाडिमी बीजपूरिका ।
प्ररोहन्ति गृहे यत्र तद् गृहं न प्ररोहति ॥ १३१ ॥
द्रव्यं द्रव्याधिकं हन्ति कुलमायामतोऽधिकम् ।
उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥ १३२ ॥
स्तम्भाङ्गेर्भाित्तिभिः पट्टैः शीर्षकैर्भवनेस्तथा ।
आलोकनातोरणाद्यैश्छाद्यकैः कन्दकूटकैः ॥ १३३ ॥
हीरशाखोत्तमाङ्गैश्च तुलाभिः सन्धिपालकैः ।
अर्गलाग्रैर्वेदिकाभिर्व्यालैर्जालैश्च नूतनैः ॥ १३४ ॥
१ द. धनत्रासककुं । २ द. चः । ३ द. तु । ४ क. ख. तृ; द. 'भिदृद्ध्येवेदे' । ५ द. स्त ।
६ द. त । ७ द. बां । ८ क. न्दै । ९ ख. ग. द. स्व । १० क. ख. ग. द. कि । ११ द. शाद ।
१२ क. नः । १३ क. क्ष । १४ द. नवधारयस्रं । १५ द. ति ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६२
घातितैः पातितैर्नष्टैर्जायते गृहिणो ध्रुवम् ।
व्याधिदारिद्र्यदुःखार्तिर्निधनत्वं च जायते ॥ १३५ ॥
उच्चच्छायं छिद्रगर्भ भ्रमितं वमितं मुखे ।
हीनमध्यं नष्टसूत्रं³ शल्यविद्धं शिरोगुरु ॥ १३६ ॥
भ्रष्टाळिन्दकशोभं च विषमस्थं तुलार्ततलं ।
अन्योन्यद्रव्यविद्धं च कूँपदप्रविभाजितम् ॥ १३७ ॥
हीनभित्त्युत्तमाङ्गं च विनष्टं स्तम्भभित्तिकम् ।
भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥ १३८ ॥
विकृतं च गृहं भर्तुरनिष्टफलदायकम् ।
तस्माद् दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥ १३९ ॥
एवंविधं दोषकरं गृहं स्याद् भर्तुश्च कर्तुश्च यतस्तदेते ।
ज्ञेयाः सदा शिल्पिवरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्त्तिकांमैः
॥ १४० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ॥
अथ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः ।
त्रिदशानां नृपाणां च वर्णिनां च विशेषतः ।
उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥ १ ॥
पुरा ब्रह्मासृजत् पञ्च विमानान्यासुरद्विषाम् ।
वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥ २ ॥
तानि वैराजकैलासे पुष्पकं मणिकाभिधम् ।
हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥ ३ ॥
१ द. ˚र्त्ति तु व्यंचत्वं । २ ख. ग. द. नि । ३ क. त्रं स्वश । ४ द. त्यं । ५ क. सि ।
६ क. तु । ७ ख. ग. चतुष्षहप्रतिभा; द. जतुः पद प्रतिभा˚ । ८ द. स्यु । ९ द. य । १० द.
प्रकीर्त्तितामेः । ११ द. अपलक्षणो नामाष्टचत्वारिंशोध्यायः ॥छ॥ १२ द. र्त्ति । १३ द. सी ।
२७० समराङ्गणसूत्रधारे
आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः ।
सुरेशिने च विश्वेशो विमा³नानि यथाक्रमम् ॥ ४ ॥
बहून्यन्यानि चैवं स सूर्यादीनाम⁴कल्पय⁵त् ।
विशेषाँय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥ ५ ॥
प्रासादांश्च तदाकाराञ् शिलापक्केष्ट⁶कादिभिः ।
नगराणामलङ्कारहेतवे समकल्पय⁷त् ॥ ६ ॥
वैराजं चतुरश्रं स्याद् वृत्तं कैलाससंज्ञितम् ।
चतुरश्रोयताकारं ⁸विमानं पुष्पकं भवेत् ॥ ७ ॥
वृत्तायतं च मणिकमष्टाश्रिं स्यात् त्रिविष्टप⁹म् ।
तद्भेदाञ्¹⁰ श्रीमतोन्यांश्च विविधाँनै¹²सृजत् प्रभुः ॥ ८ ॥
ये यत्रे¹³ विहिता¹⁴ भेदाः पूर्वं कमलयोनिना ।
स¹⁵र्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥ ९ ॥
रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः ।
भद्रः श्रीकूट उष्णीषः शालौक्षो § गजयूथपः ॥ १० ॥
नन्द्यावर्तोंऽवतंसाह्वः स्वस्तिकः क्षितिं¹⁶भूषणः ।
भूजयो विजयो † नन्दी श्री¹⁷नेरुः प्रमदाप्रियः ॥ ११ ॥
व्यामिश्रो हस्तिजातीयः कुबेरो वसुधाधरः ।
सर्वभद्रो विमानां¹⁸ख्यो मुक्तकोणश्च नामतः ॥ १२ ॥
चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः ।
वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि²⁰ ॥ १३ ॥
वलयो दुन्दुभिः प्रान्तः पद्म²¹: कान्तश्चतुर्मुखः ।
मौण्डूकारख्यो²²ऽथ कू²³र्मश्च तालीगृह उल्लूपिकः ॥ १४ ॥
१ द. मू.। २ द. मा.। ३ द. मानसानि। ४ द. ये। ५ क. षाकेर्यय, ख. ग. षायग्रथो।
६ ख. ग. घ दारुभिः, द. पक्वेषु दारुभिः। ७ द. येन्। ८ द. रा। ९ द. स्ति। १० द. न्यां तु।
११ द. ॰धासोम्। १२ द. त्वः। १३ द. त्वा। १४ द. र्व्वन्ता॰। १५ क. क्षोऽथ म।
१६ द. वि। १७ क. ख. ग. या। १८ ग. मत्तः प्र। १९ क. ख. ग. नाङ्को; द. नांको। २० द.
पति। २१ द. द्य। २२ क. मान्दूका; ख. ग. द. मन्दुका;। २३ द. क।
§ शालाक्ष्व इति सञ्जणे पाठः। † सञ्जणे तु नन्द इति पश्यते।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। २७१
इति वृत्ताः समासेन प्रासादा दश कीर्तिताः ।
चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि¹ नामतः ॥ १५ ॥
भवो विशालः साम्मुख्यः प्रभवः शिबिरागृहः ।
मुखशालो द्विशालश्च गृहराजोऽमलो विभुः ॥ १६ ॥
एवमेते समुद्दिष्टाश्चतुरश्रायता दश ।
अथ वृत्तायतान् ब्रूमः प्रासादानभिधानतः ॥ १७ ॥
आमोदो रै²तिकस्तुङ्गश्चारुभूतिर्निषेवकः ।
सदा(?)निषेधः सिंहारख्यः सुप्रभो लोचनोत्सवः ॥ १८ ॥
एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश ।
अष्टाश्रीणां ३ च नामानि कथयामि समासतः ॥ १९ ॥
वज्रको नन्दनः शङ्खुर्मेखलो वामनो लयः ।
महापद्मश्च हंसश्च व्योमचन्द्रोदयाविति ॥ २० ॥
अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया ।
भवन्त्येवं चतुष्षष्टिर्लक्ष्मैषामधुनोच्यते ॥ २१ ॥
संस्थानमानविन्यासैर्भद्रस्तम्भादिसङ्ख्ययौ⁵ ।
एषां विशेषा वक्ष्यन्ते पृथक् पृथगनुक्रमात् ॥ २२ ॥
ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः ।
कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥ २३ ॥
ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः ।
भवन्ति सर्वप्रासादा⁶ ज्येष्ठमध्याधमक्रमात् ॥ २४ ॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।
कुर्यात् स्वारोहकाश्वासं पीठमंशसमुद्धृतम् ॥ २५ ॥
तथा तस्योपरि स्थाप्या हंसपृष्ठी⁹ समन्ततः ।
हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥ २६ ॥
१ द. म्नि । २ ख. ग. री; द. रीतिकस्तुंगश्वावभूति° । ३ द. अष्टाश्रीणां तु ना° । ४ क. तु ।
५ द. योः । ६ द. या । ७ द. द । ८ द. मा । ९ क. ष्ठा ।
२७२ समराङ्गणसूत्रधारे ।
ततः पीठस्य तस्यान्तर्द्विभागाय(या)मविस्तृतिः ।
प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥ २७ ॥
सार्धभागेन संछा स्यान् सार्धभागस्तु योऽपरैः(१) ।
छाद्य(द्य)त्रयं सकण्ठं स्यात् तेन सामलसारकम् ॥ २८ ॥
द्वारं भागोच्छ्रितं तस्य कार्य भागार्धविस्तृतम्।
संप्राग्रीवः स कर्तव्यश्चतुर्दशघरावृतः ॥ २९ ॥
ससौधाविन्दकश्चारुरुर्ध्वच्छाद्योपकर्षवान् ।
क्रियतेऽत्र यदा स्तम्भो(म्भैः)द्वाविंशत्या समावृतः ॥ ३० ॥
संपाग्रीवपरिष्कारो भागिकालिन्दशोभितः ।
मध्यप्रदेशे रुचकः प्रासादः परिकीर्तितः ॥ ३१ ॥
रुचकः ।
: कैर्णप्राग्रीवकैश्चित्रैः संप्राग्रीवश्च यो वृतः ।
द्वाभ्यां द्वाभ्यां गवाक्षाभ्यां चतुर्दिशमलङ्कृतः ॥ ३२ ॥
कपोतालीपरिक्षिप्तः शोभितो द्वारसम्पदा ।
तदानीं चित्रकूटारूयः प्रासादः सोऽभिधीयते ॥ ३३ ॥
चित्रकूटः ।
अयमेव पुनः षड्भिः स्तम्भैरपि चितो यदा।
प्राग्रीवकविहीनंश्च स भवेज्जालरूपकः ॥ ३४ ॥
सिंहपञ्जर इत्युक्तः प्रासादः स तदा शुभः ।
सिंहपञ्जरः ।
कर्णप्राग्रीवकौ द्वौद्वावस्यैव भवतो यदा ॥ ३५ ॥
अलिन्दकगतिस्थित्या तदा भद्रः प्रकीर्तितः ।
भद्रः ।
स्याच्चित्रकूट प्राग्रीवैश्चतुर्भिर्दिक्षुचतुष्टये ॥ ३६ ॥
१ द. तस्यां तद्विभागायविस्ततिः । २ ख. ग. स्त। ३ ख. वृत्तसमु । ४ ख. स्तम्भा
स्यान्; द. घा । ५ क. षु । ६ द. छतयं । ७ द. सं। ८ ख. ग. र्ध्व । ९ ख. ग. द. द्या।
१० ख. ग. न । ११ म्भं क. । १२ द. सा। १३ द. शुचकप्रासादो पूर्वकीर्तितः । १४ क. कै;
द. कर्ता । १५ द. क । १६ द. सा। १७ द. दः । १८ ख. ग. प । १९ दः वहीनस्य । २० द. क्षु ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७३
बहिरन्तश्चतुर्द्वारः श्रीकूट^१ इति नामतः ।
श्रीकूटः ।
षड्दारुकसमायुक्तै^२ प्राग्द्वारस्त्वयमेवं^३ चेत् ॥ ३७ ॥
प्रासादस्तम्भगर्भः^४ स्यात् तदोष्णीषोऽभिधीयते ।
उष्णीषः ।
चतुरंशकविस्तीर्णं षडंशविहितायति ॥ ३८ ॥
पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् ।
मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥ ३९ ॥
विधेयं गर्भभवनमलिन्दकपरिष्कृतम् ।
कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥ ४० ॥
भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता ।
तदग्रतोऽपरा सीमा कार्या भागान् षडायता^८ ॥ ४१ ॥
तिर्यक्स्था भांगविस्तीर्णा^९ प्रवेशद्वयशोभिता^१० ।
एष^११ शालागृहः( ?) स्तम्भैर्द्वाविंशत्या समावृतैः^१२ ॥ ४२ ॥
प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः ।
शालास्यः ।
पञ्चभागोन्मिते^१३ न्यासे क्षेत्रभागाष्टकायते ॥ ४३ ॥
पीठं कुर्यादुभैयतः^१४ ससोपानं शिलाचितम् ।
मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥ ४४ ॥
वि(द्वि)भागायामविस्तारं चतुरश्रं सुसंहितम्^१५ ।
पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥ ४५ ॥
तस्य^१६ कार्यं मुखं^१७ मध्ये पार्श्वतश्चयशोभितम् ।
सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा(ता) ॥ ४६ ॥
१ द. श्री । २ क. ख. ग. क्तं । ३ क. व. च; द. ॰मेव न् । ४ ख. ग. र्भस्य; द. गर्भस्य तदष्णीषोऽभि॰ । ५ द. ह । ६ द.पीठशाल । ७ क. ख. ग. यस्त; द. कार्यस्तस्याग्रवः शीवा भाग° ।
८ द. पजायता । ९ द. ना । .१० ख. ग. द. ताः । ११ क. ख. ग. द. षा । १२ ख. ग. ता; द. समानावृतः । १३ द. ॰गो निमित्न्यां॰ । १४ द. कुर्याद्द्वयतकार्यो । १५ ख. ग. द. ह । १६ ख. स्य मध्ये मुखं कार्यं पा । १७ द. मु ।
वा. ३५