समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 320, कुल 726 में से
संदर्भ में पढ़ेंतोरणभङ्गादिशान्तिर्नाम षट्चत्वारिंशोऽध्यायः । २६९
यवान्नप्रायभोजी च नित्यं होमपरायणः ।
गुरुविप्ररतश्चैव श्वेतमाल्याम्बरस्तथा¹ ॥ २६ ॥
गृही सगृहिणीकस्तु व्रतमेतत् समाचरेत् ।
श्वेतके पञ्चरात्रं च चित्रकण्ठे दशैव तत् ॥ २७ ॥
चित्रे पञ्चदशाहानि कृष्णे दिवसविंशतिः ।
व्रतस्थेन² तु कर्तव्यमग्निकार्यं मनोरमम् ॥ २८ ॥
यथालाभं समादाय तस्य देहं सपिच्छकम् ।
निकृन्तेत् खण्डखण्डानि विभागाष्टशतानि तैम्³ ॥ २९ ॥
घृतैःप्लुतानि पुण्यानि मधुलाजान्वितानि च ।
पञ्चवारुणसंज्ञेन वह्निकार्ये कृतेऽक्षतैः⁴ ॥ ३० ॥
तैतश्च⁵ मांसं जुहुयाद्ध्वंमात्रेण मन्त्रवित् ।
हुते क्रव्ये⁶ ततः क्षीरं दधिमध्वाज्यमेव च ॥ ३१ ॥
संपूजयेद् ग्रहान् सर्वान् ब्राह्मणान् वाचयेत् ततः ।
स्ववित्तपादं श्वेते तु विप्रेभ्यः प्रतिपादयेत् ॥ ३२ ॥
वित्तार्थं चित्रकण्ठे तु पादोनं सर्वचित्रके ।
कृष्णे⁸ सर्वधनत्यागः कर्तव्यो ब्राह्मणांत्⁹ पुनः ॥ ३३ ॥
एवं शान्तिर्भवेद् गेहे¹⁰ सर्वदोषक्षयार्वहा¹² ।
महतीं श्रियमाप्नोति धनलाभश्च जायते ॥ ३४ ॥
पुत्रैः पौत्रैर्वृद्धिमाप्नोत्यैनन्तामायुर्दीर्घं¹³ प्राप्नुयात् संयतात्मा¹⁴ ।
एतत् कृत्वा मुच्यते सर्वपापैर्मेघैर्यद्वच्छारदः शीतरश्मिः¹⁵ ॥ ३५ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
तोरणभङ्गकपोतप्रवेशशा¹⁶न्तिका नाम षट्चत्वारिंशोऽध्यायः ॥
१ ग. द. था । २ द. व्रतस्वेना तु । ३ क. तत्; ग. द. ते । ४ ख. ग. द. ताक्षतानि पुष्पाणि म° । ५ द. बद्धश्व । ६ द. न्य । ७ द. हुतः कुधे ततः । ८ द. °ष्णो । ९ क. णान् पु ।
१० क. शि । ११ द. देहे । १२ क. पहा । १३ द. प्नोत्यनन्तं चा । १४ क. ग. यु । १५ द. दिम । १६ द. °शान्तिकाध्यायो नाम षट् चत्वारिंशः ॥ छ ॥